प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
५४ प्रबोधचन्द्रोदयम् अस्मच्छ्यालकभागिनेयदुहिता मिथ्याभिशस्ता यत- स्तत्संपर्कवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता ॥ ६ ॥ दम्भः—ब्रह्मन् , यद्यप्येवं तथाप्यस्माकमविदितवृत्तान्तो भवान् । तथाहि— सदनमुपगतोऽहं पूर्वमम्भोजयोनेः सपदि मुनिभिरुच्चैरासनेषूज्झितेषु । सशपथमनुनीय ब्रह्मणा गोम्याम्भः- परिमृजितनिजोरावाशु संवेशितोऽस्मि ॥ १० ॥ अस्मच्छ्यालकस्य मम स्त्रियो भ्रातुः यः भागिनेयः भगिनीपुत्रः तस्य दुहिता कन्या यतः यस्मात् मिथ्याऽभिशस्ता कलङ्कवत्तया ख्यापिता, तत्सम्पर्कवशात् । तत्कृत- परम्परासम्बन्धशालित्वात् मया प्रेयस्यपि प्रियतमाऽपि स्वगृहिणी स्वभार्या प्रोज्झिता त्यक्ता । मम माता यादृशे वंशे जनुरग्रहीत्ततोऽधिकपूते वंशे जातया कन्यया सह मम विवाहो जात इति हेतोरहं स्वपितुरुत्कृष्टोऽस्मि, नैतावदेव मम चारित्रगौरवं किन्तु मम श्यालकस्य यो भागिनेयस्तस्य दुहिता खलैर्मिथ्याऽशोभनाचारत्वेन प्रख्यापिता, तत्सम्बन्धवशात् पारम्पर्येण तत्सम्बन्धिकोटौ गणनीयत्वादन्यादृशदोषा- भावेऽपि प्रेयस्यपि स्वभार्या मया त्यक्तेति भावः । ईदृशाचारपूतेनापि मयाऽऽ- सनमिदन्नाक्रमणीयमिति ब्रुवाणस्त्वं किमिति न त्रपसे इति प्रसङ्गरहस्यम् । 'श्यालाः स्युर्भ्रातरः पत्न्या.' इत्यमरः । शार्दूलविक्रीडितं वृत्तम् ॥ ९ ॥ एवम्—भवदुक्तं सत्यम् ; अविदितवृत्तान्तः-अज्ञातकुलशीलादिसमाचारः । सदनमिति० अहम् पूर्वम् अम्भोजयोनेः ब्रह्मणः सदनम् ब्रह्मलोकम् उपगतः प्राप्तः, सपदि मदुपस्थितिक्षण एव उच्चैः अतिशयेन मुनिभिः तत्र स्थितैः ऋषिभिः आसनेषु स्वाध्युषितविष्टरेषु मदादरार्थम् उज्झितेषु त्यक्तेषु ब्रह्मणा गोम्याम्भःपरि- मृजितनिजोरौ गोमयेन गव्येन अम्भसा पयसा च परिमृजिते शुद्धतांगमिते निजोरौ स्वोरुदेशे सशपथम् शपथपूर्वकम् अत्र त्वयाऽवश्यमुपवेश्यम् , यदि तथा न करोषि, मम शपथस्त्वेति प्रकारेण बलवदागृह्य अनुनीय सविनयप्रदर्शनमाशु शीघ्रमुप- लग गया, इसलिये हमने अपना प्यारा धर्मपत्नीका भा त्याग कर दिया ॥ ९ ॥ दम्भ--महाराज, यद्यपि आपका कहना ठीक है फिर भी हमारे लिये आपका वृत्तान्त अज्ञात है । देखिये-- कुछ दिन पूर्व मै ब्रह्माके घर गया था, वहां जाने पर मुनियोंने हमारे सत्कारमें अपने आसन छोड दिये । ब्रह्माने शपथ देकर मुझे अपनी जङ्घा पर बैठाया जिसे उन्होंने जल तथा गोमयसे धोकर पवित्र कर लिया था ॥ १० ॥
द्वितीयोऽङ्कः ५५ अहंकारः-(स्वगतम्) अहो, दाम्भिकस्य ब्राह्मणस्यात्युक्तिः । (विचिन्त्य) अथवा दम्भोऽयम् । भवत्वेवं तावत् । (प्रकाशम्) आः, किमेवं गर्वायसे । (सक्रोधम्) अरे क इव वासवः कथय कोऽत्र पद्मोद्भवो वद प्रभवभूमयो जगति का मुनीनामपि । अवेहि तपसो बलं मम पुरन्दराणां शतं शतं च परमेष्ठिनां पततु वा मुनीनां शतम् ॥ ११ ॥ वेशितः स्थापितोऽस्मि । ब्रह्मलोकं गते मयि सपदि ऋषयोऽभ्युत्थाय सद्कुर्वन्माम्, ब्रह्मा चात्मनः स्वतः पूतमप्यूरुदेशं मदुपवेशनानहं प्रतीत्य तत्काल एवाम्भःसहायेन गोमयेन प्रक्षाल्य मदुपवेशयोग्यतां लम्भयित्वा तत्र सशपथममुनीयोपवेशितोऽ- भूवमिति । ब्रह्मणाऽपि तथाऽऽद्रियमाणस्य मम गौरवे तव का विचिकित्सेति भावः । मालिनीवृत्तम्, तल्लक्षणं यथा-'ननममययुतेयं मालिनी भोगिलोकै.' इति ॥ १० ॥ दाम्भिकस्य-दम्भेन जीवतः । अत्युक्तिः-अतिशयिता उक्तिः, उक्तावतिशयश्चा- यथाविषयकत्वम् । गर्वायसे-गर्ववानिवाचरसि, गर्ववच्छब्दात् 'कर्त्तुः क्यङ् सलोपश्च' इति क्यङ् 'विन्मतोर्लुक्' इति मतुपो लुक् । अरे क इति० अरे इति साधिक्षेपं दम्भसंबोधनम्, वासवः इन्द्रः क इव कीदृशः ? तस्यापि चरितं गुरुतल्पगमनं प्रसिद्धम् । पद्मोद्भवः ब्रह्मा अत्र गौरवतारतम्ये कः कतमः ? तस्यापि निजकन्याऽभिकत्वं नाविदितम् । मुनीनां व्यासादीनां जगति प्रभवभूमयः उत्पत्तिस्थानानि कानि ? इति वद कथय । व्यासस्य धीवरकन्यागर्भ- सम्भूतत्वम्, अगस्त्यस्य घटयोनित्रा, ऋष्यशृङ्गस्य हरिण्या जन्मेति कथाः प्रतीङ्गितं कृतम् । मम तपसः तपश्चर्यायाः बलम् सामर्थ्यम् अवेहि जानीहि, पुरन्दरा- णाम् इन्द्राणाम् शतम्, परमेष्ठिनां च शतम् मुनीनां वा शतम् पततु, मत्तःसा- मर्थ्यस्य पुरतः का कथा शतस्येन्द्रणाम् परमेष्ठिनाम् मुनीनां वेति तात्पर्यम् । तदेवं सामर्थ्यशालिनो मम पुरतो विकत्थना तव लज्जां न जनयतीत्याश्चर्यम् अहङ्कार--(स्वगत) अहा, इस दाम्भिक ब्राह्मणकी बातें तो सुनो । (सोचकर) अथवा-यह तो दम्भ ही है । अस्तु । (प्रकाश) आ., क्यों इतना घमण्ड कर रहा है । (क्रोधसे) अरे, कहो तो इन्द्र कौन है ? ब्रह्माकी क्या हस्ती है ? बताओ इन मुनियोंकी पैदाइश कहाँ से हुई है ? मेरी तपस्यामे वह शक्ति है जिसके सामने सैकड़ो इन्द्र तथा ब्रह्माको झुकना पड़े ॥ ११ ॥
५६ प्रबोधचन्द्रोदयम्
दम्भः—( विलोक्य। सानन्दम् ) अये, आर्यः पितामहोऽस्माकमह- ङ्कारः। आर्य, दम्भो लोभात्मजोऽहं भो अभिवादये । अहंकारः—वत्स, आयुष्मान्भव । बालः खल्वसि मया द्वापरान्ते दृष्टः। संप्रति चिरकालविप्रकर्षाद्वार्धक्यग्रस्ततया च न सम्यक्प्रत्यभिजा- नामि । अपि त्वत्कुमारस्यानृतस्य कुशलम् ? दम्भः—अथ किम् ? सोऽप्यत्रैव महामोहस्याज्ञया वर्तते । न हि तेन विना मुहूर्तम्प्यहं प्रभवामि । अहंकारः—अथ तव मातापितरौ तृष्णालोभावपि कुशलौ ? इति परमार्थः ॥ पृथिवी वृत्तम्, तल्लक्षणं यथा—'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति ॥ ११ ॥ आर्यः-पूज्यः । पितामहः-पितृपिता । लोभात्मजः-लोभप्रभवः । अभिवादये-प्रण- मामि । द्वापरान्ते-कलियुगादौ । बालः-अप्रौढः, अल्पप्रचार एवास्य बाल्यं बोध्यम् । चिरकालविप्रकर्षात्-बहुसमयव्यवधानात् । वार्धक्यग्रस्ततया-जरागृहीतत्वेन । प्रत्य- भिजानामि-दृष्टिमान्द्येन परिचिनोमि । त्वत्कुमारस्य तव सूनोः । अनृतस्य-मिथ्या- भाषणस्य । दम्भोऽनृतस्य पिता, तज्जनकत्वादिति बोध्यम् । अत्र-वाराणस्याम् । महामोहस्य-प्रभोर्मोहराजन्य । तेन-अनृतेन । अनृतं विना दम्भो न शक्नोत्यवस्थातुमिति तथोक्तम् । कुशलौ-सकुशलावित्यर्थे प्रयुज्यमानेऽत्र कुशलाविति पदेऽर्श आद्यजन्तता मन्त- व्या । तृष्णालोभौ-तृष्णा-यावदीप्सितद्रव्यप्राप्तावपि पुनस्ततोऽधिकद्रव्याकाङ्क्षा, लोभो नाम स्वद्रव्यापरित्यागपूर्वकपरद्रव्यजिघृक्षा । दम्भ--( देखकर, प्रसन्नतासे ) अरे, आप तो हमारे पितामह अहङ्कार हैं । आर्य, लोभका पुत्र दम्भ मैं आपको प्रणाम करता हूं । अहङ्कार--बच्चा, जीते रहो । मैने बालकरूपमे तुम्हें द्वापरके अन्तमे देखा था, उसे बहुत दिन हुए इसलिये और मैं बूढ़ा हो गया हू, इसलिये भी मैं तुम्हे ठीकसे नही पहचान सका । तुम्हारा पुत्र अनृत तो कुशल से है न ? दम्भ--और क्या ? वह भी महामोहकी आज्ञासे आजकल यहीं पर है । उसके बिना एक क्षणके लिये भी हमारा प्रभुत्व नहीं रहता है । अहङ्कार-और तुम्हारे मां बाप तृष्णा और लोभ भी तो सकुशल हैं ।
द्वितीयोऽङ्कः ५७ दम्भः—तावपि राज्ञो महामोहस्याज्ञयाऽत्रैव वर्तेते । तयोर्विना क्षण- मपि न तिष्ठामि । आर्यमिश्रैः पुनः केन प्रयोजनेनात्र प्रसादः कृतः । अहंकारः—वत्स, मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम् । तेन तद्वृत्तान्तं प्रत्येतुमागतोऽस्मि । दम्भः—स्वागतमेवार्यस्य । यतो महाराजस्यापीन्द्रलोकादत्रागमनं श्रूयते । अस्ति च किंवदन्ती यद्देवेन वाराणसी राजधानी वस्तुं निरूपितेति । अहंकारः—पुनः किं वाराणस्यां सर्वात्मना मोहस्यावस्थानकारणमिति । दम्भः—आर्य, ननु विवेकोयरोध एव । तथाहि— तौ-तृष्णालोभौ । तयोः-पित्रोः तृष्णालोभयोः, अत्र विनापदयोगे कथं षष्ठीति चिन्त्यम् । आर्यमिश्रैः-पूज्यैर्विद्वद्भिश्च, मिश्रपदस्य पण्डितपरत्वं प्रसिद्धम् । केचित्तु षड्दर्शनज्ञो मिश्र इत्याहुः । प्रसादः-स्वागमनेनानुग्रहः । विवेकसकाशात्-विवेकात् । अत्याहितम्-महाभीतिः, उच्छेदोरूप इत्यर्थः । अयं बिन्दूपन्यासो वेदितव्यः, बिन्दुलक्षणं यथा—'अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्' इति । अत्र दम्भाहङ्कारयोः संवादेन कथाविच्छेदे पुनरविच्छेदहेतुर्महामोहस्य विवेक- सकाशादत्याहितं श्रुतमिति पुनः कथानुसरणरूपो बिन्दुः । प्रत्येतुम्-अवधारयितुम् । महाराजस्य-महामोहस्य । स च विषयेष्वासक्तिविशेषहेतुरहं ममाभिमानरूपः, तथोक्तं तत्त्वकौमुद्याम्—'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च यथासंख्यं तमोमोह- महामोहातामिस्रान्धतामिस्रसंज्ञकाः। यद्यपि शब्दादिषु पञ्चसु दिव्यादिव्यतया दश- विधेषु विषयेष्वनुरक्तिरूपतया दशविधो महामोहस्तथापि विषयभेदाद्दशविधोऽपि वस्तुतस्त्वेक एवेत्यवधारणीयम्' । अत्र-वाराणस्याम् । किंवदन्ती-जनश्रुतिः । वस्तुं निरूपिता-आवासस्थानत्वेन वृता । सर्वात्मना-सर्वथा, अवस्थानकारणम्-आवासहेतुः। विवेकोपरोधः-विवेकस्य परिपन्थिनः उपरोधनम् निरोधनम् । दम्भ—वे भी मोहकी आज्ञासे यहीं हैं । उनके बिना मैं क्षणभर भी नही रह सकता हू । आपने किस प्रयोजनसे यहाँ पधारनेकी कृपा की है ? अहङ्कार—वत्स, मैने सुना कि विवेकसे महामोहको महाभय उपस्थित है, इसीको ठीकसे जानने आया हू ! दम्भ—स्वागत है आपका ! महाराज भी इन्द्र लोकसे यहाँ आरहे हैं ऐसा सुननेमें आया है । यह भी अफवाह है कि महाराजने काशीको ही अपने वासके लिये चुना है । अहङ्कार--सर्वथा काशीमें बसनेके लिये मोहको क्या कारण मिला ? दम्भ—आर्य, विवेकको रोकना ही । क्योंकि—
विद्याप्रबोधोदयजन्मभूमिर्वारणसी ब्रह्मपुरी निरत्यया । असौ कुलोच्छेदविधिं चिकीर्षुर्निर्वस्तुमत्रेच्छति नित्यमेव ॥ १२ ॥ अहङ्कारः—( सभयम् ) यद्यप्येवमशक्यप्रतीकार एवायमर्थः । यतः— परममविदुषां पदं नराणां पुरविजयी करुणाविधेयचेताः । विद्येति० ब्रह्माकाराऽन्तःकरणवृत्तिर्विद्या, ब्रह्माकारान्तःकरणवृत्त्युपहितं चैतन्यं च प्रबोधोदयः, तयोर्जन्मभूमिः उत्पत्तिस्थानम्, निरत्यया अविनाशिनी ब्रह्मपुरी शिवनगरी वाराणसी काशी अस्तीति शेषः । वाराणस्या ज्ञानक्षेत्रतया नित्याप्रलयेऽपि न नाशः, अत्र ब्रह्मपुरीति शब्दे ब्रह्मपदं च शिवपरम् , तदुक्तम्—'ब्रह्मज्ञानं प्रधा- नञ्च क्षेत्रञ्चाङ्कारबुद्धयः । मोक्षो हिरण्यगर्भश्च मन्त्रो वेदः शिवस्तथा' इति । कुलो- च्छेदविधिम् मायिकवंशविनाशकार्यम् चिकीर्षुः कर्तुं कामयमानः असौ विवेकः अत्र [L11: वाराणस्याम् नित्यमेव सततम् निवस्तुम् वासं कर्तुम् इच्छति कामयते । विवेको नाम मायाप्रसूतमनोजनितत्वान्मायावंशप्रभवोऽपि मतिमान्धत्वशान्मायिकवंशं विनाशयितुं कामयमानोऽत्र वाराणस्यां सार्वदिकं स्वं वासं कर्तुमिच्छति, यतोऽवि- नाशिनीयं शिवपुरी विद्याप्रबोधोदयजन्मभूमितया प्रसिद्धा । अत्र निवत्स्यतो विवेक- स्योपरोधार्थमेव महामोहस्यात्रागमनं जातमिति भावार्थः । अन्योऽपि राजा स्ववि- रोधिभूपति विजयावहसैन्याद्युपकरणसञ्चयप्रवृत्ततया तदुपपादनसौविध्यशालिनि क्वचन क्षेत्रे वासमाचरन्तं संभाव्य तदुपरोधार्थं तदागमात्पूर्वमेव तत्रावासं विरचय- तीति मनसिकृत्यायं व्यवहारसमारोपः । इन्द्रवज्रावृत्तम्, तल्लक्षणं यथा—'स्यादिन्द्र- वज्रा यदि तौ जगौ गः' इति ॥ १२ ॥ यद्यप्येवम् , आचर्यते मोहेनेति योजनीयम्, यद्यपि मोहस्येयं चेष्टा प्रवर्त्त- ताम् , तथापि अशक्यप्रतीकारः-अवरोद्धुमशक्यः । मोहो यथेच्छं चेष्टतां विवे- कोऽपरोधाय परं विवेकाभिमतो विद्याप्रबोधोदयोऽत्र वाराणस्यां प्रतिबन्धुमशक्य इति भावः । परममिति० परमम् पदम् ब्रह्मस्वरूपम् अविदुषाम् अजानताम् ब्रह्मज्ञानरहिता- नाम् नराणाम् भगवान् सर्वसामर्थ्यशाली करुणाविधेयचेताः कारुणिकहृदयः पुर- विद्या तथा प्रबोधोदयकी जन्मभूमि यह नित्या काशीपुरी ही है, अपने कुलके उच्छेद की इच्छासे सदा वे यही वास करना चाहते हैं ॥ १२ ॥ अहङ्कार —( भयसे ) यद्यपि इस तरह तो इसका कोई उपाय है भी नही । क्योंकि— परमतत्त्वको नही जाननेवाले जब मरने लगते हैं तब महादेव दया करके भवभय से
