प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
प्रथमोऽङ्कः २७ कामः—प्रिये, कुलक्षयप्रवृत्तानां पापकारिणां कुतः स्वपरप्रत्यवाय- गणना । पश्य पश्य— सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशमनु प्रयाति नाशम् ॥ २१ ॥ अत्र परिकरो नाम द्वितीयं नाट्याङ्गमनुपन्यस्तं वेद्यम्—'तद्बाहुल्यं परिकरः' इति च तल्लक्षणम्। कुलक्षयप्रवृत्तानाम्-वंशनाशसमुद्यतानाम्। पापकारिणाम्-पापिनाम् । स्वपरप्रत्यवायगणना—स्वस्य परेषां च प्रत्यवायः कष्टजनकदुरदृष्टविशेषस्तद्गणना तत्र विषये विचारः । ये स्ववंशमेव विनाशयितु प्रवृत्तास्ते कुतः परस्य स्वस्य भवन्तं विनाशं चेतयेयुस्तेषां तादृशविनाशस्यैवेष्टत्वादित्याशयः। सहजेति० सहजमलिनाः स्वभावतो मालिन्ययुक्ताः वक्रभावः कौटिल्यं तं भज- न्तीति वक्रभावभाजाः कुटिलाश्चेति सहजमलिनवक्रभावभाजस्तेषाम् स्वभावमलिन- कुटिलानाम् भव उत्पत्तिः प्रभवस्य उत्पादकस्य आत्मनः स्वस्य च नाशस्य हेतुः कारणं भवति जायते । स्वभावतो मलिनाः कुटिलाश्च जायमाना एव स्वप्रभवं स्वं च विनाशयन्तीत्याद्यपादद्वयार्थः । तत्र दृष्टान्तमाह—जलधरेति० धूमः जलधरपद- वीम् मेघभावम् अवाप्य प्राप्य ज्वलनविनाशमग्नेरुपशमम् अनु पश्चात् नाशम् अवसानम् प्रयाति। अयमर्थः—धूमो मलिनः कुटिलगतिश्च भवतीति प्रत्यक्षमेव, स हि वह्नेरुत्पद्यते, उत्पद्यमानश्चासौ मेघरूपतां प्रतिपद्यते प्राकृतिकनियमवशात् , मेघभावेन स्थितश्चासौ स्वप्रभवस्याग्नेः स्वरूपस्य धूमस्य च नाशं प्रयोजति वृष्टयो- भयोरपि शाम्यत्वादिति । धूमो मेघतां प्राप्नोति, तत्र कालिदासोऽपि प्रमाणम्— 'धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः' इति। प्रभवत्यस्मादिति प्रभवः, तथा च पाणिनीयं सूत्रमपि—'भुवः प्रभवः' इति। अत्र दृष्टान्तालङ्कारेण—यमादेर्धूमस्य च परस्परं बिम्बप्रतिबिम्बभावेनौपम्यात्तेपाद्यथा धूमो वृष्टिमुत्पाद्याश्रयमग्निं विनाशय स्वयमपि नश्यति तथा यमादयोऽपि विद्यामुत्पाद्य स्वकारणं नाशयित्वा स्वयमपि नश्यन्तीत्यर्थो व्यज्यते। अत्र परिन्यासो नाम नाट्याङ्गम्—तल्लक्षणं यथा—'तस्य काम—प्रिये, कुलक्षयमे प्रवृत्त इन पापियोंको स्व-परका क्या ज्ञान है ? देखो— स्वभावमलिन तथा कुटिल पदार्थोंका जन्म जनक तथा जन्य दोनोके विनाशका कारण हुआ करता है। जब धूम मेघ बन जाता है, तब वह आगके साथ ही धूमका भी विनाश कर देता है ॥ २१ ॥
२८ प्रबोधचन्द्रोदयम् (नेपथ्ये) आः पाप दुरात्मन्, कथमस्मानेव पापकारिण इत्याक्षि- पसि। ननु रे ! गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ २२ ॥ इति पौराणिकीं गाथां पुराणविद् उदाहरन्ति। अनेन चास्माकं जन- केनाहङ्कारानुवर्तिना जगत्पतिः पितैव तावद्बद्धः। मोहादिभिश्च स एव बन्धः सुदृढतां नीतः। कामः—( विलोक्य ) प्रिये, अयमस्माकं कुले ज्यायान् मत्या देव्या सह विवेक इत एवाभिवर्तते। य एषः— दार्ढ्यं परिन्यासः' इति। पुष्पिताग्रावृत्तम्, अयुजि नयुगरेफतो यकारो युजि च नजौ जरजाश्च पुष्पिताग्रा' इति तल्लक्षणम् ॥ २१ ॥ अस्मान्–विवेकादीन्। आक्षिपसि–निन्दसि। गुरोरिति० अवलिप्तस्य गर्वोद्धतस्य कार्याकार्यम् इदं कर्त्तव्यमिदमकर्त्तव्यमिति अजानतः अबुद्ध्यमानस्य उत्पथप्रतिपन्नस्य उन्मार्गगामिनः गुरोः पित्रादेरपि परि- त्यागः विधीयते क्रियते। यदि गुरुरपि गर्वी कार्याकार्यविवेकादत्त उन्मार्गगश्च जायते तदा तस्यापि त्यागः कर्त्तव्य इत्यर्थः ॥ २२ ॥ पौराणिकीम्–पुराणगताम्। गाथाम्–उक्तिम्। उदाहरन्ति–कथयन्ति। अनेन- मनसा। अस्माकम्–विवेकादीनाम्। अहङ्कारानुवर्त्तिना–अहङ्कारानुगमनपरायणेन। जगत्पतिः–संसारस्वामी। पिता–परमेश्वरः। बद्धः बन्धनं नीतः। परमेश्वरसकाशादु- त्पन्नं मनो विषयोन्मुखीकरणद्वारा तस्यैव बन्धनं जनयतीत्यभिप्रेत्यायं ग्रन्थः। मोहा- दिभिश्च स एव बन्धो दृढतां नीतो यो मनसा जनितोऽतो मन एव बन्धकारणमतस्तस्यो न्मार्गगामिन उच्छेदाय यत्नो नास्माकं पापं प्रयोजयिष्यत्युक्तपुराणोक्तेरिति भावः। ज्यायान्–श्रेष्ठतमः। मतिर्नाम विवेकपत्नी। अभिवर्त्तते–आयाति। (नेपथ्ये) अरे पाप, दुरात्मन्, क्यों हमलोगोंको ही पापी बताकर कोस रहा है ? अरे ! अवलिप्त हो जानेपर कर्त्तव्याकर्त्तव्य ज्ञानसे वञ्चित तथा उत्पथप्रवृत्त गुरुका भी त्याग कर देना चाहिये ॥ २२ ॥ पुराण जानने वाले ये पौराणिक गाथा बताते हैं। इस हमारे जनकने अहङ्कारके साथ मिलकर जगत्पिताको ही बांध रखा है। मोह आदिने उसी बन्धनको दृढ़ किया है। काम—( देखकर ) हमारे कुलका श्रेष्ठ पुरुष विवेक देवी मति के साथ इधर ही आ रहा है। जो यह—
प्रथमोऽङ्कः २६ रागादिभिः स्वरसचारिभिरात्तकान्ति- र्निर्भर्त्स्यमान इव मानधनः कृशाङ्गः । मत्या नितान्तकलुषीकृतया शशाङ्कः कान्त्येव सान्द्रतुहिनान्तरितो विभाति ॥ २३ ॥ तन्न युक्तमिहास्माकमवस्थातुम् । ( इति निष्क्रान्तौ ) विष्कम्भः ( ततः प्रविशति राजा विवेको मतिश्च ) रागादिभिरिति० स्वरसचारिभिः स्वेच्छया व्यवहारिभिः रागादिभिः रागद्वेषलो- भादिभिः निर्भर्त्स्यमानः तिरस्क्रियमाण इव आत्तकान्तिः हृततेजाः कृशाङ्गः दुर्बलतनुः मानधनः अभिमानमात्रविभव इव नितान्तकलुषीकृतया अत्यन्तपीडितया कान्त्या स्वप्रभया रागादिभिरिति शेषः, मत्या स्वस्त्रिया सान्द्रतुहिनान्तरितः निबिडनीहारा- वृतः शशाङ्कः चन्द्रः कान्त्या स्वप्रभया इव विभाति। अयमाशयः-यथा नीहारावृतश्चन्द्र- माः स्वकान्त्या विभाति दुर्बलः पूर्णप्रकाशविकलश्च तथैवाय विवेकोऽपि यथेच्छाचारि- रागादिभिः हृतप्रभो निन्दित इव कथञ्चित्थमपि मानं रक्षन् पूर्णरूपेण स्वप्रभावस्थाप- नासमर्थतया कृशकाय इवोपलक्ष्यमाणे मत्या दुर्बलदेहलतया युक्तो विभातीति । विवेकोऽपि नीहाररूपयाऽविद्ययाऽऽव्रियत इति ध्वनिः। शेषमतिस्पष्टम्। वसन्त- तिलकं वृत्तम् , तल्लक्षणं यथा—'उक्त वसन्ततिलकं तभजा जगौ गः' इति ॥ २३ ॥ तत्—तस्मात् , विवेकसंनिधानात् । अस्माकम्-कामरत्यादिमोहपक्षीयाणाम् ! एतेन विवेकसंनिधाने कामरत्योर्निष्प्रभावत्वं व्यञ्जितम् । विष्कम्भः-मिश्रविष्कम्भः, तथा च लक्षणम्— अङ्कशेषकथांशानां भूतानां भाविनामपि । संक्षेपेण समस्तानां विष्कम्भः सूचनात्मकः ॥ रागादि यथेच्छाचारियोंने इसकी कान्ति हरली हैं, उपेक्षित होकर यह अभिमानी दुर्बल हो रहा है, इसकी सहचारिणी मति भी कलुषित हो रही है, इस तरह यह घने कुहरेमे पड़े हुए चन्द्रमाके—समान प्रतीत होता है ॥ २३ ॥ इस समय हमलोगोंका यहां रहना अच्छा नहीं है । ( दोनोंका प्रस्थान ) विष्कम्भ ( राजा विवेक तथा मतिका प्रवेश )
३० प्रबोधचन्द्रोदयम् राजा—( विचिन्त्य ) प्रिये, श्रुतं त्वयास्य दुर्विनीतस्य कामबटोर्मद- विस्फूर्जितं वचो यदस्मानेव पापकारिण इत्याक्षिपति । मतिः—आर्यपुत्र, किमात्मनो दोषं लोको विजानाति । ( अज्जउत्त, किं अप्पणो दोसं लोगो चिआणादि ) राजा—पश्य— असावहङ्कारपरैर्दुरात्मभि- र्निबध्य तैः पापशठैर्मदादिभिः । विरसोऽनुचितस्तत्र सूच्यः स्याद्वस्तुविस्तरः । शुद्धो मिश्रस्तु स द्वेधा मध्यपात्रप्रयोजितः ॥ शुद्धो भवति, मिश्रस्तु नीचमध्यप्रयोजितः । प्रधानादपरं मध्यं नायकादेरुदात्तवाक् ॥ नीचं स्यादनुदात्तोक्तेर्विना परिजनादिकम् । उदात्तवाक्-संस्कृतवाक् अनुदात्तवाक्-प्राकृतभाषा । विवेको नामश्रवणम् , मतिस्तत्र सहायिका काचना संभावना विपरीतभाव- नयोर्निवर्त्तिका बुद्धिवृत्तिर्मननात्मिका । श्रवणं प्रति मननस्याङ्गत्वेनेह मत्या विवेक- पत्नीत्वव्यपदेशः । तयोरेव विवेकमत्योरत्र पात्रीकरणमाध्यात्मिककथाविस्तृतये कृतं तत्र विवेकस्य राजत्वं मत्याश्च तत्पत्नीत्वं वेद्यम् । दुर्विनीतस्य—विनयशून्यस्य । मदविस्फूर्जितम्-गर्वयुक्तम् । अस्मान्-विवेका- दीन् । लोकः-साधारणो जनः । यतः साधारणो जनः स्वं दोषं न विजानाति तेनैव कामोऽपि स्वं दोषं नावैति येनास्मानेव पापकारितयाऽऽक्षिपति, तत्र तस्य साधारण- जनत्वमेव कारणमित्यर्थः । आसाविति० अहङ्कारः अहङ्कर्त्ताऽहम्भोक्तेत्येवरूपो मनोभावः परः प्रधानं येषु तैरहङ्कारानुवर्त्तिभिः दुरात्मभिः दुष्टान्तःकरणशालिभिः पापाश्च शठाश्च तैः पापशठैः मदादिभिः मदमात्सर्यलोभप्रभृतिभिः कर्त्तृभिः असौ विख्यातसद्गुणः चिदानन्दमयः चित्स्वरूपः आनन्दस्वरूपश्च निरञ्जनः निर्गताखिलवासनः जगत्प्रभुः संसारनियन्ता राजा— ( सोचकर ) प्रिये, तुमने इस पापी कामकी मनवाली बातें सुनी जिनके द्वारा यह हमलोगोंको ही पापी कहकर शिकायत करता है । मति—आर्यपुत्र, क्या अपना दोष लोग खुद देख पाते हैं । राजा—देखो-पापी ठग तथा दुरात्मा मद आदिसे परिवृत अहङ्कारने बांधकर चिदा-
प्रथमोऽङ्कः ३१
चिरं चिदानन्दमयो निरञ्जनो जगत्प्रभुर्दीनदशामनीयत ॥ २४ ॥ त एते पुण्यकारिणो वयं तु तन्मुक्तये प्रवृत्ताः पापकारिण इत्यहो जितं दुरात्मभिः । मतिः—आर्यपुत्र, यतोऽसौ सहजानन्दसुन्दरस्वभावो नित्यप्रकाशः प्रस्फुरत्सकलत्रिभुवनप्रचारः परमेश्वरः श्रूयते । तत्कथमेतैर्दुर्विदग्धैर्बद्ध्वा महामोहसागरे निक्षिप्तः । ( अज्जउत्त, जदो सो सहजआणन्दसुन्द्वनसहावो णिच्चप्पआसो पप्फुरन्तसअलतिहुअणप्पआरो परमेस्सरो सुणीअदि । ता कहं एदेहि दुव्विणीदेहिं वधिअ महामोहसाअरे णिक्खित्तो ) (अविद्यासम्बन्धवशादखिलव्यवस्थापकः ) चिरञ्चिन्ध्य बहुकालं बद्धभावम् अवि- द्यायुक्ततामापाद्य दीनदशाम् हीनां दशां स्वरूपच्युतिम् अनीयत प्रापितः । चिदा- नन्दमयो निरञ्जनश्चासावविद्यासम्बन्धेन स्वरूपाच्यावयित्वा बद्ध इवाज्ञानीव दुःखीव च कृत इत्याशयः । परमेश्वरस्यापि मायासम्बन्धाद्वद्धताप्रत्ययो यैर्जनित- स्तेऽमी मोहादयोऽस्मानेव पापानाचक्षते तदिदं तेषां दौरात्मं पश्येति प्रघट्टकार्थः । वंशस्थं वृत्तम्—तल्लक्षणं यथा—'वदन्ति वंशस्थमिदं जतौ जरौ' इति ॥ २४ ॥ अत्र विलोभनं नाम सुखसन्धेश्चतुर्थमङ्गमुक्तं बोध्यं तल्लक्षणं यथा—'गुणाख्यानं विलोभनम्' त एते—परमेश्वरबन्धकारिण इमे मोहादयः । पुण्यकारिणः—सत्पथ- प्रवृत्ताः । काक्वा पापकारिताऽतिशयध्वनिः । तदुन्मुक्तये—तद्वन्धव्यपगमाय । प्रवृत्ताः सव्यापाराः । जितम्—विजयः प्राप्तः । दुरात्मभिः—दुष्टैः ॥ असौ—परमेश्वरः । सहजानन्दसुन्दरस्वभावः—स्वाभाविका नन्दरमणीयप्रकृतिः, परमेश्वरो हि नित्यानन्दरूपतया रम्यरूपः, यतस्तत्र दुःखस्य लेशोऽपि न प्रभवत्यु- देतुमिति । नित्यप्रकाशः—अव्याहतज्ञानः, अक्षतदीधितिर्वा, प्रस्फुरत्सकलत्रिभुवन- प्रचारः—संसारव्यापी । एतैः—मोहादिभिः । दुर्विदग्धैः—दुष्टैर्धूर्तेः । बद्ध्वा बन्धनं प्राप- य्य । निक्षिप्तः—पातितः । अयमाशयः—सान्द्रानन्दनिर्भरो जगद्व्यापकोऽव्याहतज्ञानश्च परमेश्वरः कथमेभिर्धूर्तेर्मोहादिभिर्वञ्चयित्वा मोहसागरे पातित इत्याश्चर्यमिति ।
नन्दमय नित्य निष्कलङ्क उस जगत्प्रभुको दीनदशा प्राप्त करा दी है ॥ २४ ॥ इस तरह यह पुण्यात्मा है और उनकी मुक्तिके लिये प्रयत्न करने वाले हम पापी हैं ? धन्य है यह दुरात्मा ! मति—आर्यपुत्र, सुनती हूँ कि वह परमेश्वर सकल त्रिभुवनव्यापी तथा नित्यानन्द- स्वरूप है फिर इन दुरात्माओंने उन्हें मोह समुद्रमें कैसे डाल दिया ?
