प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 65, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ४७ तदेतद्वाङ्मात्रश्रवणमपि गुरुतरदुरितोदयाय । ( पुनरन्यतो गत्वा ) एते च शैवपाशुपतादयो दुरभ्यस्ताक्षपादमताः पशवः पाषण्डाः । अमीषां संभाषणादपि नरा नरकं यान्ति । तदेते दर्शनपथाद्दूरतः परिहरणीयाः । ( पुनरन्यतो गत्वा ) एते च— गङ्गातीरतरङ्गशीतलशिलाविन्यस्तभास्वद्वृसी- संविष्टाः कुशमुष्टिमण्डितमहादण्डाः करण्डोज्ज्वलाः । ते शिष्टपरिगृहीता विद्याः, बौद्धा अपि बाह्यपदार्थानामसत्त्वं ब्रुवते परन्तेषां मतानि नास्तिकमत्वेनानर्थप्रतिपादकतया चोपेक्ष्यन्ते, तत्र कारणीभूतं बौद्धानामपराधं नावधारयाम इति भावः ॥ ४ ॥ एतद्वाङ्मात्रश्रवणम्-वेदान्तिवचनाकर्णनम् , मात्रपदमाचारस्यात्यन्तहेयत्वं ध्व- नयति । गुरुतरदुरितोदया य-महत्तरपापोपपादकम् । अन्यतः-अन्यस्यां दिशि, सार्व- विभक्तिकस्तसिः । शैवाः-शिवभक्ताः पाशुपताः = शैवपाशुपताः आदयो येषां ते तथा । पाशुपतमतविषये प्रोक्तम्—'पशुः पाशः पतिश्चेति कथ्यते तन्त्रयं क्रमात् । पाशः प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ सम्बन्धो मलकम्र्म्माभ्यां शिवः प्रेरक ईश्वरः' । 'पतिर्विश्वस्य निर्माता पशुःपाशविलक्षणः' । अधिकमन्यतो बोध्यम् । दुरभ्यस्ताक्ष- पादमताः-असम्यग्गृहीतन्यायमत्ताः । इमे पाशुपतादयो न्यायमतनिष्ठापितं वेद- प्रामाण्यमङ्गीकुर्व्वन्तोऽपि तत्प्रकारग्रहणे विरुद्धमाचरन्तीति ते अक्षपादमत्तस्यायथा- वद्ग्रहणाद्दुरभ्यस्ताक्षपादमता उक्ताः । पाषण्डाः-मिथ्याचाराः, ज्ञानाचारयोर्भेद एव पाषण्डत्वमिति साम्प्रदायिकाः । पशवः-सर्वमविशेषेण पश्यन्तीति पशवो मिथ्यादृष्टयः । अमीषाम्-पाषण्डानाम् । संभाषणात्-वार्त्तालापात् । दर्शनपथात्- दृष्टिपातवर्त्मनः । परिहरणीयाः त्यक्तव्याः, यथाऽमी न दृष्टौ पतेयुस्तथा वर्त्तितव्य- मिति भावः । गङ्गातीरेति० गङ्गायास्तीरे तटे तरङ्गैरङ्गाजलवीचिभिः शीतला या शिला प्रस्तर- अतः इनकी बाते सुनना भी महापातकका कारण है । ( फिर दूसरी ओर जाकर ) ये शैव पाशुपत आदि बुरे ढङ्गसे अक्षपाद मतको जानने वाले पाखण्ड पशु हैं । इनसे बातें करनेसे भी लोग नरकगामी होते हैं । ( फिर दूसरी ओर जाकर ) ये-गङ्गातटमें तरङ्गशीतल शिलापर बिछे हुए आसन पर बैठकर कुशमुष्टिसे दण्डको मण्डित करके कमण्डलु लिये अक्ष सूत्रके प्रत्येक दाने पर अंगुली घुमाते हुए ये दाम्भिक ।