प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 44, कुल 274 में से
संदर्भ में पढ़ें२६ प्रबोधचन्द्रोदयम् ( प्रकाशम् । दृढं परिष्वज्य ) प्रिये, न भेतव्यं न भेतव्यम् । अस्मासु जीवत्सु कुतो विद्योत्पत्तिः । रतिः—अथ किं तस्या एव राक्षस्या उत्पत्तिर्युष्माकं प्रतिपक्षाणां सम्मता ? ( अध कि ता एव रक्खसीए उप्पत्ती तुम्हाणं पडिवक्खाणं सम्मदा ? ) कामः—बाढम् , सा खलु विवेकेनोपनिषद्देव्यां प्रबोधचन्द्रेण भ्रात्रा समं जनयितव्या । तत्र सर्व एते शमदमादयः प्रतिपन्नोद्योगाः । रतिः—आर्यपुत्र, कथमेतैरात्मनो विनाशकारिण्या विद्याया उत्पत्तिरे- तैर्दुर्विनीतैः श्लाघ्यते ? ( अज्जउत्त, कहं एदेहिं अप्पणो विनासकारिणीए विज्जाए उप्पत्ती एदेहिं दुव्विणीदेहिं सलाहिज्जदि ? ) मात्रप्रयोगेणैव रत्या इति विशेष्यस्याप्यवगमो बोध्यः, तथैव वृद्धव्यवहारोऽपि, अतएवोक्तं वामनेन—'विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ' । अत एव रघुवंशे— 'निधानगर्भामिव सागराम्बराम्' इति मयूरकृतसूर्यस्तुतौ च 'जम्भारातीभकुम्भो- द्भवमिव' इति च प्रयुक्तम् । 'परीरम्भः' इत्यत्र 'उपसर्गस्य घञी'ति दीर्घः । स्पष्ट- मन्यत् । शिखरिणीवृत्तम् , 'रसैरीशैश्छिन्ना यमनसभला गः शिखरिणी' इति च तल्लक्षणम् ॥ २० ॥ दृढं परिष्वज्य—तथाकरणं च रतेर्भयनिवृत्त्यर्थम् । तस्याः-विद्यायाः । युष्माकं प्रतिपक्षाणाम्-विवेकपक्षीयणाम् । सम्मता-इष्टा । बाढम्-स्वीकृत्यर्थकम् । सा-विद्या । विवेकेन-ज्ञानेन । उपनिषद्देव्याम्-उपनि- षदभिधानायाम् महिष्याम् । प्रतिपन्नोद्योगाः-कृतप्रयत्नाः । एतैः-विवेकादिभिः । आत्मनो विनाशकारिण्याः-विद्यायां जातायामाविद्यक- पदार्थमात्रनिवृत्तिस्त्रिपुटीनाशश्च भवतीति दृष्ट्या विवेकादीनामपि तया नाश एव क्रियत इति मनसि निधायेत्थमुक्तम् । दुर्विनीतैः-अविनीतैः । श्लाघ्यते-प्रशस्यते । ( प्रकाश ) ( जोरोंसे लिपटकर ) प्रिये, मत डरो, मत डरो । हमारे रहते विद्या किस तरह उत्पन्न होगी ? रति—फिर क्या उस राक्षसीकी उत्पत्ति आपके दुश्मनोंको पसन्द है ? काम—हाँ, वह विवेकसे उपनिषद् देवीमे प्रबोधचन्द्र नामक भाईके साथ जन्म ले गी । इसलिये ये शम दम आदि उद्योगशील हैं । रति—आर्य्यपुत्र, इन लोगोंने आत्मविनाशकारिणी विद्याकी उत्पत्तिकी क्यों तारीफ शुरू कर दी है ?