३२ प्रबोधचन्द्रोदयम् राजा—प्रिये, सततधृतिरप्युच्चैः शान्तोऽप्यवाप्तमहोदयोऽ- प्यधिगतनयोऽप्यन्तःस्वच्छोऽप्युदीरितधीरपि । त्यजति सहजं धैर्यं स्त्रीभिः प्रतारितमानसः स्वयमपि यतो मायासङ्गात्पुमानिति विश्रुतः ॥ २५ ॥ मतिः—आर्यपुत्र, नूनमन्धकारलेखया सहस्ररश्मेस्तिरस्कारो यथा तथा मायया स्फुरन्महाप्रकाशसागरस्य देवस्याप्यभिभवः । (अज्जउत्त, णं खु अन्धकारलेहाए सहस्सरस्सिणो तिरक्कारो जहा तथा माआए स्फुरन्तमहाप्प- आससाअरस्स देवस्स वि अहिहवो ) सततेति० सततधृतिः सनातनधैर्यः अपि उच्चैः उन्नतः अपि शान्तः शान्तियुक्तः अपि, अवाप्तमहोदयः प्राप्तकामोऽपि, अधिगतनयः नीतिज्ञः अपि, अन्तःस्वच्छः विम- लान्तःकरणः अपि, उदीरितधीः समयोचितज्ञानः अपि, स्त्रीभिः वनिताभिः प्रतारित- मानसः वञ्चितबुद्धिः सहजम् स्वाभाविकम् धैर्यम् गभीरत्वम् त्यजति जहाति, यतः यस्मात् कारणात् मायासङ्गात् अविद्यासम्बन्धवशात् पुमान् इति विश्रुतः प्रसिद्धः । अयमाशयः-सदाधैर्यधारी महान् शान्तिमत्तया प्रथितः प्राप्तप्रकामसमृद्धिः समभ्य- स्तनीतिशास्त्रो निर्मलान्तःकरणोऽपि लोको ललनावाञ्चितचित्ततया व्यक्षिप्यमाणः सन् स्वभावसिद्धमपि धीरत्वं मुञ्चति, अन्यस्य का कथा परमेश्वरस्याप्यविद्यासम्बन्धव- शादेव परिच्छिन्नप्रमातृतया पुमानिति या प्रसिद्धिरतत्रापि ललनाभूताऽविद्यैवकारण- मिति । हरिणीवृत्तम्, ‘नसमरसला गः षड्वेदैर्हयैर्हरिणी मता’ इति तल्लक्षणम् ॥२५॥ अत्र युक्तिर्नाम मुखसन्धेः पञ्चममङ्गयुक्तं वेदितव्यम् । तल्लक्षणं यथा—‘युक्तिः संशयितार्थस्य निर्णयः परिकीर्त्तितः’ इति । अत्र मत्या संशयितार्थस्य निर्णया- त्समन्वयः । नूनम्-निश्चयेन । अन्धकारलेखया-तमसः पङ्क्त्या सहस्ररश्मेः-सूर्यस्य । तिर- स्कारः-आच्छादनम् । स्फुरन्महाप्रकाशसागरस्य-प्रकाशीभवदनन्ततेजोराशेः। देवस्य-, राजा—प्रिये, अबाध धैर्य, शान्त महान् उदयको प्राप्त, नीतिके ज्ञाता, स्वच्छ, बुद्धिमान् होकर भी स्त्रियों द्वारा छले जाने पर स्वाभाविक धीरतासे च्युत हो जाते हैं, इसीलिये परमेश्वर भी मायासंसर्गसे पुमान् कहाने लगे हैं ॥ २५ ॥ मति—आर्यपुत्र, जिस प्रकार सूर्य का अभिभव अन्धकार द्वारा होता है उसी प्रकार माया द्वारा ब्रह्मका अभिभव हुआ ।
प्रथमोऽङ्कः ३३ राजा—प्रिये, अविचारसिद्धेयं वेश्याविलासिनीव माया असतोऽपि भावानुपदर्शयन्ती परपुरुषं वञ्चयति । पश्य— स्फटिकमणिवद्भास्वान्देवः प्रगाढमनार्यया विकृतिमलया नीतः कामप्यसङ्गतविक्रियः । न खलु तदुपश्लेषादस्य व्यपैति रुचिर्मनाक् प्रभवति तथाऽप्येषा पुंसो विधातुमधीरताम् ॥ २६ ॥ परमेश्वरस्य । अभिभवः-तिरोहितप्रकाशत्वम्, अयमाशयः—यथाऽन्धकारः सूर्यं तिरोभावयति-स्वरूपाच्युतावपि प्रच्छन्नतेजसं विदधाति, तथैवाविद्यापि परमेश्वरस्य स्वरूपमविपाद्यापि बाह्य प्रकाशं तिरोभावयतीति । अत्र प्राप्तिर्नाम मुखसन्धेः पञ्चमङ्गोक्त तल्लक्षण यथा—'अर्थानामानुकूल्येन सुखाप्तिः प्राप्तिरिष्यते' इति । अविचारसिद्धा-यावदविचारंकवस्थिता, विचारे जाते मायासम्बन्धानादिदं विशेषणम् । वेश्याविलासिनी-वारवनिता । वारवनिता अपि विचारदृष्टयाऽरम- णीयत्वेन तदौपम्यम् । असतः-कृत्रिमान्, अविद्यमानाँश्च । वेश्या हि कृत्रिमान् भावान् प्रणयसूचकांश्चेष्टाविशेषान्प्रकाशयति मायापि असतः अत्यन्तासतो गगन- कमलिनीकल्पान् पदार्थान् प्रदर्शयतीति परमार्थः । परपुरुषम्-स्वपतिभिन्नं पुमां- सम् , परमुत्कृष्टं पुरुषं परमेश्वरमिति च, तत्राद्योऽर्थो वेश्यापक्षे चरमश्च मायापक्ष इति विवेकः । स्फटिकमणिवदिति० स्फटिकमणिवद् भास्वान् प्रकाशशाली देवः परमेश्वरः ( प्रपञ्चात्मना क्रीडनप्रवृत्ततया देवपदम् ) अनया प्रत्यक्षप्रभावया अनार्यया तुच्छ- स्वभावतया नीचतया असङ्गतविक्रियः अनुपपद्यमानविकारोऽपि प्रगाढम् भृशा कामपि अनिर्वाच्याम् विकृतिम् उपरकतारूपाम् विक्रियाम् नीतः प्रापितः । तदुप- श्लेषात् मायासंसर्गवशात् अस्य परात्मनः मनागपि ईषदपि रुचिः स्वरवरूप- प्रकाशः न खलु अपैति दूरीभवति, ( यद्यप्येवं ) तथापि एषा माया पुंसः परमेश्व- रस्य अधीरताम् स्वरूपच्युतिलक्षणाम् दशाम् विधातुम् प्रभवति यतते, स्फटिकमणि- राजा—प्रिये, अविचारसिद्धा यह माया वेश्या की तरह अवत्तमान भावोंको प्रदर्शित करके परपुरुषको छला करती है, देखो— स्फटिक मणिकी तरह भास्वर ये परमेश्वर इस अभागी अविद्याके द्वारा अविक्रिय होनेपर भी विक्रियाको प्राप्त कराये जाते हैं, अविद्यासम्पर्क होनेपर भी परमेश्वरकी स्वाभाविक रुचि नष्ट नहीं होने पाती, फिर भी यह अविद्या पुरुषको अधीर कर देती है ॥ २६ ॥ ३ प्र० च०
३४ प्रबोधचन्द्रोदयम् मतिः—आर्यपुत्र, किं पुनः कारणं येन सा तथोदारचरितं दुर्विदग्धा प्रतारयति । ( अज्जउत्त, किं पुणो कारणं जेण सा तथा उदारवरिदं दुव्विदग्धा प्रतारोदि ) राजा—न खलु प्रयोजनं कारणं वा विलोक्य माया प्रवर्तते । स्वभावः खल्वसौ स्त्रीपिशाचीनाम् । पश्य— संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । यथा जपाकुसुमसंनिधानात् रक्तोऽपि स्वभाविकं शैत्यं न जहाति तथा परमेश्वरोऽपि मायामन्त्रध्वशात्कर्तृत्वादिरूपरूपितोऽपि स्वरूपान्न व्यवते, तथाप्यस्या मायायाः प्रयासो न विरमति, वैफल्येऽपि प्रवृत्तिरस्या न दूरीभवति, तदियमतिदुरन्तेति भावः । परमेश्वरस्य देवत्वं क्रीडनप्रवृत्तिमुपलक्ष्योक्तं तत्र च 'तदैक्षत बहुस्यां प्रजाये- ये'ति श्रुतिः प्रमाणम् । असङ्गतविक्रियः' इत्युक्त्या यथा स्फटिके नोपाधिवर्णस्य कदापि सङ्क्रान्तेः सम्भवस्तथाऽत्रापि नोपरागसम्भावनेति प्रतिपाद्यते । तदेव प्रदर्श- यितुमुक्तं—'न खलु तदुपश्लेषा'दिति । पूर्वोक्तमेव वृत्तम् ॥ २६ ॥ अत्र समाधानं नाम मुखसन्धेः सप्तममङ्गं प्रदर्शितं, 'स्फटिकमणिवद्भास्वान् देवः' इत्यनेन बीजानुसन्धानात् , तथा च तल्लक्षणम्—'यद्वीजस्यानुसन्धानं तत्स- माधानमित्यते' इति । उदारचरितम्-महोत्त्वस्वभावम् । दुर्विदग्धा-धूर्त्ता । प्रयोजनम्—फलं, प्रवृत्त्युद्देश्यं कार्यं वा । कारणम्—प्रवृत्तिहेतुभूतम् । यथा पयसः प्रसरणं स्वभावस्तन्न न कस्यापि फलस्य कारणस्य वाऽपेक्षा तथा मायाया अपि बन्धनं स्वभाव इति । स्त्रिय एव पिशाच्यः स्त्रीपिशाच्यस्तासाम् स्त्रीपिशाची- नाम् , अत्र स्त्रीणां पिशाचीत्वोक्तिस्तासां निष्कारणपरोपतापक्त्वदुस्सयजत्वाद्विख्योत- नाय । स्वभावस्याकारणजन्यतया तत्कारणगवेषणं वृथेति भावः । नमोहयन्तीति० सम्मोहयन्ति-मोहयुक्तं कुर्वन्ति, मदयन्ति-अभिमानमुत्पाद- यन्ति, विडम्बयन्ति-उपहसन्ति, निर्भर्त्सयन्ति-ताडयन्ति, रमयन्ति-प्रमोदयन्ति, मति—क्या कारण है कि वह अभागी अविद्या उस प्रकार उदारचरित, पुरुषको भी धोखेमें डाल देती है ? राजा—माया किसी कारण वा प्रयोजनको देखकर माया नहीं प्रवृत्त होती है, वह उन स्त्रीपिशाचियोंका स्वभाव ही है । देखो— मोहित करती हैं, मदयुक्त बनाती हैं, धिक्कारती हैं, खुश करती हैं, तक़लीफ देती हैं,
प्रथमोऽङ्कः ३५ एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ २७ ॥ अस्ति चापरमपि कारणम् । मतिः—आर्यपुत्र, किं नाम तत्कारणम् ? (अज्जउत्त, किं णाम तक्कारणं ? ) राजा—एवमनया दुराचारया विचिन्तितं यदहं तावद्गतयौवना वर्षी- यसी । अयं पुराणपुरुषः स्वभावादेव विषयरसविमुखः । ततः स्वतनयमेव रमेश्वरे पदे निवेशयामीति, तमेव मातुरभिप्रायमासाद्य नितान्ततत्प्र- सन्नतया तद्रूपतामिवापन्नेन मनसा नवद्वाराणि पुराणि रचयित्वा । सादयन्ति-खेदयन्ति एता वामनयनाः सुन्दरदृशः नराणां पुरुषाणां सदयं दयायुतं यं प्रविश्य वञ्चनया स्वाधीनभावं नीत्वा किन्न नाम न समाचरन्ति सर्वमकार्यं र्यं च विदधतीत्यर्थः । अत्र स्त्रीसामान्यस्य पुरुषवशीकारपूर्वकाकार्यकृतिकुशलता- नेपादनद्वारा मायायाः परमेश्वरवशीकारपूर्वकं तद्बन्धनं समर्थितं भवतीति ध्यम् । वसन्ततिलकं वृत्तम् ॥ २७ ॥ अत्र विधानं नाम मुखसन्धेरष्टममङ्गं प्रतिपादितम् , तल्लक्षणं यथा-‘सुखदुःखकरं द्विधानं परिकीर्त्तितम्’ इति । अनया-मायया । दुराचारया-दुष्टचरित्रया । विचि- तम्-तर्कितम् । गतयौवना-पुरुषप्रेमनिदानभूतयौवनशून्या, गतावस्था वा, रापि सर्वविधावस्थारहिताऽनादित्वादिति बोध्यम् । वर्षीयसी-अतिवृद्धा, पुरुष- रात्मा, ( अयं पुरुषः परमेश्वरः ) पुराणपुरुषः-वृद्धः पुमान् विषयरसविमुखः- यिकसुखभोगविरक्तः । तदेवं दम्पत्योर्वार्धक्यं जातमित्यावेदितम् । स्वतनयम्- पुत्रं मनोनामकम् । पारमेश्वरे पदे-जगत्कर्तृत्वनियन्तृत्वादिरूपे परमेश्वरकर्त्तव्ये । वेशयामि-स्थापयामि । अन्यापि वर्षीयसी वृद्धपतिश्च चतुरा वनिता स्वतनयं कार्याधिकारे निवेशयति तदनुरूपमनया मायया चिन्तितमित्यर्थः । अत्र चिन्ति- तँत्यस्य निवेशयामीत्यन्तवाक्यार्थः कर्म । तम्—पूर्वोक्तम् । मातुः—जनिकाया प्रायाः । अभिप्रायमासाद्य-इच्छामवेत्य । नितान्तप्रत्यासन्नतया-सततसन्निहित- यमे प्रवेश करके स्त्रियाँ पुरुषोंका क्या नही कर देती है ? ॥ २७ ॥ और भी कारण है । मति—आर्यपुत्र, वह क्या कारण है ? राजा—इस दुष्टा मायाने सोचा कि मै गतयौवना वृद्धा हुई, ये पुराण पुरुष भी ावतः विषय विमुख हो गये हैं, इसलिये अपने पुत्रको ही पारमेश्वर के पदपर बिठा दूं । ने अपनी माता अविद्याके इस अभिप्रायको समझ कर सतत आत्मसमीपवर्ती रहनेके ण उसीका रूप बनाकर नवद्वार यह शरीररूप पुर बना डाला ।
३६ प्रबोधचन्द्रोदयम् एकोऽपि बहुधा तेषु विच्छिद्येव निवेशितः । स्वचेष्टितमथो तस्मिन्विदधाति मणाविव ॥ २८ ॥ मतिः- (विचिन्त्य) आर्यपुत्र, यादृशी माता पुत्रोऽपि तादृश एव जातः । (अज्जउत्त, जादिसी मादा पुत्तको वि तादिसो जेव्व जादो ।) राजा-ततोऽसावहंकारे चित्तस्य ज्येष्ठपुत्रेण नप्त्रा परिष्वक्तः । ततश्चासावीश्वरः । तया । तद्रूपताम्-परमेश्वरसादृश्यम् । आपन्नेन-प्राप्तेन । अन्योऽपि मात्रा लालितः कुमारः पित्रा यौवराज्येऽधिक्रियमाणः सन् सततं तन्न्यासङ्गः सन् तद्विधेयानि कार्याणि करोति, तदनुकृत्यायं व्यवहारारोपः । नवद्वाराणि-नवसङ्ख्यकद्वारवन्ति, नवीनतमप्रवेशमार्गयुतानि । अत्र तत्तदिन्द्रियच्छिद्रयुक्तस्य देहस्यैव पुरात्मना रूपणं, देहे हि नवच्छिद्राणि मन्यन्ते नासाकर्णादीनि । एकोऽपीति० तेषु देहरूपपुरेषु एकोऽपि वस्तुतोऽभिन्नोऽपि परमात्मा विच्छिद्य पृथग्भावमापाद्य इव बहुधा नानाभावेन निवेशितः स्थापितः, बिम्बप्रतिबिम्बभावेन व्यवस्थापितः, यथैकस्यापि सूर्यस्य रजतपात्रावस्थापितजलशते शतं प्रतिबिम्बानि भवन्ति तद्वदात्मनोऽप्येकस्यैव तत्तद्देहेषु प्रवेश इति बोध्यम् । अथो अनन्तरं तस्मिन् देवे स्वचेष्टितं मनसा क्रियमाणं कर्तृत्वादिरूपम् मणौ इव विदधाति करोति । यथा जपादिरुपाधिः स्वधर्मं रक्तत्वादिकं मणौ प्रतिभासयति तद्वन्मनोऽपि स्वधर्मं कर्तृ- त्वभोक्तृत्वादिकं परमात्मरूपे पुरुषे प्रतिभासयतीति परपादद्वयार्थः ॥ २८ ॥ यादृशी-वञ्चनादि यावद् गुणोपेता । माता-अत्र माया । तादृशः-मातृगुणसजा- तीयगुणोपेतः । जातः-पुत्रोऽत्र मनोरूपः । ततः-पुरप्रवेशानन्तरम् । असौ-पुरुषः । चित्तस्य-बुद्धितत्त्वस्य । ज्येष्ठपुत्रेण- प्रधानेन सुतेन । नप्त्रा-पुत्रपुत्रेण । पुरुषस्य पुत्रो मनोरूपस्तत्पुत्रश्चाहङ्कार इति तत्र नप्तृत्वारोपः । और उन द्वारोंमें एक होकर भी भिन्न-भिन्न रूप मे निविष्ट हो गया है और जैसे मणिमे भिन्न-भिन्न तरहके प्रतिबिम्ब होते है उसी तरह भिन्न-भिन्न तरहकी चेष्टाये किया करती है ॥ २८ ॥ मति-आर्यपुत्र, जैसी माँ थी, बेटा भी ठीक वैसा ही निकला। राजा-अहङ्कार चित्तका बडा लडका है, उससे मिलने पर आत्मा ईश्वर कहलाने लगा ।
