भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 45, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 45

प्रथमोऽङ्कः २७ कामः—प्रिये, कुलक्षयप्रवृत्तानां पापकारिणां कुतः स्वपरप्रत्यवाय- गणना । पश्य पश्य— सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशमनु प्रयाति नाशम् ॥ २१ ॥ अत्र परिकरो नाम द्वितीयं नाट्याङ्गमनुपन्यस्तं वेद्यम्—'तद्बाहुल्यं परिकरः' इति च तल्लक्षणम्। कुलक्षयप्रवृत्तानाम्-वंशनाशसमुद्यतानाम्। पापकारिणाम्-पापिनाम् । स्वपरप्रत्यवायगणना—स्वस्य परेषां च प्रत्यवायः कष्टजनकदुरदृष्टविशेषस्तद्गणना तत्र विषये विचारः । ये स्ववंशमेव विनाशयितु प्रवृत्तास्ते कुतः परस्य स्वस्य भवन्तं विनाशं चेतयेयुस्तेषां तादृशविनाशस्यैवेष्टत्वादित्याशयः। सहजेति० सहजमलिनाः स्वभावतो मालिन्ययुक्ताः वक्रभावः कौटिल्यं तं भज- न्तीति वक्रभावभाजाः कुटिलाश्चेति सहजमलिनवक्रभावभाजस्तेषाम् स्वभावमलिन- कुटिलानाम् भव उत्पत्तिः प्रभवस्य उत्पादकस्य आत्मनः स्वस्य च नाशस्य हेतुः कारणं भवति जायते । स्वभावतो मलिनाः कुटिलाश्च जायमाना एव स्वप्रभवं स्वं च विनाशयन्तीत्याद्यपादद्वयार्थः । तत्र दृष्टान्तमाह—जलधरेति० धूमः जलधरपद- वीम् मेघभावम् अवाप्य प्राप्य ज्वलनविनाशमग्नेरुपशमम् अनु पश्चात् नाशम् अवसानम् प्रयाति। अयमर्थः—धूमो मलिनः कुटिलगतिश्च भवतीति प्रत्यक्षमेव, स हि वह्नेरुत्पद्यते, उत्पद्यमानश्चासौ मेघरूपतां प्रतिपद्यते प्राकृतिकनियमवशात् , मेघभावेन स्थितश्चासौ स्वप्रभवस्याग्नेः स्वरूपस्य धूमस्य च नाशं प्रयोजति वृष्टयो- भयोरपि शाम्यत्वादिति । धूमो मेघतां प्राप्नोति, तत्र कालिदासोऽपि प्रमाणम्— 'धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः' इति। प्रभवत्यस्मादिति प्रभवः, तथा च पाणिनीयं सूत्रमपि—'भुवः प्रभवः' इति। अत्र दृष्टान्तालङ्कारेण—यमादेर्धूमस्य च परस्परं बिम्बप्रतिबिम्बभावेनौपम्यात्तेपाद्यथा धूमो वृष्टिमुत्पाद्याश्रयमग्निं विनाशय स्वयमपि नश्यति तथा यमादयोऽपि विद्यामुत्पाद्य स्वकारणं नाशयित्वा स्वयमपि नश्यन्तीत्यर्थो व्यज्यते। अत्र परिन्यासो नाम नाट्याङ्गम्—तल्लक्षणं यथा—'तस्य काम—प्रिये, कुलक्षयमे प्रवृत्त इन पापियोंको स्व-परका क्या ज्ञान है ? देखो— स्वभावमलिन तथा कुटिल पदार्थोंका जन्म जनक तथा जन्य दोनोके विनाशका कारण हुआ करता है। जब धूम मेघ बन जाता है, तब वह आगके साथ ही धूमका भी विनाश कर देता है ॥ २१ ॥