[Page Header] द्वितीयोऽङ्कः ५६
कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् ॥१३॥ दम्भः—सत्यमेतत्तथापि नैतत्कामक्रोधाभिभूतानां सम्भाव्यते । तथा ह्युदाहरन्ति तैर्थिकाः— 'यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च तीर्थं च स तीर्थफलमश्नुते ॥ १४ ॥' इति ।
विजयी शिवः अन्तकाले प्राणप्रयाणसमये भवभयेन सांसारिकभीत्या कातराणां सभयानां तारकम् उद्धरणसमर्थम् प्रबोधम् । इह वाराणस्याम् कथयति उपदिशति । इह काश्यां कारुणिकः शिवो ब्रह्मज्ञानवञ्चितेभ्यो जनेभ्यस्तदन्तकाले मुक्तिप्रदं तारक- मन्त्रमुपदिशन्ति येन ते सद्य एव मुक्ता भवन्तीति भावः । तथा चोक्तम्—'मुमूर्षो- र्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यति तं मन्त्र समुक्तो भविता शिवः' 'मुमूर्षोर्मणिकर्ण्यन्तरर्थोदकनिवासिनः । अहं दिशामि ते मन्त्र तारकं ब्रह्मसञ्ज्ञकम्' । भगवानन्तकालेऽत्र तारकस्योपदेशतः, अविमुक्तस्थितान् जन्तून्मोचयेन्नात्र संशयः । इति । काश्यां मोक्षस्य सर्वसाधारणलभ्यतया महामोहचिकीर्षितो विवेकोपरोधो न सिद्ध्यति तदशक्यप्रतीकार एवात्र विवेकवास इति भावः । पुष्पिताग्रावृत्तमिदम् 'अयुजि नयुगरेफतो जकारो युजि च नजौ जरजाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ एतत्—सर्वेषामेव काशीवासिनां भगवता चरमसमये तारकोपदेशतो मोच्य- मानत्वम् । यस्येति० यस्य जनस्य पादौ चरणौ सुसंयतौ निषिद्धसञ्चारपराङ्मुखौ, हस्तौ च सुसंयतौ अप्रतिग्रहौ, मनश्च सुसंयतम् परद्वेषाकाम्यकामनादिनिवृत्तम्, विद्या सुसंयता परप्रतारणादिविमुखी, तपः व्रतादिसुसंयतम् दम्भेनासंस्पृष्टम्, तीर्थम् योनिरूपस्थेन्द्रियम् सुसयतम् अनिषिद्धगामि, सतीर्थफलम् काशीरूपतीर्थलभ्य- मोक्षरूपं फलमश्नुते प्राप्नोति । सामान्यतः काशीक्षेत्रे मृतानां मोक्षमुपदिशतां शास्त्राणां विशेषशास्त्रेणानेनैकवाक्यतयाऽर्थसङ्कोचे काश्यामपि संयतानामेव तीर्थ- फलाधिगम इति नियमितं बोध्यम् । अत्र सुसंयतशब्दस्य विभक्तिलिङ्गयोर्विपरिणा- मेन सर्वत्रान्वयो बोध्यः । उक्तश्चायमर्थो विस्तारेण काशीखण्डे उत्तरभागे षण्ण-
बचानेके लिये उन्हे तारक मन्त्रका उपदेश देते है ॥ १३ ॥ दम्भ—यह ठीक है, फिर भी काम और क्रोधसे अभिभूत लोगों के विषयमें ऐसी स भावना नहीं है । शास्त्रकारों ने कहा है— जिस व्यक्तिके हाथ-पैर तथा मन संयत है और विद्या तथा तप भी ठिकाने हैं वही व्यक्ति तीर्थफल प्राप्त करता है ॥ १४ ॥
६० प्रबोधचन्द्रोदयम् दम्भः—( नेपथ्ये ) भो भोः पौराः, एष खलु संप्राप्तो देवो महामोहः । तेन, निष्यन्दैश्चन्दनानां स्फटिकमणिशिलावेदिकाः संस्क्रियन्तां मुच्यन्तां यन्त्रमार्गाः प्रचरतु परितो वारिधारा गृहेषु । उच्छ्रीयन्तां समन्तात्स्फुरदुरुमणयः श्रेणयस्तोरणानां धूयन्तां सौधमूर्धस्वमरपतिधनुर्धामचित्राः पताकाः ॥ १५ ॥ वतितमेऽध्याये—‘अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ॥ तच्च ज्ञानं भवेत् पुंसां सम्यक् काशीनिषेवणात् । काशीनिषेवणात्तस्माद्विशवेशे करणोदयः ॥ ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा । ततः काश्यां प्रयत्नेन स्नानं दानं तपो जपः ॥ व्रतं पुराणश्रवणं स्मृत्युक्ताध्वनिषेव- णम् ॥ प्रतिक्षणं प्रतिदिनं विश्वेशपदचिन्तनम्' ॥ इत्यादि ॥ काशीमरणस्य परम्प- रया ज्ञानलाभद्वारैव मोक्षप्रयोजकता न सद्यस्तथात्वे तारकोपदेशवैयर्थ्यापत्तेः । काश्यामपि कैवल्यमुक्तेः शास्त्रसिद्धत्वाज्जीवन्मुक्तिरुच्यमानाऽर्थवादतयानेया । एतेन सर्वेणात्राप्यस्त्यस्माकं प्रसङ्गेन मोहस्य स्फूर्जोरवकाशस्तत्प्रयत्नो न त्याज्य इत्या- श्वासना व्यक्ता ॥ १४ ॥ संप्राप्तः=समागतः । तदस्य स्वागतार्य प्रवर्त्तध्वं, तेन स्वागतप्रकारस्य वक्ष्य- माणस्यावसरः । निष्यन्दैरिति० चन्दनानां मलयाचलप्ररूढसुगन्धिद्रव्याणां निष्यन्दैः पिष्टैर्लेपः सेचनैश्च स्फटिकमणिशिलावेदिकाः स्फटिकमणिविरचितानि चत्वराणि संक्रियन्तां परिष्क्रियन्ताम् । यन्त्रमार्गाः जलद्यन्त्रद्वाराणि मनोविनोदार्थमापणेषु विरचितानि मुच्यन्ताम् प्रवृत्तकार्याणि विधीयन्ताम् । गृहेषु राजोपयुक्तप्रासादेषु वारिधारा परिष्कारसाधनायापेक्ष्यमाणा जलधारा परितः सर्वतः प्रचरतु प्रसारं लभताम् । स्फुरन्तः प्रकाशमाना उरवः स्थूलाः मणयो यासु तादृश्यः स्फुरदुरुमणयः तोर- णानाम् बहिर्द्वाराणाम् श्रेणयः पङ्क्त्यः समन्तात् सर्वदिगवच्छेदेन उच्छ्रीयन्ताम् । बध्यन्ताम् । सौधमूर्धसु प्रासादशिखरेषु अमरपतिधनुर्धामचित्राः इन्द्रधनुःप्रभाना- नारूपाः पताका ध्वजाः धूयन्ताम् कम्पमानभावं प्राप्यन्ताम् । अत्र वेदिसंस्कारयन्त्र- दम्भ—( नेपथ्यमे ) अरे ओ नागरिको, ये महाराज मोह आ गये, इसलिये— चन्दनके लेपसे स्फटिक शिलासे बनी वेदिकाओंका सस्कार किया जाय, फब्बारे खोल दिये जांय, घरोंमें पानी पटाया जाय, मणियुक्त तोरण सर्वत्र लटकाये जांय और प्रासादों पर इन्द्रधनुषके समान चित्रवर्ण पताकायें लटका दी जांय ॥ १५ ॥
