प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 58, कुल 274 में से
संदर्भ में पढ़ें४० प्रबोधचन्द्रोदयम् मतिः—आर्यपुत्र, यद्येवं कुलप्रभोर्दृढग्रन्थिनिबद्धस्यापि बन्धमोक्षो भवति तदा तया नित्यानुबन्ध एवार्यपुत्रो भवत्विति सुष्ठु मे प्रियम् । (अज्जउत्त, जदि एवं कुलप्पहुणो दिडगंथिनिबद्धस्स वि बन्ध मोक्खो भोदि तदो ताए णिच्चानुबन्धो जेव्व अज्जउत्तो भोदु त्ति सुट्ठु मे पिअम् ) राजा—प्रिये, यद्येवं प्रसन्नासि सिद्धास्तर्ह्यस्माकं मनोरथाः । तथा हि— बद्ध्वैको बहुधा विभज्य जगतामादिः प्रभुः शाश्वतः क्षित्वा यैः पुरुषः पुरेषु परमो मृत्योः पदं प्रापितः । शान्तिदान्त्युपरतितितिक्षादिकं स्मारयति, तदित्थं बोधोदयोऽवश्यं भावीति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् ॥ ३० ॥ अत्रोद्भेदो नाम मुखसन्धेर्दशममङ्गमनुक्तं, गूढार्थभेदसूचनात् , तथा च तल्लक्षणम्— 'उद्भेदः स परिक्षेयो यत्र गूढार्थसूचनम्' इति । कुलप्रभोः—आत्मरूपस्य वंशस्वामिनः । दृढग्रन्थिनिबद्धस्य-अहङ्काररूपेण ग्रन्थिना दुरायासेन बन्धनेन बद्धस्य । बन्धमोक्षः-अहङ्कारनिवृत्तिः । तया-उपनिषदा नित्यानुबन्धः-सततसंसक्तः । यदि, भवत्युपनिषदासक्ते आत्मनो बन्धनिवृत्तिः प्रबोधोदयद्वारा जायते । तदाऽहं भवतस्तस्यां सार्वदिकीमासक्तिमपि सोढुं क्षमेति तया मत्या स्वस्य परोपकारार्थं तत्परतारूपा शक्तिरावेदिता । एवं प्रसन्ना—स्त्रीजनेषु दुर्लभमीदृशं त्यागं पत्युः पराङ्गनाऽऽसक्तिसहनरूपं कत्तुं तत्परा । मनोरथाः—प्रबोधोदयद्वारात्मामहङ्कारनिवृत्तिप्रमुखा आन्तरिकभावाः । सिद्धाः—सञ्जातकल्पाः । बद्ध्वैक इति० यैः अहङ्कारादिभिः जगतामादिः संसारप्रथमः प्रभुः समर्थः शाश्वतः अविनाशी पुरुषः आत्मरूपः बद्ध्वा अहङ्कारोत्थापितेऽहम्भावबन्धने आसज्य पुरेषु शरीरेषु बहुधाऽनेकधा विभज्य नानारूपतामापाद्य क्षिप्त्वा प्रवेश्य मति—आर्यपुत्र, यदि इस प्रकार दृढ बन्धन में निबद्ध कुलप्रभुका बन्धमोक्ष हो तो आप अपने व्यापारमें संलग्न रहे । राजा—प्रिये,यदि आप इस प्रकार प्रसन्न हों तो हमारे मनोरथ पूर्ण ही है। क्योंकि— बद्ध होकर अनेकता प्राप्त करके जगत् के प्रभु शरीररूप नगरमें डाल दिये जाते हैं और मृत्युको प्राप्त होते हैं, उनहो ब्रह्मभिन्न सिद्ध करके विद्याके द्वारा प्रायश्चित्त करके