प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 89, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ७१ तदत्र हेतुर्न कलिर्न चाप्यहं प्रभोः प्रभावो हि तनोति पौरुषम् ॥२५॥ तत्रोत्तराः पथिकाः पाश्चात्याश्च त्रयीमेव त्याजिताः । शमदमादीनां कैव कथा । अन्यत्रापि प्रायशो जीविकामात्रफलैव त्रयी । यथाहार्चायः— अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः ॥ २६ ॥ तदत्र अस्यां कार्यसिद्धौ न कलिः कलियुगम् हेतुः कारणम् न चापि अहं चार्वाकः कारणम् , प्रभोः महामोहस्य भवतः प्रभावः सामर्थ्यातिशयः हि पौरुषम् पुरुष- कारम् तनोति विस्तारयति । वैदिकानां लोकानां यथेच्छाचारावलम्बनेन वैदिकमार्गा- च्च्युतौ न कलेः कारणत्वं न वा मम चार्वाकस्य कारणत्वम् , अयं तु महामोहस्य प्रभोः प्रभाव एव स्वं पुरुषकारं प्रकटयतीति समधिकप्रभाववत्ताऽऽवेदनेन धन्य- तोक्ता । वंशस्थं वृत्तम् ॥ २५ ॥ आचार्यः-बृहस्पतिः । अग्निहोत्रमिति० अग्निहोत्रम् ज्योतिष्टोमादि, अथवाऽग्निहोत्रपदेनाग्निसोध्या- न्यखिलान्यपि श्रौतस्मार्तकर्मण्युपलक्ष्यन्ते, त्रयो वेदाः ऋग्यजुःसामरूपाः, त्रिदण्डम् कर्मत्यागरूपः सन्न्यासः, भस्मगुण्ठनम् शरीरे भस्मलेपः, तेन च भस्म- धारणपूर्वाणि सन्ध्यावन्दनदेवपूजनजपादीनि कर्माणि गृह्यन्ते । बुद्धिमन्तः पुरुषाः स्वबुद्धिवैभवेन राज्ञः सामदानाद्युपायेषु तत्तद्देशकालोचितमन्त्रप्रदानेन साहाय्य- माचरन्तो राज्ञः प्रीतिमातन्वते, पौरुषशालिनोऽपि पराक्रमेण शत्रून् विजित्य राज्ञः प्रीतिपात्रतां भजन्ते, द्वयेऽप्यमी राज्ञः सकाशाल्लब्धधना नयेन जीविकां सम्पाद- यन्ति, ये चैतादृशबुद्धिविकलाः पराक्रमहीनाश्च पुरुषास्ते नयेन स्वजीविकां सम्पाद- यितुमपारयन्तो लोकवञ्चनादन्यजीविकासाधनमपश्यन्तोऽग्निहोत्राद्यनेकविधविषय- जालं प्रसार्य भिन्नरुचींल्लोकान् कांश्चित् क्वचिदित्येवंप्रायोऽखिलांस्तान् कर्मपाश- बद्धान् सम्भाव्य पश्यतोहरा एते वैदिकंमन्या धूर्त्तबका लोकेभ्यो द्रव्यं लब्ध्वा स्वजीविकां सम्पादयन्तीत्याशयः ॥ २६ ॥ कारण है न कलि, यह तो आपका प्रभाव पौरुष दिखा रहा है ॥ २५ ॥ उसमें भी उत्तर और पश्चिमके लोगोंने तो वेदको छोड़ ही दिया है । शमदमादी क्या कथा ? दूसरी जगह भी वेदोंका फल केवल जीविका रह गई है, जैसाकि आचार्यने कहा है— अग्निहोत्र, वेदत्रय, दण्डधारण, भस्म यह सब बुद्धि-पौरुषहीन जनोंकी जीविका है ऐसा बृहस्पतिका मत है ॥ २६ ॥