द्वितीयोऽङ्कः ६१ दम्भः—आर्य, प्रत्यासन्नोऽयं महाराजः। तत्प्रत्युद्गमनेन संभाव्यता- मार्येण। अहंकारः—एवं भवतु। (निष्क्रान्तौ) (प्रवेशकः) (ततः प्रविशति महामोहो विभवतश्च परिवारः) महामोहः—(विहस्य) अहो, निरङ्कुशा जडधियः। आत्मास्ति देहव्यतिरिक्तमूर्तिर्भोक्ता स लोकान्तरितः फलानाम्। प्रवर्त्तनाभ्यामापणशृङ्गारः, वारिधारया समस्तपुरीसंस्कारः, तोरणबन्धनेन राज- गृहाणां विशिष्टः परिष्कारः, पताकाधूननेन नगरद्वारपरिष्कारो बोधितः। स्रग्धरा- वृत्तम्, तल्लक्षणं यथा—'म्रम्नैर्यानां त्रयेण त्रिमुनियतिद्युता स्रग्धरा कीर्त्तितेयम्' इति ॥ १५ ॥ अत्र विलासो नाम प्रतिमुखसन्धेः प्रथममङ्कमुक्तं, तल्लक्षणं यथा—'दृष्टार्थविप- यामीहां विलासं परिचक्षते' इति। प्रत्यासन्नः—अतिसमीपागतः। प्रत्युद्गमनेन—आगच्छन्तं जनं सत्कर्त्तुं तत्समीप- गमनं प्रत्युद्गमनं तेन। सम्भाव्यताम्—आद्रियताम्। प्रवेशकः—'अङ्कयोर्मध्यवर्ती च नीचपात्रप्रवेशितः। विष्कम्भ इव नान्यङ्गैः प्रवेशक इति स्मृतः'। इति प्रवेशकलक्षणं, सङ्गतिः सरला। यद्यपि दम्भाहङ्कारयोः सर्वदूषकत्वान्नीचपात्रतया प्राकृतभाषाप्रयोगः प्राप्तः, तथापि 'कार्यतश्चोत्तमादीनां कार्यों भाषाविपर्ययः' इति वचनात् संस्कृतभाषाश्रयणं तयोर्दुषकतास्वभाववत्तयैव नीचत्वं न तु जात्येति हृदि निधाय कृतं बोध्यम्। निरङ्कुशाः—नियन्त्रणरहिताः, किमपि निषेधकं शास्त्रमनाद्रियमाणाः कर्त्तव्या- कर्त्तव्यविषये स्वतन्त्रा इत्यर्थः, जडधियः—मूर्खाः। आत्मास्तीति० देहव्यतिरिक्तमूर्त्तिः शरीरभिन्नः आत्मा जीवः अस्ति, सः आत्मा दम्भ—आर्य, ये समीपमे ही तो महाराज है, अतः अगवानीसे आप उन्हे सत्कृत करें। अहङ्कार—अच्छी बात है। (दोनों जाते है) (प्रवेशक) (महामोह तथा विभवानुसार परिवारका प्रवेश) महामोह—(हंसकर) अहा ! ये मूर्ख कितने निरङ्कुश है। शरीरसे भिन्न आत्मा है, वह लोकान्तरमें फलका भोग करता है, यह आशा वैसी ही है
६२ प्रबोधचन्द्रोदयम्
आशयेमाकाशतरोः प्रसूनात्प्रथीयसः स्वादुफलप्रसूतौ ॥ १६ ॥ इदं च स्वकल्पनाविनिर्मितपदार्थावष्टम्भेन जगदेवं दुर्विदग्धैर्व- ञ्च्यते । तथाहि— यन्नास्त्येव तदस्ति वस्त्विति मृषा जल्पद्भिरेवास्तिकै- र्वाचालैर्बहुभिस्तु सत्यवचसो निन्द्याः कृता नास्तिकाः । लोकान्तरितः स्वर्गं गतः फलानाम् इह जन्मनि कृतानां कर्मणां परिणामानाम् भोक्ता अस्ति, इयमाशा एतादृशी श्रद्धा प्रथीयसः स्थूलमूलात् आकाशतरोः प्रसूनात् पुष्पात् स्वादुफलप्रसूतौ रम्यफलोदये आशा इत्यर्थः । यथा कश्चिदुन्मत्तोऽत्यन्तासतो गगनकुसुमात् फलोदयविषयामाशां मनसि पुष्येत्तद्वदेवमपि बुद्धिर्यदस्ति देहव्यति- रिक्त आत्मा स च लोकान्तरगतः सन्निह कर्मणि कृतानां कर्मणां फलान्युपभोक्तेति । चार्वाकमतेनेदमुक्तम् , ते हि-पृथिव्यादीनि चत्वारिभूतानि तत्त्वानि, तेभ्य एव देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते, तेषु च विनष्टेषु सत्सु स्वयं विनश्यति । तच्चैतन्यविशिष्टो देह एवात्मा, तदतिरिक्त आत्मनि प्रमाणा- भावात् । अङ्गनालिङ्गनादिजन्यं सुखमेव स्वर्गः, कण्टकक्षतादिजन्यं दुःखमेव नरकः, परलोककल्पना तु धूर्त्तानामित्याहुः । निदर्शनालङ्कारः । स्पष्टमन्यत् ॥ १६ ॥ स्वकल्पनाविनिर्मितपदार्थावष्टम्भेन स्वकल्पनाप्रसूतपदार्थाङ्गीकारेण । परमार्थ- विचारणासिद्धवस्तुस्वीकारेण तु नैवं वक्तुं शक्येतेति बोध्यम् । दुर्विदग्धैः = धूर्त्तैः । वञ्च्यते-प्रतार्यते । यन्नास्त्येवेति० यद् वस्तु पदार्थः देहातिरिक्तात्माऽपूर्वादिकं प्रत्यक्षानुपलभ्य- तयानास्त्येव ( एवकारो भिन्नक्रमः ) नैवास्ति अत्यन्तासन्, इति प्रमापितम् , तद्वस्तु अस्ति इति मृषा व्यर्थं जल्पद्भिः वदद्भि बहुभिः भूरिसंख्यैः आस्तिकैः वेदप्रामाण्यवादिभिः नास्तिकाः वेदप्रामाण्यमनभ्युपगच्छन्तो वयम् सत्यवचसः प्रामाणिककथाव्याहारिणः निन्द्याः निन्दापात्राणि कृताः विहिताः । स्वयमसत्य- मर्थं शरीरातिरिक्ताः पूर्वाद्यस्तित्वरूपमुच्चैर्घोषयन्तोऽमी वैदिकाः प्रमाणसिद्ध- तदभाववादिनामस्माकं नास्तिकानामेव निन्दां प्रचारयन्तीत्येषां वाचालतामात्र जैसे आकाश वृक्षसे बड़े वडे फलों की आशा ॥ १६ ॥ इस संसारको ये बेवक्कूफ लोग अपनी कल्पना द्वारा गढ़े गये पदार्थों से ठग रहे हैं । देखिये— जो वस्तु है ही नही, वह है इस तरह की झूठी बात कहने वाले आस्तिकोंने
द्वितीयोऽङ्कः ६३ हंहो पश्यत तत्त्वतो यदि पुनश्छिन्नादितो वर्ष्मणो दृष्टः किं परिणामरूपितचितेर्जीवः पृथक्कैरपि ॥ १७ ॥ अपि च न केवलं जगदात्मैव तावदमीभिर्वञ्च्यते । तथाहि— तुल्यत्वे वपुषां मुखाद्यवयवैर्वर्णक्रमः कीदृशो योषेयं वसु चापरस्य तदमुं भेदं न विद्मो वयम् । न तु वस्तुतत्त्वमित्याशयः । हंहो इदं साहङ्कारं संबोधनम् , यथा जयदेवीये चन्द्रालोके हंहो चिन्मयचित्तचन्द्रमणय इत्यत्र । तत्त्वतः पश्यत तत्त्वविचारणां कुरुत, छिन्नात् छेदनकर्मतां गमितात् इतः अस्मात् वर्ष्मणः देहात् किम् परिणामरूपित- चितेः। परिणामेन पृथिव्यादिरूपान्तरतापत्त्या रूपिता उत्पादिता चितिः चैतन्यं यस्य ततः देहात् पृथक् भिन्नः जीवः सचेतन आत्मा किम् कैरपि कैश्चित् भवद्भिः यदि पुनर्हष्टः प्रत्यक्षीकृतः । पृथिव्यादिभूतान्येव संहतानि सन्ति संयोगविशेषमहिम्ना चेतयन्ते यथा क्रमुकादीनां मिलितानां रागजनकत्वं न तु तदतिरिक्तः कोऽप्यस्ति चेतन आत्मा, यदि सोऽभविष्यदवश्यमतो देहाच्छिद्यमानान्निर्यास्यन्केनाप्यद्रक्ष्यत न चादृश्यतातो नास्ति तादृश आत्माऽथापि तदस्तित्वमुच्चैर्घोषयन्तो वेदप्रामा- ण्याभ्युपगन्तारो वैदिका यदस्मान्सत्यवचो निन्दन्ति तत्तेषां प्रचारमात्रमिति सारांशः । आस्तिकनास्तिकशब्दौ 'अस्तिनास्तिदिष्टन्मतिः' इति पाणिनीयसूत्रेण ठकि सिध्यतः । अस्तिदिष्टमिति मतिर्यस्य स आस्तिकः, नास्तिदिष्टमिति मतिर्यस्य स नास्तिकः । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ न केवलं जगत्-वञ्च्यत इति संबध्यते, न हि केवलस्य लोकस्य प्रतारणमेभि- रास्तिकैः क्रियते, किन्तु स्वात्माऽपि प्रतार्यते, तादृशाभिप्रायधारणेनोपन्नतत्तद्भोग- पराङ्मुखताऽऽपादनात् । तथाहि-आत्मापि वञ्च्यत इत्युक्तौ प्रमाणं दर्शयतीत्यर्थः । तुल्यत्व इति० मुखाद्यवयवैः आस्यनासादिभिः शरीरावयवविशेषैः तुल्यत्वे साधारण्ये सत्यपि वर्णक्रमः कीदृशः शूद्रवैश्यक्षत्रियब्राह्मणादिसंज्ञया जातिव्यवस्था कीदृशी किम्मूला च । ब्राह्मणादीनां शूद्राणाञ्च करपादाद्यवयवसाम्येऽपि जाति- व्यवस्थाकारणं नावधार्यत इत्यर्थः । इयम् परस्य योषा वनिता इदं परस्य धनम् , स्वम् , तत् तत्र वयम् चार्वाकमतानुवर्तिनोऽमुम् अन्यैरास्थीयमानम् भेदं पृथग्भावं वृथा ही नास्तिकोंकी निन्दा की है। जरा देखिये तो, क्या खण्डित होनेवाले इस शरीरसे, जो सङ्घातभूत चैतन्य है, क्या पृथक् जीवको किसीने देखा है ? ॥ १७ ॥ और केवल संसारको ही नही, अपनेको भी ये धूर्त्त ठगा करते हैं, क्योंकि— . सभीके मुखादि अवयव समान ही है फिर जात-पात क्या चीज है ? यह स्त्री तथा
