प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 87, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ६६ व्रीहीञ्जिहासति सितोत्तमतण्डुलाढ्यान् को नाम भोस्तुषकणोपहितान्हितार्थी ॥ २३ ॥ महामोहः—अये, चिरेण खलु प्रमाणवन्ति वचनानि कर्णसुखमुप- जनयन्ति । (विलोक्य, सानन्दम्) हन्त, प्रियसृहन्मे चार्वाकः । चार्वाकः—(विलोक्य) एष महाराजो महामोहः । (उपसृत्य) जयतु जयतु महाराजः । एष चार्वाकः प्रणमति । महामोहः—चार्वाक, स्वागतं ते । इहोपविश्यताम् । चार्वाकः—(उपविश्य) एष कलेः साष्टाङ्गं प्रणामः । महामोहः—अये कले, भद्रमव्याहतम् । शिष्यसम्बोधनम् , को नाम हितार्थी अभिलषितेच्छुः श्रेयःकामयमानः सितोत्तम- तण्डुलाढ्यान् श्वेतोत्तमतण्डुलयुक्तान् व्रीहीन् धान्यानि तुषकणोपहितान् तुषयुक्तान् जिहासति त्यक्तुमिच्छति । यथातुषपूर्णस्य व्रीहिराशेः सितोत्तमतण्डुलग्रहतया हितार्थिनो ग्रहणमेव कुर्वन्ति न त्यागं, तथैवांशिकक्लेशपूर्णस्यापि सांसारिकसुख- स्यादर एव यतनीयं न त्याग इति, तत्त्यागप्रवृत्तिश्चोपादेयत्यागप्रवृत्तिरूपतया कर्तु- र्मूखतां गमयेदिति भावः । निदर्शनाऽलङ्कारः । पुंसामिति कर्त्तरि षष्ठी, त्याज्यमिति कृत्यप्रत्यययोगात् । तू त्तमनुपदमेवोक्तम् ॥ २३ ॥ चिरेण-बहोः कालात्परतः । प्रमाणवन्ति-युक्तियुक्तानि । कर्णसुखमुपजनयन्ति= श्रवणं तर्पयन्ति । प्रियसृहत्-मित्रम् । स्वागतम्-सत्कारः । इह-अत्र । उपविश्यताम्-स्थीयताम् , आस्यतामिति वा । कलेः-कलियुगस्य । साष्टाङ्गः-अष्टाङ्गेनतियुक्तः । भद्रमव्याहतम्-कुशलमक्षतम्, त्वदीये कुशले तु कापि क्षतिर्नास्तीति प्रश्नाशयः । विचार है। क्या हित चाहने वाला व्यक्ति भूसासे मिलित होनेके कारण सुन्दर चावलसे युक्त धानको छोड़ देता है ? ॥ २३ ॥ महामोह—अरे, बहुत दिनोंके बाद आज प्रमाणयुक्त बातें कानोंको सुख प्रदान कर रही है । (देखकर प्रसन्नतासे) अहा ! हमारा मित्र चार्वाक आरहा है । चार्वाक—(देखकर) ये महाराज महामोह है । (समीप जाकर) जय हो महा- राजकी । यह चार्वाक प्रणाम करता है । महामोह—चार्वाक, आओ, स्वागत है । यहाँ बैठो । चार्वाक—यह कलि आपको साष्टाङ्ग प्रणाम करता है । महामोह—कले, सब कुशल तो है ?