प्रथमोऽङ्कः ३७ जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं पुत्रा मित्रमरातयो वसु बलं विद्याः सुहृद्बान्धवाः । चित्तस्पन्दितकल्पनामनुभवन्विद्वानविद्यामयीं निद्रामेत्य विघूर्णितो बहुविधान् स्वप्नानिमान्पश्यति ॥२९॥ मतिः—आर्यपुत्र, एवं दीर्घतरनिद्राविद्रावितप्रबोधे परमेश्वरे कथं प्रबोधोत्पत्तिर्भविष्यति । ( अज्जउत्त, एवं दीहतरणिद्दाविद्वाविअप्पओहे पलमेस्सले कहं प्पवोहोप्पत्ती भविस्सदि ) जातोऽहमिति० विद्वान् सर्वविषयकनित्यज्ञानवान् (अपि) अविद्यामयीम् मायारूपाम् निद्राम् (बोधवैधुर्यप्रदत्वेनाज्ञानावस्थाया निद्रासादृश्यकृतस्तत्त्वव्यव- हारः ) एत्य प्राप्य विघूर्णितः भ्राम्यन् चित्तस्पन्दितेन मनसो दृष्टानुभूतश्रुतपूर्वेषु विषयेषु सञ्चारणेन या कल्पनाऽनुपस्थितविषयकस्वाप्नपदार्थगोचरः प्रत्ययप्रवाहः ताम् अनुभवन् कुर्वन् (पुरुषः) अहं जातः उत्पन्नः, मम एषः अमुकः जनकः उत्पादयिता, इयं मम जननी, इदं मम क्षेत्रम् कृप्याभूमिः, इदं मम कलत्रम् स्त्री, इदम् मम कुलम् वंशः, इमे मम पुत्राः सुताः, इदं मम मित्रं सुहृत् , इमे मम अरातयः शत्रवः, इदं मम वसु धनम् , इदं मम बलम् सामर्थ्यम्, इमाः मम विद्याः शास्त्रज्ञानानि, अयम् मम सुहृत् प्रियः, इमे मम बान्धवाः भ्रात्रादयः, इमान् धृतदाकारान् बहुविधान् नानाप्रकारान् स्वप्नान् स्वप्नावस्थायाम् उत्पद्यमानान् इवालीकविषयकान् भ्रमान् उद्भावयतीत्यर्थः । अन्योऽपि निद्राचुम्बितनेत्रो भ्राम्य- न्मना नानाविधान्स्वप्नान् पश्यति, तद्वदयमपि पुरुषोऽविद्यामयीं निद्रामुपैत्य मानसिककल्पनामयान् इमान् स्वप्नान् आलोकमानस्तैस्तैर्भावैर्बद्ध इव व्यवहर- न्स्वरूपं विस्मारितो लौकिको भवतीति भावः । जातोऽहमित्यादयो हङ्कारविक्षेपाः पुंसि बुद्धितत्त्वसम्बन्धनिबन्धन एवेति पुरुषस्य तदुपरागात्परत एव ते ते स्वप्ना इति बोध्यम् । शार्दूलविक्रीडित वृत्तं, तल्लक्षणं यथा—'सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्' इति ॥ २९ ॥ दीर्घतरनिद्रा-चिरकालिकः स्वापः, तेन विद्रावितप्रबोधे दूरीकृतस्वाभाविकज्ञाने । मै पैदा हुआ, ये मेरे मा बाप हैं, ये है खेत, स्त्री, कुल, पुत्र, मित्र, धन तथा विद्याविभव । इस तरह मनःकल्पित नाना प्रकारके अविद्यामय अनुभवोंको करता हुआ अविद्यामें मग्न वह नाना प्रकारके स्वप्नोंको देखा करता है ॥ २९ ॥ मति—इस प्रकारकी,। निद्रासे जब प्रबोध दूर भगा दिया गया है तब प्रबोधोदय कैसे हो पावेगा ?
राजा—( सलज्जमधोमुखस्तिष्ठति ) मतिः—आर्यपुत्र, किमिति गुरुतरलज्जाभरनमितशेखरस्तूष्णीं भूतोऽसि, न प्रतिभणसि । ( अज्जउत्त, किंति गुरुअरलज्जाभरणमिदसेहरो तूण्हींभूदोऽसि, न प्पदिभणसि ) राजा—प्रिये, सेर्ष्यं प्रायेण योषितां भवति हृदयम् । तेन सापराध- मिवात्मानं शङ्के । मतिः—आर्यपुत्र, अन्यास्ताः स्त्रियो याः स्वरसप्रवृत्तस्य वा धर्मार्थ- व्यापारप्रस्थितस्य वा भर्तुर्हृदयस्थितं विघ्नन्ति । ( अज्जउत्त, अण्णा ता कथम्-केन प्रकारेण । प्रबोधोत्पत्तिः-ज्ञानोदयः । यो हि पुरुषो जाग्रत्स्वप्नसुषुप्ती- स्तित्स्रोऽपि दशाः स्वापरूपेणैवोपयुञ्जानः सततं स्वप्नानिवानीकविषयानत्यन्ता- सम्बद्धांश्च भावान्स्वस्मिन्पश्यति ततो ज्ञानं सुदूरापेतं कथं सन्निधास्यति तस्येति चिन्तातात्पर्यम् । अत्र जाग्रदवस्थायां पश्यति स्वप्नानित्याश्चर्योक्तेः परिभावनाव्यं मुखसन्धेर्नव- ममङ्गमुक्तम्—तल्लक्षणं यथा-‘परिभावनमित्याहुराश्चर्यार्थनिवेदनम्’ इति । गुरुतरलज्जाभरनमितशेखरः—अतिशयत्रपानम्रीकृतमस्तकः । तूष्णींभूतः-मूकी- भूतः । प्रतिभणसि-प्रत्युत्तरं ददासि । अत्र विवेको राजा स्वस्योपनिषद्रूपवनितान्तर- सङ्गप्रसङ्गेन लज्जानतमुखो भवतीति बोध्यम् । सेर्ष्यम्-ईर्ष्याख्यभावयुक्तम् । योषि- ताम्-रमणीनाम् । सापराधम्-कृतापराधम् । अयमाशयः-त्वयि धृतासङ्गं मामुप- निपद्देवी कान्तान्तरप्रसक्तं मन्यमानेर्ष्याकलुषितचित्ता भविष्यतीति हेतोरहं तस्याः समीपे स्वं सापराधमिवोन्प्रेक्षे इति । अन्याः-मद्भिनाः । स्वरसप्रवृत्तस्य-स्वेच्छयागन्तुकामस्य । धर्मार्थव्यापारप्रवृ- राजा—( लज्जासे अधोमुख हो जाता है ) मति—आर्यपुत्र, गुरुतर लज्जासे नतमस्तक होकर गुम क्यों हो रहे है ? उत्तर क्यों नहीं देते ? राजा—प्रिये, स्त्रियोंके हृदय ईर्ष्यालु हुआ करते है, इसीलिये मै कृतापराध अपनेको पा रहा हूँ । मति—आर्यपुत्र, वे और स्त्रियां होंगी जो स्वेच्छावश या धर्मार्थ व्यापारमें प्रवृत्त
प्रथमोऽङ्कः ३६ इत्थियाओ जांओ सरसंपउत्तस्स वा धम्मात्थवावारप्पत्तिअस्स भत्तुणो हिअअत्थिदं विहणन्दि ) राजा—प्रिये, मानिन्याश्चिरविप्रयोगजनितासूयाकुलाया भवे- च्छान्त्यादेरनुकूलनादुपनिषद्देव्या मया संगमः । तूष्णीं चेद्विषयानपास्य भवती तिष्ठेन्मुहूर्तं ततो जाग्रत्स्वप्नसुषुप्तिधामचिरहात्प्रातः प्रबोधोदयः ॥ ३० ॥ तस्य-धार्मिककृत्यरूपेण समासक्तस्य । भर्तुः-स्वामिनः । हृदयस्थितम्-मनोगतम् । विघ्नन्ति-प्रतिबध्नन्ति । अतो मम हृदये त्वामुपनिषद्वसक्तं दृष्ट्वा नेष्योर्दिष्यति, तवेयं प्रवृत्तिः परोपकारार्थेति कृत्वापि मम नेर्ष्यासम्भवः, स्वरसतोऽपि तव तथा प्रवृत्तौ मादृश्योऽङ्गना नेष्यन्तीति प्रकरणार्थः । मानिन्या इति० चिरविप्रयोगजनितासूयाकुलायाः दीर्घकालव्यापकविरहसमुत्पा- दितेर्ष्यापूर्णायाः उपनिषद्व्याः शान्त्यादेस्तत्सख्याः कर्त्र्याः अनुकूलनात् सान्त्वनात् यदि मया विवेकेन सह सङ्गमः सहवासः स्यात् । उपनिषन्नामदेवी मम चिरं विरहेण मयि धृतेर्ष्याभावानां तत्सख्यः शान्त्यादयो यदि स्थितिबोधनेन शान्तां विधाय मया सह सङ्गमयेयुरित्यर्थः । भवती मतिः च चेत् यदि विषयान् सांसा- रिकभोगान् अपास्य विहाय मुहूर्तं क्षणं तूष्णीं निर्व्यापारम् तिष्ठेत् ततः तदा जाग्र- त्स्वप्नसुषुप्तिधामविरहात् जाग्रदाद्यभिमानस्थानाभावात् प्रबोधोदयः ज्ञानप्रकाशः प्रातः । अयमर्थः—शान्तेः सहायतयाऽनुकूलभावं गमिता विस्मृतेर्ष्यापनिषद्यदि मया सह सङ्गच्छेत, भवती मतिश्च कियन्तमपि कालं निर्व्यापारीभूय तिष्ठेत्तदा जाग्रदाद्य- भिमानस्थानाभावेन प्रबोधो जन्म लभेतेवेति । ज्ञानोदयेऽपेक्षिता सामग्री श्रवण- मननादय एव, तत्र विवेकस्योपनिषत्सङ्गः श्रवणरूपः मत्याश्च विषयान्तरवैमुख्यं मनननिदिध्यासनभावं भजते इति, शान्त्यादेरनुकूलनादिति च पात्रतायै अपेक्षितं अपने पतिके प्रयासमें रोडे अटकाती है । राजा—प्रिये, मानिनी, चिरवियोगजनित ईर्ष्या से व्याकुल उपनिषद् देवीको यदि शान्ति आदि मनाये तो वह मुझसे मिल सकती है और आप अगर कुछ समय के लिये तूष्णींभावका अवलम्बन करलें, तब जाग्रत् स्वप्न सुषुप्ति आदि के अभाव होनेसे प्रबोधका उदय हो सकता है ॥ ३० ॥
४० प्रबोधचन्द्रोदयम् मतिः—आर्यपुत्र, यद्येवं कुलप्रभोर्दृढग्रन्थिनिबद्धस्यापि बन्धमोक्षो भवति तदा तया नित्यानुबन्ध एवार्यपुत्रो भवत्विति सुष्ठु मे प्रियम् । (अज्जउत्त, जदि एवं कुलप्पहुणो दिडगंथिनिबद्धस्स वि बन्ध मोक्खो भोदि तदो ताए णिच्चानुबन्धो जेव्व अज्जउत्तो भोदु त्ति सुट्ठु मे पिअम् ) राजा—प्रिये, यद्येवं प्रसन्नासि सिद्धास्तर्ह्यस्माकं मनोरथाः । तथा हि— बद्ध्वैको बहुधा विभज्य जगतामादिः प्रभुः शाश्वतः क्षित्वा यैः पुरुषः पुरेषु परमो मृत्योः पदं प्रापितः । शान्तिदान्त्युपरतितितिक्षादिकं स्मारयति, तदित्थं बोधोदयोऽवश्यं भावीति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् ॥ ३० ॥ अत्रोद्भेदो नाम मुखसन्धेर्दशममङ्गमनुक्तं, गूढार्थभेदसूचनात् , तथा च तल्लक्षणम्— 'उद्भेदः स परिक्षेयो यत्र गूढार्थसूचनम्' इति । कुलप्रभोः—आत्मरूपस्य वंशस्वामिनः । दृढग्रन्थिनिबद्धस्य-अहङ्काररूपेण ग्रन्थिना दुरायासेन बन्धनेन बद्धस्य । बन्धमोक्षः-अहङ्कारनिवृत्तिः । तया-उपनिषदा नित्यानुबन्धः-सततसंसक्तः । यदि, भवत्युपनिषदासक्ते आत्मनो बन्धनिवृत्तिः प्रबोधोदयद्वारा जायते । तदाऽहं भवतस्तस्यां सार्वदिकीमासक्तिमपि सोढुं क्षमेति तया मत्या स्वस्य परोपकारार्थं तत्परतारूपा शक्तिरावेदिता । एवं प्रसन्ना—स्त्रीजनेषु दुर्लभमीदृशं त्यागं पत्युः पराङ्गनाऽऽसक्तिसहनरूपं कत्तुं तत्परा । मनोरथाः—प्रबोधोदयद्वारात्मामहङ्कारनिवृत्तिप्रमुखा आन्तरिकभावाः । सिद्धाः—सञ्जातकल्पाः । बद्ध्वैक इति० यैः अहङ्कारादिभिः जगतामादिः संसारप्रथमः प्रभुः समर्थः शाश्वतः अविनाशी पुरुषः आत्मरूपः बद्ध्वा अहङ्कारोत्थापितेऽहम्भावबन्धने आसज्य पुरेषु शरीरेषु बहुधाऽनेकधा विभज्य नानारूपतामापाद्य क्षिप्त्वा प्रवेश्य मति—आर्यपुत्र, यदि इस प्रकार दृढ बन्धन में निबद्ध कुलप्रभुका बन्धमोक्ष हो तो आप अपने व्यापारमें संलग्न रहे । राजा—प्रिये,यदि आप इस प्रकार प्रसन्न हों तो हमारे मनोरथ पूर्ण ही है। क्योंकि— बद्ध होकर अनेकता प्राप्त करके जगत् के प्रभु शरीररूप नगरमें डाल दिये जाते हैं और मृत्युको प्राप्त होते हैं, उनहो ब्रह्मभिन्न सिद्ध करके विद्याके द्वारा प्रायश्चित्त करके
प्रथमोऽङ्कः ४१ तेषां ब्रह्मभिदां विधाय विधिवत्प्राणान्तिकं विद्यया प्रायश्चित्तमिदं मया पुनरसौ ब्रह्मैकतां नीयते ॥ ३१ ॥ तद्भवतु । प्रस्तुतविधानाय शमादीन् योजयामः । ( इति निष्क्रान्तौ मतिविवेकौ ) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये प्रथमोऽङ्कः ॥ १ ॥ मृत्योः पदं जननमरणस्थानं संसारं प्रापितः मया विवेकेन तेषां पूर्वोक्तगुणकानाम् ब्रह्मभिदाम् ब्रह्मप्रतियोगिकभेदकरणास् विद्यया आत्मज्ञानेन विधिवत् शास्त्रोक्त- प्रकारेण इदं प्राणान्तिकं प्रायश्चित्तं विधाय असौ आत्मा पुनः भूयः ब्रह्मैकताम् ब्रह्माभेदम् । नीयते प्राप्यते । येऽहङ्कारादयो ब्रह्मरूपतया जगदादेः शाश्वतस्य प्रभो- श्चात्मनोऽहङ्कारावेशनेन देहाद्यात्मकतां समायोज्य देहसम्बन्धद्वारकं जननमरण- सम्बन्धं व्यधुस्तेषां पाप्मनामहङ्कारादीनां प्राणान्तिकं प्रायश्चित्तं शास्त्रप्रक्रियया विधाप्य विद्याप्रकाशद्वारा विवेकोऽहं तमात्मानं पुनर्ब्रह्मात्मतां प्रापयामीति भावः पूर्वोक्तमेव वृत्तम् ॥ ३१ ॥ अत्र भेदो नाम मुखसन्धैरेकादशमङ्गमुक्तं, तलक्षणं यथा—‘भेदः प्रोत्साहकरणम्’ । प्रस्तुतविधानाय—प्रक्रान्तस्यात्मवन्धनिवृत्तिरूपस्य कार्यस्य विधानाय सम्पादनाथ । शमादीन्-शमदमप्रभृतीन् । इति मैथिलपण्डित-श्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' प्रथमाङ्क—'प्रकाशः' । फिर उसे ब्रह्मात्मत्व प्राप्त कराया जाता है ॥ ३१ ॥ इसलिये प्रस्तुत कार्य सिद्ध करनेके लिये शमादिको व्यापारित करता हूँ । ( मति तथा विवेकका प्रस्थान ) प्रथम अङ्क
द्वितीयोऽङ्कः ( ततः प्रविशति दम्भः ) दम्भः—आदिष्टोऽस्मि महाराजमहामोहेन । यथा—वत्स दम्भ, प्रति- ज्ञातं सामात्येन विवेकेन प्रबोधोदयाय । प्रेषिताश्च तेषु तेषु तीर्थेषु शम- दमादयः । स चायमस्माकमुपस्थितः कुलक्षयो भवद्भिरवहितैः प्रति- कर्तव्यः । तत्र पृथिव्यां परमं मुक्तिक्षेत्रं वाराणसीनाम नगरी । तद्द्वांस्तत्र गत्वा चतुर्णामप्याश्रमाणां निःश्रेयसविघ्नार्थं प्रयततामिति । तदिदानीं वशीकृतभूयिष्ठा मया वाराणसी । संपादितश्च स्वामिनो यथानिर्दिष्ट आदिष्टः—आज्ञप्तः । महाराजमहामोहेन–इह मोहस्य सर्वत्रानुल्लङ्घनीयशासन- त्वेन महाराजत्वारोपः । आज्ञास्वरूपमभिधत्ते—यथेति० सामात्येन–मन्त्रिसहितेन । ननु न केवलया प्रतिज्ञया किमपि सिद्ध्यति, तत्राह–प्रेषिताश्चेति० एवञ्च प्रतिज्ञा- पूरणौपयिकप्रयत्नस्यापि प्रारम्भेनोपेक्षा