६४ प्रबोधचन्द्रोदयम् हिंसायामथवा यथेष्टगमने स्त्रीणां परस्वग्रहे कार्याकार्यविचारणा हि यदमी निष्पौरुषाः कुर्वते ॥ १८ ॥ ( विचिन्त्य, सश्लाघम् ) सर्वथा लोकायतमेव शास्त्रं यत्र प्रत्यक्षमेव प्रमाणं, पृथिव्यप्तेजोवायवस्तत्त्वानि, अर्थकामौ पुरुषार्थौ भूतान्येव चेत- न विद्मः न जानीमः । इयमन्यस्य स्त्री परकीयमिदं धनमिति कृत्वा परस्त्रीप्रवृत्तिः परधनापहतिश्च यन्निन्द्यते तत्र परकीयताबीजस्यास्वीकारेण नास्माकमास्थेति भावः । तदनेन तन्मते सर्वांसामपि वनितानां स्त्रीत्वादेवोपभोगयोग्यतां प्रति सर्वेषां धनानां च धनत्वादेव ग्राह्यतां प्रतीङ्गितं कुर्वता संयमास्तेयव्रतादेरुपहासः कृतो वेद्यः । हि प्रसिद्धौ, हिंसायां तृप्तये प्राणिवधेऽथवा स्त्रीणां यथेष्टगमने कासामपि वनितानां कुत्रापि समये रमणे परस्वग्रहे परकीयधनापहारे यत् यस्मात् अमी निष्पौरुषाः सामर्थ्यशून्याः। ( अतः ) कार्याकार्यविचारणाः कुर्वते इदं कर्त्तव्यम् इदमकर्त्तव्यमिति विवेचयन्ति, सति तूपभोगसामर्थ्येऽमीषामपि नेयं स्थितिः स्यादतथाभावादेवेमे परानपि तथोपदिशन्तो मत्सरिण इत्येषामुक्तिषु प्रत्ययो न कार्य इति भावः । पूर्वोक्तमेव वृत्तम् ॥ १८ ॥ श्लाघा-गुणकीर्त्तनं तेन सहेत्यर्थः । लोकायतम्-लोके आयतम् विस्तृतम् , स्वारसिकप्रवृत्त्यनुमोदकस्यास्य लोकायत- मिति संज्ञा, चार्वाकमतसंज्ञेयम् । यत्र लोकायते मते । प्रत्यक्षमेव-प्रत्यक्षमात्रम्, अनु- मानस्य न प्रामाण्यं सहचारग्रहस्याविनाभावस्य दुर्बोधत्वात् , तदप्रामाण्ये च शब्दा- दिप्रामाण्यं व्यवस्थापयितुमशक्यमिति प्रत्यक्षमात्रप्रामाण्यमनुशन्ति चार्वाकाः । पृथिव्यप्तेजोवायवः, आकाशस्य तु न तत्त्वान्तरत्वं तस्याप्रत्यक्षतयाऽलीकत्वात् , पुरुषार्थौ-पुरुषैरर्थ्यमानतया काम्यौ । धर्ममोक्षयोः परलोकफलप्रदत्वेनाप्रत्यक्षग्राह- ग्रस्तत्वात् अर्थकामावेव पुरुषार्थों इति । भूतानि-पृथिव्यप्तेजोवायवः । चेतयन्ते- चैतन्यं जनयन्ति देह इति शेषः, पृथिव्यादीनां चतुर्णां तत्त्वानां शरीररूपेण परिणामे परिणामविशेषस्वाभाव्यात्तेभ्यश्चैतन्यमुत्पद्यते, यथा किण्वादिभ्यो मदशक्तिरिति भूतानामेव चेतनतायां तदाश्रयात्मसिद्धिवृर्थेति तात्पर्यमिति बोध्यम् । परलोकः- स्वर्गनरकादिः, परलोको नास्ति, प्रत्यक्षातिरिक्तप्रमाणानभ्युपगमात् , परलोकस्य सम्पत्ति हमारी है और यह दूसरोंकी है इस भेदको मै नहीं समझ पा रहा हू । यह नामर्द है, अतएव दूसरे की हिंसा तथा परस्त्रीगमनमे दोष बताते है ॥ १८ ॥ ( सोचकर, खुशीसे ) सर्वथा शास्त्र है बौद्धागम, जिसमें प्रत्यक्ष ही प्रमाण तथा पृथिवी जल तेज वायु तत्त्व है, अर्थ और काम दो ही पुरुषार्थ हैं, भूतोंको ही चैतन्य है । परलोक
द्वितीयोऽङ्कः ६५ यन्ते। नास्ति परलोकः। मृत्युरेवापवर्गः। तदेतदस्मदभिप्रायानुबन्धिना वाचस्पतिना प्रणीय चार्वाकाय समर्पितम्। तेन च शिष्योपशिष्यद्वारेणा- स्मिँल्लोके बहुलीकृतं तन्त्रम्। ( ततः प्रविशति चार्वाकः शिष्यश्च ) चार्वाकः— वत्स, जानासि दण्डनीतिरेव विद्या। अत्रैव वार्त्तान्तर्भवति। धूर्तप्रलापस्त्रयी। स्वर्गोत्पादकत्वेन विशेषाभावात्। पश्य— स्वर्गः कर्तृक्रियाद्रव्यविनाशे यदि यज्वनाम्। शब्दप्रमाणैकसमर्थ्यत्वात्। आत्मनो भोक्तुः स्थिरस्याभावोऽपि परलोकाभावे कारण- त्वेनोपस्थाप्यते। मृत्युः-देहपातः, मोक्ष इति परप्रसिद्धिमभिरुध्योक्तं, यमन्ये मोक्ष- माहुः सोऽत्र मते मृत्युरेवेति भावः। अस्मदभिप्रायानुबन्धिना-मदाशयानुरोधिन। वाचस्पतिना-गुरुणा। चार्वाकाय-तदभिधानाय। चारु-रमणीया वाक् उक्तिर्यस्येति विग्रहे चार्वाकपदसिद्धिः, उकारलोपः पृषोदरादिः। तेन-चार्वाकेण। शिष्योपशिष्य- द्वारेण-शिष्यपरम्परया। बहुलीकृतम्-प्रचारितम्। तन्त्रम्-शास्त्रम्। 'ततः' इत्यत्र द्वितीयपताकास्थानत्वं, सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः। पताकास्थानकमिदं द्वितीयं परिकीर्तितमिति तल्लक्षणयोगात्, अत्र सहसैव सशिष्यचार्वाकरूपपात्रप्रवेशात्। दण्डनीतिः—राजनीतिः, नान्त्रीक्षिकीयाद्यस्तन्त्र वेदप्रामाण्यसमर्थनस्य कृतत्वा- दित्ययुक्तम्। वार्त्ता-अर्थानर्थप्रतिपादकं नीतिशास्त्रम्। अत्रैव-राजनीतावेव। त्रयी- वेदत्रयी। धूर्त्तप्रलापः-वञ्चकजनवचनानि। वेदानां धूर्त्तप्रलापतां समर्थयितुं तत्प्रति- पाद्य स्वर्गादिरसम्भवित्वं वक्ष्यत्यग्रेऽनुपदमेव। स्वर्ग इति० कर्तृक्रियाद्रव्यविनाशे—कर्त्तारः यज्ञविधायका ऋत्विजः, क्रियाः होमादयः, द्रव्यम् यज्ञविधौ प्रयुज्यमानं पुरोडाशादि, तेषाम् विनाशे अपाये, कर्त्तुः कालक्षेपवशान्मृत्युनाऽपायः, क्रियायाः कतिपयक्षणोत्तरमेवापायः, तत्रोपयुज्यमान- द्रव्याणामपि नातिचिरेणैवापायस्तदेवं सर्वेषामभावे (अपि) यज्वनाम् यज्ञं कृतव- नहीं है। मरना ही अपवर्ग है। हमारी रुचिके अनुसार वाचस्पतिने इस शास्त्रका निर्माण करके चार्वाकको समर्पित किया और चार्वाकके शिष्योपशिष्यो द्वारा यह शास्त्र लोकमें फैला। ( अनन्तर चार्वाक तथा शिष्यका प्रवेश ) चार्वाक—वत्स, जानते हो दण्डनीति ही विद्या है, वार्त्ताका भी इसीमे अन्तर्भाव है। वेद तो धूर्त्तों की बेतुकी बातें हैं। वेदों ने जो स्वर्गकी बात कही है उसमे क्या विशेषता है। देखो— कर्त्ता, क्रिया, साधन द्रव्य आदिके नाश हो जाने पर यज्ञ करनेवालोंको यदि स्वर्ग ५ प्र० च०
