प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 72, कुल 274 में से
संदर्भ में पढ़ें५४ प्रबोधचन्द्रोदयम् अस्मच्छ्यालकभागिनेयदुहिता मिथ्याभिशस्ता यत- स्तत्संपर्कवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता ॥ ६ ॥ दम्भः—ब्रह्मन् , यद्यप्येवं तथाप्यस्माकमविदितवृत्तान्तो भवान् । तथाहि— सदनमुपगतोऽहं पूर्वमम्भोजयोनेः सपदि मुनिभिरुच्चैरासनेषूज्झितेषु । सशपथमनुनीय ब्रह्मणा गोम्याम्भः- परिमृजितनिजोरावाशु संवेशितोऽस्मि ॥ १० ॥ अस्मच्छ्यालकस्य मम स्त्रियो भ्रातुः यः भागिनेयः भगिनीपुत्रः तस्य दुहिता कन्या यतः यस्मात् मिथ्याऽभिशस्ता कलङ्कवत्तया ख्यापिता, तत्सम्पर्कवशात् । तत्कृत- परम्परासम्बन्धशालित्वात् मया प्रेयस्यपि प्रियतमाऽपि स्वगृहिणी स्वभार्या प्रोज्झिता त्यक्ता । मम माता यादृशे वंशे जनुरग्रहीत्ततोऽधिकपूते वंशे जातया कन्यया सह मम विवाहो जात इति हेतोरहं स्वपितुरुत्कृष्टोऽस्मि, नैतावदेव मम चारित्रगौरवं किन्तु मम श्यालकस्य यो भागिनेयस्तस्य दुहिता खलैर्मिथ्याऽशोभनाचारत्वेन प्रख्यापिता, तत्सम्बन्धवशात् पारम्पर्येण तत्सम्बन्धिकोटौ गणनीयत्वादन्यादृशदोषा- भावेऽपि प्रेयस्यपि स्वभार्या मया त्यक्तेति भावः । ईदृशाचारपूतेनापि मयाऽऽ- सनमिदन्नाक्रमणीयमिति ब्रुवाणस्त्वं किमिति न त्रपसे इति प्रसङ्गरहस्यम् । 'श्यालाः स्युर्भ्रातरः पत्न्या.' इत्यमरः । शार्दूलविक्रीडितं वृत्तम् ॥ ९ ॥ एवम्—भवदुक्तं सत्यम् ; अविदितवृत्तान्तः-अज्ञातकुलशीलादिसमाचारः । सदनमिति० अहम् पूर्वम् अम्भोजयोनेः ब्रह्मणः सदनम् ब्रह्मलोकम् उपगतः प्राप्तः, सपदि मदुपस्थितिक्षण एव उच्चैः अतिशयेन मुनिभिः तत्र स्थितैः ऋषिभिः आसनेषु स्वाध्युषितविष्टरेषु मदादरार्थम् उज्झितेषु त्यक्तेषु ब्रह्मणा गोम्याम्भःपरि- मृजितनिजोरौ गोमयेन गव्येन अम्भसा पयसा च परिमृजिते शुद्धतांगमिते निजोरौ स्वोरुदेशे सशपथम् शपथपूर्वकम् अत्र त्वयाऽवश्यमुपवेश्यम् , यदि तथा न करोषि, मम शपथस्त्वेति प्रकारेण बलवदागृह्य अनुनीय सविनयप्रदर्शनमाशु शीघ्रमुप- लग गया, इसलिये हमने अपना प्यारा धर्मपत्नीका भा त्याग कर दिया ॥ ९ ॥ दम्भ--महाराज, यद्यपि आपका कहना ठीक है फिर भी हमारे लिये आपका वृत्तान्त अज्ञात है । देखिये-- कुछ दिन पूर्व मै ब्रह्माके घर गया था, वहां जाने पर मुनियोंने हमारे सत्कारमें अपने आसन छोड दिये । ब्रह्माने शपथ देकर मुझे अपनी जङ्घा पर बैठाया जिसे उन्होंने जल तथा गोमयसे धोकर पवित्र कर लिया था ॥ १० ॥