कर्तुमुचितेति व्यञ्जितम् । स च–प्रबोधोदय- निमित्तकश्च । उपस्थितः–समीपागतः, प्राप्तावसर इति यावत् । कुलक्षयः–वंशनाशः, प्रबोधोदये मायानिवृत्त्या मायिकवंशनाशः स्वाभाविक एवेति दृष्ट्येत्थमुक्तम् । भवद्भिः–दम्भादिभिः । अवहितैः–सावधानैः । प्रतिकर्तव्यः–निरोद्धव्यः । परमं मुक्ति- क्षेत्रम्—उत्कृष्टं मोक्षस्थलम् , तत्र तारकोपदेशेन मोक्षस्यानायासलभ्यतयोत्कृष्टता । वाराणसी काशी, वाराणस्या निर्वचने श्रुतिर्यथा—अथ हैनमत्रिः प्रपच्छ याज्ञव- ल्क्यम्—य एषोऽनन्तोऽव्यक्त आत्मा तं कथहं विजानीयामिति ? स होवाच याज्ञ- वल्क्यः–सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन् प्रतिष्ठितः, वरणायामस्यां च मध्ये प्रतिष्ठित इति । का वरणा ? काऽसीति ? सर्वानिन्द्रियकृतान्दोषानस्यत इत्यनेनासी भवति' । तत्र- काश्याम् । चतुर्णामप्याश्रमाणाम्–ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थ-संन्यासनामकानाम् । निःश्रेयसविघ्नार्थम्–मोक्षप्रतिबन्धार्थम् । प्रयतताम्–यत्नं करोतु । ( एतावदन्तमा- ( दम्भका प्रवेश ) दम्भ—महाराज मोहका आदेश है—'वत्स, दम्भ, सामात्य विवेकने प्रबोधोदयकी प्रतिज्ञा की है, तीर्थोंमें शम आदिको भेज दिया गया है, इस प्रकार हमारे कुलका क्षय उपस्थित है, तुम लोग सावधानीसे उसका प्रतिकार करो।' पृथ्वी पर सर्वोत्कृष्ट मुक्तिक्षेत्र वाराणसी है । इसलिये तुम वहाँ जाकर चारो आश्रमोंमें निःश्रेयसको विघ्नित करनेकी कोशिश करो । तदनुसार हमने अधिकांश भावमें वाराणसी पर अधिकार कर लिया है ।
द्वितीयोऽङ्कः ४३ आदेशः । तथा हि मदधिष्ठितैरिदानीम्— वेश्यावेश्मसु सीधुगन्धिललनावक्रासवामोदितै- र्नीत्वा निर्भरमन्मथोत्सवरसैरुन्निद्रचन्द्राः क्षपाः । सर्वज्ञा इति दीक्षिता इति चिरात्प्राप्ताग्निहोत्रा इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तैर्जगद्वञ्च्यते ॥ १ ॥ ( विलोक्य ) कोऽप्ययं पान्थो भागीरथीमुत्तीर्य सांप्रतमित एवाभि- देशस्यावर्त्तनम् ) तत्-आदेशस्य पालनीयत्वात् । वशीकृतभूयिष्ठा-अधिकांशेना- धीनतां गमिता । सम्पादितः-पूर्णः कृतः। स्वामिनः-महामोहाख्यस्य प्रभोः । मदधि- ष्ठितैः-मया नियम्यमानैः मया स्वाधिकारे रक्ष्यमाणैरित्यर्थः, इदं धूर्त्तैरित्यग्रे वक्ष्य- माणस्य विशेषणम् । यतो धूर्त्तः सर्वतः स्वजालं विस्तार्य स्थितमतो मया स्वामि- कार्यं कृतकल्पम्, मम दम्भस्यानुचराणामनुच्छेद्यजालेभ्यो बहिर्गमनस्याशक्य- क्रियत्वादिति भावः । वेश्यावेश्मस्विति० वेश्यावेश्मसु वाराङ्गनागृहेषु सीधु मद्यं तस्य गन्धो यत्र तादृशानां ललनावक्त्राणाम् आसवा मद्यानि तैरामोदितैः लब्धप्रसादैः सुरागन्धवद्- रमणीमुखार्पितमदिरापानमत्तैः धूर्त्तैः वञ्चकर्ममानुजीविभिः निर्भरमन्मथोत्सवरसैः सततप्रवृत्तरतिक्रीडाऽऽनन्दैः उन्निद्रचन्द्राः प्रकाशयुक्तशशाङ्कोद्भासिताः क्षपाः रात्रीः नीत्वा क्षपयित्वा दिवा दिने सर्वज्ञाः सर्वशास्त्रज्ञा इति दीक्षिता यज्ञप्रवृत्ता इति चिरात् बहोः कालात् प्राप्ताग्निहोत्राः अग्निहोत्रिणः इति ब्रह्मज्ञाः आत्मज्ञानवन्त इति तापसाः तपश्चर्य्यारता इति च प्रकारैरैरेभिः जगत् संसारः वञ्च्यते प्रतार्यते । ममानु- जीविनो वञ्चकाः निशासु वेश्या सद्मनि गत्वा तन्मुखार्पितमद्यं च पीत्वा सुरत- क्रीडाप्रसक्ता भूत्वा दिने वञ्चनाचातुर्येण स्वस्य सर्वज्ञतां दीक्षितभावं गृहीताग्निहोत्र- व्रतत्वं ब्रह्मज्ञभूयम् विधीयमानतपस्यत्वं च प्रचार्र्य विश्वं वञ्चयन्तीत्यर्थः । वञ्चन- पटुत्वेनात्मनः खरूपं गोपयित्वा तैस्तैः प्रकारैरात्मानं ख्यापयन्तीति भावः । शार्दूल- विक्रीडितं वृत्तम् ॥ १ ॥ पान्थः-पथिकः, यात्रीत्यर्थः । भागीरथीम्-गङ्गाम् । उत्तीर्य-नावा तीर्त्वा । स्वामीका आदेश हमने पूरा कर दिया है । क्योंकि हमारे आदमी अब वेश्याओके घरोमे मद्यगन्धयुक्त स्त्रीजनके मुखासवसे मस्त होकर सानन्द कामक्रीडासे चांदनी राते बिताकर दिनमे अपनेको सर्वज्ञ, दीक्षित, अग्नि- होत्री, ब्रह्मज्ञ तथा तपस्वी घोषित करके दुनियाँको ठग रहे है ॥ १ ॥ ( देखकर ) यह कोई पान्थ भागीरथी पार कर इस समय इधर ही आरहा है,
४४ प्रबोधचन्द्रोदयम् वर्तते । तथा च यथैषः— ज्वलन्निवाभिमानेन ग्रसन्निव जगत्त्रयीम् । भर्त्सयन्निव वाग्जालैः प्रज्ञयोपहसन्निव ॥ २ ॥ तथा तर्कयामि । नूनमयं दक्षिणराढाप्रदेशादागतो भविष्यति । तदे- तस्मादार्यस्याहंकारस्य वृत्तान्तमनुस्मरिष्यामि । (इति परिक्रामति) (ततः प्रविशत्यहंकारो यथानिर्दिष्टः) अहंकारः—अहो, मूर्खबहुलं जगत् । तथाहि— नैवाश्रावि गुरोर्मतं न विदितं कौमारिलं दर्शनं तत्त्वं ज्ञातमहो न शालिकगिरां, वाचस्पतेः का कथा । साम्प्रतम्-अधुना, इत एवाभिवर्त्तते-अस्मदध्युषितप्रदेशमेवागच्छति । ज्वलन्निवेति० अभिमानेन स्वगौरवभावनया ज्वलन् दीप्यमानः इव जगत्त्रयीम् लोकत्रितयम् ग्रसन् कवलीकुर्वन् इव वाग्जालैः शब्दाडम्बरैः भर्त्सयन् निन्दन् इव प्रज्ञया बुद्ध्या उपहसन् उपहासं कुर्वन् इव दृश्यत इति शेषः ॥ २ ॥ 'तथा तर्कयामि' इत्यतः पूर्वम् 'यथैष ज्वलन्निवाभिमानेनेत्यारभ्य प्रज्ञयोपह- सन्निवेत्यन्तं वाक्यं योज्यं ततश्च यथैष प्रोक्तगुणकस्तथा तर्कयामीत्यन्वयार्थः, तर्क- प्रकारं चाग्रे वक्ष्यति—नूनमिति० । नूनम्-निश्चयेन । दक्षिणराढाप्रदेशात्-वाराणस्या परभागेऽवस्थिताद्गौडराष्ट्रात् । गौडराष्ट्रमहङ्कारवसतिरिति प्रसिद्धिमनुरुध्येत्थ- मुक्तम् । एतस्मात्-आगच्छतः पथिकात् । वृत्तान्तम्-समाचारम् । अनुस्मरिष्यामि- ज्ञास्यामि, यथानिर्दिष्टः-अभिमानेन ज्वलन्, जगत्त्रयीं ग्रसन्, वाग्जालं प्रसारयन् स्वां प्रज्ञां च प्रशंसन्नित्यर्थः । मूर्खबहुलम्—प्रायेणाज्ञानम्, पशुतुल्यमित्यर्थः । नैवाश्रावीति० गुरोः मीमांसकैकदेशिनः प्रभाकरस्य मतम् सिद्धान्तः नैव अश्रावि जिस प्रकार यह— अभिमानसे दमक रहा है, सारे त्रिलोकको ग्रस्तकर रहा है, अपने वाग्जालसे ललकार रहा है, बुद्धि से संसारको हस रहा है ॥ २ ॥ उससे पता चलता है कि निश्चय ही—यह दक्षिण राढ़ा प्रदेशसे आ रहा है । इसलिये इससे आर्य अहङ्कारकी खबर जान लूंगा । (जाता है) (यथोक्तरूपमे अहङ्कारका प्रवेश) अहङ्कार--अहो, संसारमें अधिक मूर्ख ही है, क्योंकि— न गुरुमत सुना, न कुमारिलदर्शन देखा, न शालिकमिश्रकी बातोंका तत्त्व जाना,
