प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 59, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ४१ तेषां ब्रह्मभिदां विधाय विधिवत्प्राणान्तिकं विद्यया प्रायश्चित्तमिदं मया पुनरसौ ब्रह्मैकतां नीयते ॥ ३१ ॥ तद्भवतु । प्रस्तुतविधानाय शमादीन् योजयामः । ( इति निष्क्रान्तौ मतिविवेकौ ) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये प्रथमोऽङ्कः ॥ १ ॥ मृत्योः पदं जननमरणस्थानं संसारं प्रापितः मया विवेकेन तेषां पूर्वोक्तगुणकानाम् ब्रह्मभिदाम् ब्रह्मप्रतियोगिकभेदकरणास् विद्यया आत्मज्ञानेन विधिवत् शास्त्रोक्त- प्रकारेण इदं प्राणान्तिकं प्रायश्चित्तं विधाय असौ आत्मा पुनः भूयः ब्रह्मैकताम् ब्रह्माभेदम् । नीयते प्राप्यते । येऽहङ्कारादयो ब्रह्मरूपतया जगदादेः शाश्वतस्य प्रभो- श्चात्मनोऽहङ्कारावेशनेन देहाद्यात्मकतां समायोज्य देहसम्बन्धद्वारकं जननमरण- सम्बन्धं व्यधुस्तेषां पाप्मनामहङ्कारादीनां प्राणान्तिकं प्रायश्चित्तं शास्त्रप्रक्रियया विधाप्य विद्याप्रकाशद्वारा विवेकोऽहं तमात्मानं पुनर्ब्रह्मात्मतां प्रापयामीति भावः पूर्वोक्तमेव वृत्तम् ॥ ३१ ॥ अत्र भेदो नाम मुखसन्धैरेकादशमङ्गमुक्तं, तलक्षणं यथा—‘भेदः प्रोत्साहकरणम्’ । प्रस्तुतविधानाय—प्रक्रान्तस्यात्मवन्धनिवृत्तिरूपस्य कार्यस्य विधानाय सम्पादनाथ । शमादीन्-शमदमप्रभृतीन् । इति मैथिलपण्डित-श्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' प्रथमाङ्क—'प्रकाशः' । फिर उसे ब्रह्मात्मत्व प्राप्त कराया जाता है ॥ ३१ ॥ इसलिये प्रस्तुत कार्य सिद्ध करनेके लिये शमादिको व्यापारित करता हूँ । ( मति तथा विवेकका प्रस्थान ) प्रथम अङ्क