प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 60, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ( ततः प्रविशति दम्भः ) दम्भः—आदिष्टोऽस्मि महाराजमहामोहेन । यथा—वत्स दम्भ, प्रति- ज्ञातं सामात्येन विवेकेन प्रबोधोदयाय । प्रेषिताश्च तेषु तेषु तीर्थेषु शम- दमादयः । स चायमस्माकमुपस्थितः कुलक्षयो भवद्भिरवहितैः प्रति- कर्तव्यः । तत्र पृथिव्यां परमं मुक्तिक्षेत्रं वाराणसीनाम नगरी । तद्द्वांस्तत्र गत्वा चतुर्णामप्याश्रमाणां निःश्रेयसविघ्नार्थं प्रयततामिति । तदिदानीं वशीकृतभूयिष्ठा मया वाराणसी । संपादितश्च स्वामिनो यथानिर्दिष्ट आदिष्टः—आज्ञप्तः । महाराजमहामोहेन–इह मोहस्य सर्वत्रानुल्लङ्घनीयशासन- त्वेन महाराजत्वारोपः । आज्ञास्वरूपमभिधत्ते—यथेति० सामात्येन–मन्त्रिसहितेन । ननु न केवलया प्रतिज्ञया किमपि सिद्ध्यति, तत्राह–प्रेषिताश्चेति० एवञ्च प्रतिज्ञा- पूरणौपयिकप्रयत्नस्यापि प्रारम्भेनोपेक्षा कर्तुमुचितेति व्यञ्जितम् । स च–प्रबोधोदय- निमित्तकश्च । उपस्थितः–समीपागतः, प्राप्तावसर इति यावत् । कुलक्षयः–वंशनाशः, प्रबोधोदये मायानिवृत्त्या मायिकवंशनाशः स्वाभाविक एवेति दृष्ट्येत्थमुक्तम् । भवद्भिः–दम्भादिभिः । अवहितैः–सावधानैः । प्रतिकर्तव्यः–निरोद्धव्यः । परमं मुक्ति- क्षेत्रम्—उत्कृष्टं मोक्षस्थलम् , तत्र तारकोपदेशेन मोक्षस्यानायासलभ्यतयोत्कृष्टता । वाराणसी काशी, वाराणस्या निर्वचने श्रुतिर्यथा—अथ हैनमत्रिः प्रपच्छ याज्ञव- ल्क्यम्—य एषोऽनन्तोऽव्यक्त आत्मा तं कथहं विजानीयामिति ? स होवाच याज्ञ- वल्क्यः–सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन् प्रतिष्ठितः, वरणायामस्यां च मध्ये प्रतिष्ठित इति । का वरणा ? काऽसीति ? सर्वानिन्द्रियकृतान्दोषानस्यत इत्यनेनासी भवति' । तत्र- काश्याम् । चतुर्णामप्याश्रमाणाम्–ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थ-संन्यासनामकानाम् । निःश्रेयसविघ्नार्थम्–मोक्षप्रतिबन्धार्थम् । प्रयतताम्–यत्नं करोतु । ( एतावदन्तमा- ( दम्भका प्रवेश ) दम्भ—महाराज मोहका आदेश है—'वत्स, दम्भ, सामात्य विवेकने प्रबोधोदयकी प्रतिज्ञा की है, तीर्थोंमें शम आदिको भेज दिया गया है, इस प्रकार हमारे कुलका क्षय उपस्थित है, तुम लोग सावधानीसे उसका प्रतिकार करो।' पृथ्वी पर सर्वोत्कृष्ट मुक्तिक्षेत्र वाराणसी है । इसलिये तुम वहाँ जाकर चारो आश्रमोंमें निःश्रेयसको विघ्नित करनेकी कोशिश करो । तदनुसार हमने अधिकांश भावमें वाराणसी पर अधिकार कर लिया है ।