६६ प्रबोधचन्द्रोदयम् ततो दावाग्निदग्धानां फलं स्याद्भूरि भूरुहाम् ॥ १९ ॥ अपि च— निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन तत्र कस्मान्न हन्यते ॥ २० ॥ अपि च— मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ २१ ॥ ताम् यदि स्वर्गः स्यात् ततः तर्हि दावाग्निदग्धानाम् वनवह्निभस्मीकृतानाम् भूरु- हाम् वृक्षाणाम् भूरि बहु फलम् स्यात् । प्रयोजकाभावसाम्येऽपि यदि प्रध्वस्ता- त्कर्मणः फलोदयस्वीकारे दग्धात् पादपात् फलोत्पत्तिरपि स्वीकर्त्तव्या स्यादिति तात्पर्यम् ॥ १९ ॥ निहतस्येति० यज्ञे ज्योतिष्टोमादियागे निहतस्य हिंसाकर्मतां गमितस्य पशोः छागादेः यदि स्वर्गप्राप्तिः स्वर्गाख्यकल्पितसुखातिशयावाप्तिः इष्यते ‘वैदिकी हिंसा हिंसा न भवति’, ‘तत्र हतानां छागादीनां स्वर्गगतिश्च जायत’ इति वद्भि॑िरास्तिकै- रास्थीयते तदा तत्र ज्योतिष्टोमादौ यजमानेन यागप्रवृत्तेन आस्तिकेन स्वपिता स्वजनकः कस्मात् कुतो हेतोः न हन्यते ? पशुर्हतो यदि स्वर्गं गच्छति तर्हि यज- मानः स्वर्गं प्रापयितुं स्वं पितरमपि तत्रैव हन्तु, तावतैवाल्पेन प्रयत्नेन तत्पिता स्वर्गं यास्यति, कृत तत्स्वर्गप्राप्तये प्रयत्नान्तरानुष्ठानेनेत्यर्थः । अनेन देवयज्ञप्रति- पादकं शास्त्रं दूषितमिति बोध्यम् ॥ २० ॥ मृतानामिति० श्राद्धम् श्रद्धया कृतं दशाहपिण्डदानादि मृतानाम् प्राणैस्त्यक्तानाम् अपि जन्तूनां प्राणिनाम् चेत् तृप्तिकारणम् सन्तोषसाधनम् , तदा स्नेहः तैलम् निर्वाणस्य अग्निशिखया वियुक्तस्य प्रदीपस्य शिखाम् ज्वालाम् सम्वर्धयेत् , यदि मृतस्यापि जन्तोःश्राद्धेन तृप्तिर्जायते तदा निर्वाणे दीपे न्यस्तं तैलं तदीयामपि शिखां समेधयितुं शक्नुयान्न च शक्नोति, तत् पुत्रकृतेन श्राद्धेन मृतस्य पितुरपि तृप्तिर्न भवितुं शक्नोतीति भावः । अनेन पितृयज्ञप्रतिपादकं शास्त्रं दूषितं वेदितव्यम् ॥२१॥ मिलता है तो दावाग्निदग्ध वृक्षोंमें बहुतसे फल भी होंगे ॥ १९ ॥ और—यदि यज्ञमें निहत पशुओंको स्वर्ग मिलता है तो यजमान अपने पिताओंको यज्ञमे क्यों नहीं मारते हैं ॥ २० ॥ और—यदि मरे लोगोंको श्राद्धद्वारा तृप्ति प्राप्त होती है तो बुझे हुए दीपमें तेल डालिये और उसकी शिखा बढ़ जायगी ॥ २१ ॥
द्वितीयोऽङ्कः ६७ शिष्यः-आचार्य, यद्येष एव परमार्थः पुरुषस्य यत्खाद्यते पीयते । तर्हि किमित्येतैस्तीर्थैः संसारसौख्यं परिहृत्यात्मा घोरघोरतरैः पराक- सान्तपन-षष्ठकालाशनप्रभृतिभिर्दुःखैः कस्मात् खेद्यते ? (आवालिअ, जई एसो जेव्व पल्मत्थो पुलिसस्स जं खज्जए पिज्जए । ता किति एदिहिं तित्थेहि संसालसुहं पलिहिलिय आप्पा घोलघोलतलेहिं पलाअ-सांतवन-सट्ठका आप्पासनप्प- हुदिहिं दुःखेहिं कुदो खविज्जदि ) चार्वाकः-धूर्तप्रणीतागमप्रतारितानामादामोदकैरियं वृत्तिर्मूर्खाणाम् । पश्य पश्य- आलिङ्गनं भुजनिपीडितबाहुमूलं भुग्नोन्नतस्तनमनोहरमायताक्ष्याः । परमार्थः-सिद्धान्तः । तैर्थिकैः-तीर्थविश्वासिभिः । संसारसौख्यम्-अङ्गनाऽऽ- लिङ्गादिजन्यं वैषयिकं सुखम् । परिहृत्य-विहाय । घोरघोरतरैः-अतिकठोरः । पराकः-स्वनामख्यातः । सान्तपनम्-तदाख्यया प्रसिद्धम् । षष्ठकालाशनम्-षष्ठ्यां सन्ध्यायाम् भोजनम्, इदमप्येकं व्रतम् । खेद्यते-कष्टम्प्राप्यते । यदि खाद्यते पीयत इत्येव सिद्धान्तसिद्धोऽर्थस्तदाऽलमात्मानमेभिः पराकादिभिरायासं जनयि- ष्येति भावः । धूर्त्तप्रणीतागमप्रतारितानाम्-वञ्चकजननिर्मितशास्त्रवञ्चितानाम् । आशामो- दकैः-कल्पनामात्रस्थितैर्लड्डुकैः । इमे हि मूर्खा वास्तविकं भौतिकं सुखं विहाय भाविस्वर्गादिकल्पनिकं वञ्चकप्रणीतशास्त्रप्रमापितं सुखं कामयमानाः कष्टानि सहन्ते, सोऽयमेषां प्रयासो मनःकल्पितमोदकैस्तृप्तिरिव मूलं न स्पृशतीति तात्पर्यम् । आलिङ्गनमिति० भुजनिपीडितबाहुमूलम् भुजाभ्यां नायकबाहुभ्याम् निपीडितम् दृढं धृतं यद्बाह्वोर्मूलमादिभागः यत्र तथा अत एव भुग्नोन्नतस्तनम् नत्रीभवदु- च्छ्रितकुचम् अतश्च मनोहरम् हृदयम् आयताक्ष्याः विशाललोचनायाः आलिङ्गनम् शिष्य-आचार्य, यदि खाना-पीना ही पुरुषोंके लिये परमार्थ है तो फिर ससार सुखको छोड़कर इन तीर्थोंमें श्रमणसे तथा घोरतर पराक सान्तपन षष्ठकालाशन प्रभृति दुःखोंसे क्यों आत्माको तकलीफ देते हैं । चार्वाक-धूर्त्तों द्वारा निर्मित आगमसे वञ्चित मूर्खोंकी यह आशामोदक वृत्ति है । देखो- बाहुसे बाहुमूलको दबाकर उन्नतस्तनी ललनाओंका आलिङ्गन कहाँ और मूर्खों द्वारा
६८ प्रबोधचन्द्रोदयम् भिक्षोपवासनियमार्कमरीचिदाहै- र्देहोपशोषणविधिः कुधियां क्व चैषः ॥ २२ ॥ शिष्यः—आचार्य, एवं खलु तैर्थिका आलपन्ति यद्दुःखमिश्रितं संसारसुखं परिहरणीयमिति । (आचालिअ, एवं खु तित्थिया आलवन्ति जं दुक्खमिसिदं संसालसुहं पलिहलणीअं त्ति ) चार्वाकः—(विहस्य) आः, दुर्बुद्धिविलसितमिदं नरपशूनाम् । त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा । आश्लेषः क्व कुत्र ? भिक्षा भैक्षचर्यम्, उपवासः उपोषणम्, नियमाः चान्द्रायणा- दयः, अर्कमरीचिदाहः पञ्चाग्निव्रतादयः सूर्यनिविष्टदृष्टिता वा, तैः, कुधियाम् नष्ट- मतीनाम् एषः देहोपशोषणविधिः कायक्लेशकरं कर्म च क्व ? नोभयोर्मनागपि सादृश्यमस्तीति भावः । दृढमङ्गनामाश्लिष्य तदुच्चकुचसम्पर्कजन्यो आनन्द क्व ? क्व चायं कायक्लेशकरो व्रतादिनियमो मूर्खैरेभिरुपदिष्टः ? तदेतयोस्तुलनायां प्रागुक्त- मेव स्वादुतया प्राशस्त्यं भजमानमत एव चादरणीयमिति बोध्यम् । वसन्ततिलकं वृत्तम्, प्रागुक्तं च तल्लक्षणम् ॥ २२ ॥ दुःखमिश्रितम्-दुःखसङ्कीर्णम्, विषसंपृक्तमिष्टान्नवत् सांसारिकसुखमपि परत्र- दुःखसङ्कीर्णतया त्याज्यमिति भावः । दुर्बुद्धिविलसितम्-बुद्धिदोषविजृम्भितम् । नरपशूनाम्-पशुतुल्यनराणाम्, तेषां पशुत्वं च हेयोपादेयार्थपरिज्ञानाभावात् , तथा त्वं चादेयमिह सुखं परित्यज्य मिथ्याभूतपरत्रसुखविषये प्रवृत्तिमत्त्वात् ॥ त्याज्यमिति० विषयसङ्गमजन्म-विषयाः स्रक्चन्दनवनिताद्याः । पदार्थाः तेषाम् सङ्गम उपभोगस्ततो जन्म प्रभवः यस्य तादृशं वैषयिकम् सुखम् आनन्दः दुःखोपसृष्टम् तदपगमादिकारणवशाज्जायमानेन कष्टेन युक्तम् अतः पुंसाम् त्याज्यम् अनुपादेयम् इति एषा एवं प्रकारा मूर्खविचारणाऽज्ञानजनधारणा । 'भोः' इदं आदृत भिक्षा उपवास नियम सूर्यकिरणदाह आदिसे देहको कष्ट देना कहाँ ? ॥ २२ ॥ शिष्य—तैर्थिकोंका कहना है कि दुःखमिश्रित होनेके कारण संसारिक सुख परिहरणीय है । चार्वाक—(हंसकर) आः ! यह तो उन नरपशुओंकी दुर्बुद्धिका विलास है । विषय संगमसे होनेवाला सुख दुःखमिश्रित होनेके कारण त्याज्य है यह मूर्खोंका
