प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 66, कुल 274 में से
संदर्भ में पढ़ें४८ प्रबोधचन्द्रोदयम् पर्यायग्रथिताक्षसूत्रवलयप्रत्येकबीजग्रह- व्यग्राग्राङ्गुलयो हरन्ति धनिनां वित्तान्यहो दाम्भिकाः ॥ ५ ॥ ( पुनरन्यतो गत्वा ) एते त्रिदण्डव्यपदेशजीविनो द्वैताद्वैतमार्गपरि- भ्रष्टा एव । ( अन्यतो गत्वा विलोक्य ) अये, कस्यैतद्द्वारोपान्तनिखाताति- खण्डस्तत्र विन्यस्तायां कौशलपूर्वकमास्तीर्णायाम् भास्वत्यां प्रकाशशालिन्यां वृस्या- मासने संविष्टाः उपविष्टाः कुशमुष्टिमण्डितमहादण्डाः दर्भराशिशोभितदण्डधराः करण्डोज्ज्वलाः कमण्डलुभिः शोभाभृतः पर्यायेण क्रमेण ग्रथितम् पिनद्धम् यदक्षसूत्र- वलयम् मणिमालारूपम् तस्य प्रत्येकं बीजग्रहे मणिग्रहणे व्यग्राः चञ्चलाः अग्राङ्गु- लयः अङ्गुल्यग्रभागाः येषां ते तथोक्ताः दाम्भिकाः दम्भभाजः धनिनां समृद्धि- जुषाम् वित्तानि धनानि हरन्ति गृह्णन्ति, अहो आश्चर्यम् । अमी दम्भवृत्तयो गङ्गा- सीकरशीतलीकृतानि भास्वराण्यासनान्यधितिष्ठन्तः कुशसनाथदण्डधराः कमण्डलु- कृतशोभाभृद्भुजाः मणिमयाक्षमालाऽऽवर्त्तनव्यग्राङ्गुलयश्च सन्तो धनिनां धनानि वञ्चकवृत्त्याऽनया तान्प्रतार्य हरन्ति, न च तेऽमीषां वञ्चनावृत्तिमिमां बुध्यन्त इत्या- श्चर्यमित्यर्थः । ब्रुवन्तोऽस्यां सीदन्तीति वृसी, उपदेशकासनम् । कारण्डपदं कमण्डलु- परम् , तथा चोक्त कमण्डलुप्रकरणे स्मृतौ—'वेणुमान् स कमण्डलुः, करण्डः स्यात्' इति । एते हि त्रिदण्डिनो धनिजनवञ्चनायैव सुरधुनीतीरे भव्याण्यासनान्यध्यष्य कमण्डलूश्चाग्रतो निधाय तपोऽम्रं जनयितुमिव मणिमयाक्षमाला आवर्त्तयन्ति, नैतेषां वास्तविकी तपस्तृष्णा, तथात्वे तैरेकान्तस्य स्थानस्यान्वेषणं कृतं स्यादिति विवक्षितं बोध्यम् । पूर्वोक्तलक्षणं शार्दूलविक्रीडितं वृत्तम् ॥ ५ ॥ त्रिदण्डव्यपदेशजीविनः-त्रिदण्डिताया व्याजेन जीविकार्जनासक्ताः, न तु वस्तुतो विरक्ताः । द्वैताद्वैतमार्गपरिभ्रष्टाः, ते हि द्वैताद्वैतमतं भास्करप्रवर्त्तितमातिष्ठन्तेऽतः द्वैतमपि नातिष्ठन्ते न वाऽद्वैतम् , उभयस्वरूपं च किञ्चन न संभवति तेजस्तिमिर- योरिव परस्परविरुद्धयोर्द्वैताद्वैतयोः सामञ्जस्यासंभवादतः द्वैतादद्वैताच्चापि परिभ्रष्टा- श्च्युता एत इत्यर्थः । भास्करप्रवर्त्तितमतस्य द्वैताद्वैतरूपत्वं ग्रन्थान्तरतोऽवसेयम् । द्वारोपान्तेति ० द्वारोपान्ते द्वारदेशे निखातानि रोपितानि यानि प्रांशूनि उच्चानि वंशकाण्डानि वंशस्तम्भाः तेषु ताण्डवितानि वायुचञ्चलतया प्रवृत्तनृत्यानि धौतानि परिधानवस्त्राणि सितानि सूक्ष्माणि अम्बराणाम् उत्तरीयादिप्रकारकाणाम्। सहस्राणि लोग धनिकोंके धनका हरण कर रहे है ॥ ५ ॥ ( फिर दूसरी ओर जाकर ) य ह किसका आश्रम मण्डल है जिसके दरवाजे पर गड़े हुए वंशस्तम्भों पर डाले गये