सूक्तं नापि महोदधेरधिगतं माहाव्रती नेक्षिता सूक्ष्मा वस्तुविचारणा नृपशुभिः स्वस्थैः कथं स्थीयते ॥ ३ ॥ ( विलोक्य ) एते तावदर्थावधारणविधुराः स्वाध्यायाध्ययनमात्र- श्रुतम् , कुमारिलस्य भट्टमुख्यस्य मीमांसकस्य दर्शनम् शास्त्रम् न विदितम् नाधि- गतम् , अहो आश्चर्यम् शालिकगिराम् प्रभाकरमतानुवर्त्तिनः प्रकरणपञ्चिकाकर्तुः शालिकमिश्रस्य वाचाम् तत्त्वं रहस्यम् न ज्ञातम् नाधिगतम् , वाचस्पतेर्न्यायभाष्य- शारीरकभाष्यादिव्याख्यातुर्वाचस्पतिमिश्रस्य का कथा का चर्चा ? महोदधेर्भाष्य- सागरस्य सूक्तम् सरलम् वचनम् अपि न अधिगतम् ज्ञातम् , ( दुरुक्तानि फक्किका- भूतानि तु दूरे सन्तु ) माहाव्रती महाव्रतम् पशुपतिमतं तदीया सूक्ष्मा परिपक्व- बुद्धिविभवमात्रवेद्या वस्तुविचारणा पदार्थप्रक्रिया न ईक्षिता न दृष्टा, (तत्) नृप- शुभिः नरैरपि पशुकल्पैर्ज्ञानशून्यैः कथं केन प्रकारेण स्वस्थैः पण्डितवद्धीरभावमव- लम्ब्य स्थिरैः स्थीयते भूयते ? नरपशव इमे गुरोर्मतं न श्रुतवन्तोऽपि, विशेषजिज्ञासा तु दूरे तिष्ठतु, कुमारिलप्रचारितं भट्टमतं न ज्ञातवन्तः, शालिकमिश्रमतस्य तत्त्वं न ज्ञातुमक्षमन्त, वाचस्पतिमत्तज्ञानस्य कथाऽपि दूरापास्ता, पाशुपतमतसम्बद्धां सूक्ष्मां वस्तुविचारणामपि नास्पृशन्नथ व्याकरणमहाभाष्यस्य सरलमध्यर्थं नावाधार- यन्नथाप्येते पण्डिता इव स्वस्थभावमवलम्ब्य तिष्ठन्तीति महदद्भुतस्थानमित्यर्थः । प्रभाकरमतस्य पृथक् प्रोक्तावपि पुनः शालिकनामग्रहणमीषद्वान्तरभेदमन्तराधाय- कृतम् , महोदधिपदं महाभाष्यपरं तद्विपये-'भाष्याब्धिः क्वातिगम्भीरः' इति कैय- टेनोद्घोषितत्वात् , महाव्रतपदं पाशुपतसतपरं तत्र महाव्रतस्य निरूपितत्वात् , इत्थं किञ्चिदप्यविज्ञाय स्वस्थतयावस्थानं पशुत्वद्योतकमिति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् , तलक्षणमन्यत्रोक्तम् ॥ ३ ॥ विलोक्य दृष्ट्वा, वैदिकान् दृष्ट्वाऽयमुपहासः प्रवृत्तो बोध्यः। एते शुद्धवैदिकाः। स्वा- ध्यायाध्ययनमात्रनिरताः-पदपारायणमात्रपरायणाः। अर्थावधारणविधुराः-वेदार्थनि- श्चयरहिताः, किमेभिर्मन्त्रैरभिप्रेयत इत्यविदन्तः पदपाठमात्रप्रवृत्ताः इत्यर्थः। वेद- विप्लावकाः-वेदविनाशकारिणः, स्वाध्यायाध्ययनस्यार्थावधारणप्रयोजनकत्वेनार्था- वाचस्पतिकी बात ही क्या ? महोदधिरूप भाष्यका अवलोकन नही किया, पाशुपत दर्शनकी बारीक विचारधाराका ज्ञान नहीं प्राप्त किया, फिर भी ये नृपशु शान्तिपूर्वक कैसे बैठे हुए है ॥ ३ ॥ ( देखकर ) ये लोग अर्थावधारण कर नही सकते है, केवल वेदपरायण करते हैं अतः वेदके दुश्मन
४६ प्रबोधचन्द्रोदयम् निरता वेदविप्लावका एव । ( पुनरन्यतो गत्वा ) एते च भिक्षामात्रगृहीत- यतिव्रता मुण्डितमुण्डाः पण्डितंमन्या वेदान्तशास्त्रं व्याकुलयन्ति । (विहस्य) प्रत्यक्षादिप्रमासिद्धविरुद्धार्थावबोधिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥ ४॥ वधारणविमुखजनकृतं वेदाध्ययनमनर्थज्ञकृतपाठस्य सम्प्रदायदूषकत्वेन नितान्ता- नर्थावहं वेदविनाशकारणञ्च जायत इत्याशयः । अन्यतः=अन्यभागे, अत्र भागे संन्यासिनां दर्शनमतस्तानाक्षिपति-एते चेति० भिक्षामात्रगृहीतयतिव्रताः=भिक्षां केवलमासादयितुं स्वीकृतसंन्यासवेशाः, न तु वास्तविकविरागवशाद्गृहीतप्रव्रज्याः । मुण्डितमुण्डाः=मुण्डितशिरसः । पण्डितं- मन्याः=आत्मानं पण्डितं मन्यमानाः । वेदान्तशास्त्रम्=आत्मविचारविद्याम् । व्या- कुलयन्ति=कदर्धयन्ति, दूषयन्तीत्यर्थः, अनधिकारिकृतचर्चाय निरतिशयसिद्धान्त- मर्मव्यथकतया मूर्खवेदान्तविडम्बकसंन्यासिजनानां वेदान्तशास्त्रव्याकुलताकरत्वं बोध्यम् । अग्रिमश्लोकोऽपि वेदान्तनिन्दामुखेनामीषां वेदान्तिनामेव निन्दामभि- प्रेतीति रहस्यम् । प्रत्यक्षादीति० प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम्, तत् आदिः प्रथमः सर्वोपजीव्यतया मुख्यभूतश्च येषाम् ते प्रत्यक्षादयः, आदिपदेनानुमानोपमानशब्दा- नुपलब्ध्यर्थापत्तीनां ग्राहकम्, तदुद्भवाः प्रमाः अनधिगताबाधितार्थज्ञानानि, तैः सिद्धान् प्रमितान् विरुद्धाः भिन्ना येऽर्थाः तेषाम् अवबोधिनः ज्ञापकाः । प्रत्यक्षप्रम- याऽनुमानादिप्रमया च सिद्धेभ्योऽर्थेभ्यो विरुद्धं पदार्थमभ्युपगच्छन्त इत्याशयः । ( तादृशाः ) वेदान्ताः उपनिषदः यदि शास्त्राणि लोकशिक्षायै गृहीताविद्याः ( भवे- युस्तदा तादृशार्थप्रतिपादकत्वाविशेषात् ) बौद्धैः बुद्धमतोपजीविभिः सौत्रान्तिकयोगा- चारमाध्यमिकवैभाषिकाख्यया प्रख्यातैः । किम् अपराध्यते विप्रतीपमाचर्यते ? यद्- मीषां शास्त्रत्वं द्विष्यतेऽथ दूष्यते चेति । वेदान्ताः प्रपञ्चमिथ्यात्वमातिष्ठमानाः प्रत्य- क्षादिसिद्धं प्रपञ्चमपलयन्तीति ते प्रत्यक्षादिसिद्धविरुद्धप्रपञ्चासत्यत्वबोधकाः, अथापि ही हैं । ( फिर दूसरी ओर जाकर ) ये केवल भीखके लिये सन्यासका वेश लिये हुए है, मस्तक घुटवाये हैं, अपनेको पण्डित मानते है, इनके द्वारा वेदान्तशास्त्र व्याकुल किया जाता है । ( हसकर ) प्रत्यक्षादि प्रमाणसे सिद्ध जो अर्थ है उनके विरुद्ध विषयोंको बताने वाले वेदान्त यदि शास्त्र है तो फिर बौद्धोंने कौन सा अपराध किया है ? ॥ ४ ॥