द्वितीयोऽङ्कः ६६ व्रीहीञ्जिहासति सितोत्तमतण्डुलाढ्यान् को नाम भोस्तुषकणोपहितान्हितार्थी ॥ २३ ॥ महामोहः—अये, चिरेण खलु प्रमाणवन्ति वचनानि कर्णसुखमुप- जनयन्ति । (विलोक्य, सानन्दम्) हन्त, प्रियसृहन्मे चार्वाकः । चार्वाकः—(विलोक्य) एष महाराजो महामोहः । (उपसृत्य) जयतु जयतु महाराजः । एष चार्वाकः प्रणमति । महामोहः—चार्वाक, स्वागतं ते । इहोपविश्यताम् । चार्वाकः—(उपविश्य) एष कलेः साष्टाङ्गं प्रणामः । महामोहः—अये कले, भद्रमव्याहतम् । शिष्यसम्बोधनम् , को नाम हितार्थी अभिलषितेच्छुः श्रेयःकामयमानः सितोत्तम- तण्डुलाढ्यान् श्वेतोत्तमतण्डुलयुक्तान् व्रीहीन् धान्यानि तुषकणोपहितान् तुषयुक्तान् जिहासति त्यक्तुमिच्छति । यथातुषपूर्णस्य व्रीहिराशेः सितोत्तमतण्डुलग्रहतया हितार्थिनो ग्रहणमेव कुर्वन्ति न त्यागं, तथैवांशिकक्लेशपूर्णस्यापि सांसारिकसुख- स्यादर एव यतनीयं न त्याग इति, तत्त्यागप्रवृत्तिश्चोपादेयत्यागप्रवृत्तिरूपतया कर्तु- र्मूखतां गमयेदिति भावः । निदर्शनाऽलङ्कारः । पुंसामिति कर्त्तरि षष्ठी, त्याज्यमिति कृत्यप्रत्यययोगात् । तू त्तमनुपदमेवोक्तम् ॥ २३ ॥ चिरेण-बहोः कालात्परतः । प्रमाणवन्ति-युक्तियुक्तानि । कर्णसुखमुपजनयन्ति= श्रवणं तर्पयन्ति । प्रियसृहत्-मित्रम् । स्वागतम्-सत्कारः । इह-अत्र । उपविश्यताम्-स्थीयताम् , आस्यतामिति वा । कलेः-कलियुगस्य । साष्टाङ्गः-अष्टाङ्गेनतियुक्तः । भद्रमव्याहतम्-कुशलमक्षतम्, त्वदीये कुशले तु कापि क्षतिर्नास्तीति प्रश्नाशयः । विचार है। क्या हित चाहने वाला व्यक्ति भूसासे मिलित होनेके कारण सुन्दर चावलसे युक्त धानको छोड़ देता है ? ॥ २३ ॥ महामोह—अरे, बहुत दिनोंके बाद आज प्रमाणयुक्त बातें कानोंको सुख प्रदान कर रही है । (देखकर प्रसन्नतासे) अहा ! हमारा मित्र चार्वाक आरहा है । चार्वाक—(देखकर) ये महाराज महामोह है । (समीप जाकर) जय हो महा- राजकी । यह चार्वाक प्रणाम करता है । महामोह—चार्वाक, आओ, स्वागत है । यहाँ बैठो । चार्वाक—यह कलि आपको साष्टाङ्ग प्रणाम करता है । महामोह—कले, सब कुशल तो है ?
७० प्रबोधचन्द्रोदयम् चार्वाकः—देवप्रसादात्सर्वत्र भद्रम्। निर्वर्तितकृत्यशेषश्च देवपादमूलं द्रष्टुमिति। यतः— आज्ञामवाप्य महतीं द्विषतां निपाता- न्निर्वर्त्य तां सपदि लब्धसुखप्रसादः। उच्चैःप्रमोदमनुमोदितदर्शनः सन् धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम्॥ २४॥ महामोहः—अथ तस्मिन्कलौ कियत्संवृत्तम् ? चार्वाकः—देव, व्यतीतवेदार्थपथः प्रथीयसीं यथेष्टचेष्टां गमितो महाजनः। देवप्रसादात्-त्वदनुग्रहात्। निर्वर्त्तितकृत्यशेषः-समाप्तकर्त्तव्यः। देवपादमूलम्- भवदीयचरणप्रान्तम्। आज्ञामिति० महतीम् कार्यगौरवगुर्वीम् आज्ञाम् प्रभोः आदेशम् अवाप्य लब्ध्वा, ताम् आज्ञाम् द्विषतां शत्रूणां निपातात् संहारात् निर्वर्त्य साधयित्वा सपदि सद्यः लब्धसुखप्रसादः प्राप्तसन्तोषः सन् उच्चैः प्रमोदो हर्षो यत्र तत्तथा सात्यानन्दम् अनुमोदितदर्शनः दर्शनदानकृपया कृतार्थीकृतः धन्यः स्तुत्यः प्रभूणाम् स्वामिनां भवताम् मोहमहाराजानाम् पदाम्बुरुहं चरणकमलम् नमस्यति प्रणमति। शत्रुनिपा- तविषयां प्रभोराज्ञामासाद्य शत्रुशातनेन तां सम्पाद्य च सन्तुष्टमना अहं चार्वाकः सानन्दं भवता दत्तदर्शनो भवतः पादकमलं प्रणमामीत्याशयः। पूर्वतनं वृत्तम्॥२४॥ तस्मिन् कलौ-तद्विषये, कलिना कियत्कार्यं कृतमिति प्रश्नाशयः। व्यतीतेति० महाजनः वैदिकजनः समधिको जन इति वा। प्रथीयसीम् पृथुतराम् भूयसीम् यथेष्टचेष्टाम् इच्छानुकूलव्यवहारम् गमितः यथेच्छाचारितां प्रापितः सन्नित्याशयः, व्यतीतवेदार्थपथः वैदिकमार्गाच्च्युतः। वैदिका जना भूयसीं यथेच्छा- चारितां लम्भिताः सन्तो वैदिकमार्गाच्च्याविता इत्येतावत् कार्यं जातमित्याशयः। चार्वाक—आपकी कृपासे सब कुशल है। सब कार्य सम्पन्न करके आपके चरणोंमे आया हूं। क्योंकि— बड़ी सी आज्ञा प्राप्त करके शत्रुओंका विनाशकर सुख तथा प्रसन्नता प्राप्त करके दर्शनकी अनुमति मिलजानेसे धन्य हो मैं प्रभुके चरणोंमें प्रणाम कर धन्य हो रहा हूं॥२४॥ महामोह—उस कलिके सम्बन्धमें कितनी दूर तक गति हुई है ? चार्वाक—देव, अधिकांश लोक वेदोक्त पथका त्याग करके यथेच्छाचारी बन गये है, इसमे न हम
द्वितीयोऽङ्कः ७१ तदत्र हेतुर्न कलिर्न चाप्यहं प्रभोः प्रभावो हि तनोति पौरुषम् ॥२५॥ तत्रोत्तराः पथिकाः पाश्चात्याश्च त्रयीमेव त्याजिताः । शमदमादीनां कैव कथा । अन्यत्रापि प्रायशो जीविकामात्रफलैव त्रयी । यथाहार्चायः— अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः ॥ २६ ॥ तदत्र अस्यां कार्यसिद्धौ न कलिः कलियुगम् हेतुः कारणम् न चापि अहं चार्वाकः कारणम् , प्रभोः महामोहस्य भवतः प्रभावः सामर्थ्यातिशयः हि पौरुषम् पुरुष- कारम् तनोति विस्तारयति । वैदिकानां लोकानां यथेच्छाचारावलम्बनेन वैदिकमार्गा- च्च्युतौ न कलेः कारणत्वं न वा मम चार्वाकस्य कारणत्वम् , अयं तु महामोहस्य प्रभोः प्रभाव एव स्वं पुरुषकारं प्रकटयतीति समधिकप्रभाववत्ताऽऽवेदनेन धन्य- तोक्ता । वंशस्थं वृत्तम् ॥ २५ ॥ आचार्यः-बृहस्पतिः । अग्निहोत्रमिति० अग्निहोत्रम् ज्योतिष्टोमादि, अथवाऽग्निहोत्रपदेनाग्निसोध्या- न्यखिलान्यपि श्रौतस्मार्तकर्मण्युपलक्ष्यन्ते, त्रयो वेदाः ऋग्यजुःसामरूपाः, त्रिदण्डम् कर्मत्यागरूपः सन्न्यासः, भस्मगुण्ठनम् शरीरे भस्मलेपः, तेन च भस्म- धारणपूर्वाणि सन्ध्यावन्दनदेवपूजनजपादीनि कर्माणि गृह्यन्ते । बुद्धिमन्तः पुरुषाः स्वबुद्धिवैभवेन राज्ञः सामदानाद्युपायेषु तत्तद्देशकालोचितमन्त्रप्रदानेन साहाय्य- माचरन्तो राज्ञः प्रीतिमातन्वते, पौरुषशालिनोऽपि पराक्रमेण शत्रून् विजित्य राज्ञः प्रीतिपात्रतां भजन्ते, द्वयेऽप्यमी राज्ञः सकाशाल्लब्धधना नयेन जीविकां सम्पाद- यन्ति, ये चैतादृशबुद्धिविकलाः पराक्रमहीनाश्च पुरुषास्ते नयेन स्वजीविकां सम्पाद- यितुमपारयन्तो लोकवञ्चनादन्यजीविकासाधनमपश्यन्तोऽग्निहोत्राद्यनेकविधविषय- जालं प्रसार्य भिन्नरुचींल्लोकान् कांश्चित् क्वचिदित्येवंप्रायोऽखिलांस्तान् कर्मपाश- बद्धान् सम्भाव्य पश्यतोहरा एते वैदिकंमन्या धूर्त्तबका लोकेभ्यो द्रव्यं लब्ध्वा स्वजीविकां सम्पादयन्तीत्याशयः ॥ २६ ॥ कारण है न कलि, यह तो आपका प्रभाव पौरुष दिखा रहा है ॥ २५ ॥ उसमें भी उत्तर और पश्चिमके लोगोंने तो वेदको छोड़ ही दिया है । शमदमादी क्या कथा ? दूसरी जगह भी वेदोंका फल केवल जीविका रह गई है, जैसाकि आचार्यने कहा है— अग्निहोत्र, वेदत्रय, दण्डधारण, भस्म यह सब बुद्धि-पौरुषहीन जनोंकी जीविका है ऐसा बृहस्पतिका मत है ॥ २६ ॥
७२ प्रबोधचन्द्रोदयम् तेन कुरुक्षेत्रादिषु तावद्देवेन स्वप्नेऽपि विद्याप्रबोधोदयो नाशङ्कनीयः। महामोहः—साधु संपादितम् । महत्खलु तत्तीर्थ व्यर्थीकृतम् । चार्वाकः—देव, अन्यच्च विज्ञाप्यमस्ति । महामोहः—किं तत् । चार्वाकः—अस्ति विष्णुभक्तिर्नाम महाप्रभावा योगिनी । सा तु कलिना यद्यपि विरलप्रचारा कृता तथापि तदनुगृहीतान्वयमालोकयितुमपि न प्रभवामः। तदत्र देवेनावधातव्यमिति । महामोहः—( सभयमात्मगतम् ) आः, प्रसिद्धमहाप्रभावा सा योगिनी स्वभावाद्विद्वेषिणी चास्माकं दुरुच्छेद्या सा । भवतु । ( स्वगतम् ) कार्य- कुरुक्षेत्रादिषु-महाभारताख्ययुद्धभूमितया प्रसिद्धं क्षेत्रं कुरुक्षेत्रं तत्प्रभृतिषु तीर्थ- स्थानेषु । देवेन-भवता । स्वप्नेऽपि-कदापि । विद्याप्रबोधयः-ज्ञानजन्म । आशङ्क- नीयः-सम्भाव्यः । सम्पादितम्-कृतम् । महत्-प्रधानम् । तत्-कुरुक्षेत्राख्यम् । व्यर्थीकृतम्-अका- र्यकारिजनितम् । विज्ञाप्यम्-बोधनीयम् । महाप्रभावा-अतिशयितसामर्थ्यशालिनी । योगिनी-सिद्धिमासाद्य परोच्चटन ।- दिकर्मपरा । सा-विष्णुभक्तिः । विरलप्रचारा-स्तोकसञ्चारा । तदनुगृहीतान्वयम्- तत्कृपापात्रजनवंशम् । ( साक्षात्तत्कृपापात्रस्य कथा दूरे तिष्ठतु, तयाऽनुगृहीतस्य जनस्य वंशे जन्मग्रहणमेवास्माकं प्रवेशं वारयितुमलमिति भावः ) आलोकयितुम्- द्रष्टुम् , किं पुनः स्प्रष्टुमिति भावः । प्रभवामः-समर्था भवामः । अत्र-विष्णुभक्त्याः प्रभावविषये । देवेन-भवता । अवधातव्यम्-ध्यानं प्रदेयम् । प्रसिद्धमहाप्रभावा-ख्यातप्रचुरसामर्थ्या । सा-विष्णुभक्तिः । स्वभावात्-अकृत्रि- अतः इन स्थानोंमें और कुरुक्षेत्रमें विद्याप्रबोधोदयकी आप आशङ्का न करें । महामोह —ठीक किया । बड़ा भारी तीर्थ व्यर्थ कर दिया । चार्वाक—महाराज, कुछ और निवेदन करना है । महामोह—वह क्या है ? चार्वाक—विष्णुभक्ति नामकी एक योगिनी है जिसका बडा प्रभाव है। यद्यपि कलिने उसे विरलप्रचार कर दिया है, फिर भी उसके द्वारा अनुगृहीत वंशकी ओर हम देख भी नहीं पाते हैं । आप इस पर ध्यान दें । महामोह—( डरकर-स्वगत ) आः ! वह योगिनी बडी प्रसिद्ध प्रभावा है और हमारे ऊपर स्वभावतः द्वेष भी रखती है, उसका नाश हमें करना चाहिये । ( प्रकाश )
मत्याहितं भविष्यति । ( प्रकाशम् ) तत्र भद्र, अलमनया शङ्कया । काम- क्रोधादिषु प्रतिपक्षेषु कुत्रेयमुदेष्यति । चार्वाकः—तथापि लघीयस्यपि रिपौ नानवहितेन जिगीषुणा भवि- तव्यम् । यतः— विपाकदारुणो राज्ञां रिपुरल्पोऽप्यरुंतुदः । उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्कुरः ॥ २७ ॥ महामोहः—( नेपथ्याभिमुखमवलोक्य ) कः कोऽत्र भोः ।
मभावात् । विद्वेषिणी-शत्रुत्वकरो दुरुच्छेद्या-कष्टेनापास्या । कार्यमत्याहितं भवि- ष्यति-विष्णुभक्ति प्रभावं विस्तारयितुं यद्युपेक्षे तथापि नाशोऽस्माकमथ प्रत्यक्षं युध्ये तत्रापि सैव गतिरित्युभयतः पाशायामस्यां रज्जौ महद्भयमुपस्थितं वेद्यम् । कामक्रोधादिषु-अस्मद्वर्गीयेषु कामनाकोपादिषु । प्रतिपक्षेषु-शत्रुषु विरोधेषु । कुत्रेय- मुदेष्यति-क्व विष्णुभक्तिः प्रकाशमेष्यति, तस्याः प्रकाशीभावो हि लोकानां हृदये- ष्वेव भावी, तत्र सर्वत्र कामादिभिः स्वावासे कृते तस्याः प्रसरो न संभवतीति तदुदयशङ्कामाकारीति तात्पर्यम् । तथाऽपि-यद्यपि कामक्रोधादिवृत्ततया जनमनसां नास्ति विष्णुभक्तेरुदयस्या- शङ्केति योजनीयम् । लघीयसि-लघुतमे । रिपौ-शत्रौ । अनवहितेन-असावधानेन । जिगीषुणा-जयेच्छाभृता । विपाकेति० विपाकदारुणः परिणामभयङ्करः अल्पः क्षुद्रतमः अपि रिपुः शत्रुः राज्ञाम् भूभृताम् अरुन्तुदः मर्मव्यथकः, तत्र दृष्टान्तमाह-सूक्ष्मः कृशाग्रभागः अपि कण्टकाङ्कुरः कण्टकप्ररोहः चरणम् उद्वेजयति पीडयति । यथा कृशाग्रोऽपि कण्ट- काङ्कुरःपादव्यथाकरो भवति तथैव तुच्छोऽपि शत्रूराज्ञां मर्म व्यथयतीति तात्पर्यम् । निदर्शनाऽलङ्कारः । अरुः मर्मस्थानं तदुपपदात्तुदतेः खशि ‘अरुर्द्विषज्जन्तस्येति’ मुमि ‘अरुन्तुदः’ इति सिद्धम् ॥ २७ ॥ कः कोऽत्र भोः-द्वारदेशे कस्तिष्ठतीति जिज्ञासा ।
भद्र, इससे घबडानेकी जरूरत नहीं है । जब काम क्रोध आदि उसके खिलाफ हैं तब वह कहाँ सिर उठायेगी ? चार्वाक—तथापि विजिगीषु व्यक्तिको छोटेसे शत्रु पर भी सावधान दृष्टि रखनी चाहिये । क्योकि— परिणाममें भयङ्कर छोटा भी शत्रु राजाओंके मर्मको दुखाता रहता है, छोटा-सा भी कण्टक चरणको उद्विग्न कर देता है ॥ २७ ॥ महामोह—( नेपथ्यकी ओर देखकर ) कौन है ?