प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 38, कुल 274 में से
संदर्भ में पढ़ें२० प्रबोधचन्द्रोदयम् विशेषतश्चैते मदमात्सर्यदम्भोलोभादिभिरस्मत्स्वामिवल्लभैरभियुज्य- माना नरपतिमन्त्रिणोऽधर्ममेवाश्रयिष्यन्ते । रतिः—आर्यपुत्र, श्रुतं मया युष्माकं विवेकशमदमप्रभृतीनां चैकमुत्प- त्तिस्थानमिति । (अज्जउत्त, सुदं मए तुम्हाणं विवेश्रसमदमप्पहुदीणं च एक्कं उप्पत्तिट्ठाणं ति ) कामः—आः प्रिये, किमुच्यत एकमुत्पत्तिस्थानमिति । ननु जनक एवास्माकमभिन्नः । तथाहि— संभूतः प्रथममहेश्वरस्य सङ्गान्मायायां मन इति विश्रुतस्तनूजः । त्रैलोक्यं सकलमिदं विसृज्य भूयस्तेनाथो जनितमिदं कुलद्वयं नः ॥१७॥ विशेषतः प्रधानभावेन । एते यमादयः मदः गर्वः, मात्सर्यम् परगुणासहिष्णुत्वम्, दम्भः असद्गुणाभिमानः, लोभः परद्रव्यस्पृहा । आदिपदमत्र प्रमादालस्यादि- संग्राहकम् । अस्मत्स्वामिवल्लभैः—अस्मत्स्वामिनः मोहस्य वल्लभैः प्रियतमैः । अभि- युज्यमानाः आक्रम्यमाणाः प्रतिद्वन्द्विभावेनाहूयमाना इत्यर्थः । नरपतिमन्त्रिणः विवेक सचिवाः यमादय इत्यर्थः । अधर्मम् मोहपक्षम् । आश्रयिष्यन्ते भजिष्यन्ति । युष्माकम्-कामादीनाम् विवेकादीनां भवतां चोत्पत्तिस्थानं गोत्रं कुलमेक- मेवेति मया श्रुतमित्यर्थः । कामस्य विवेकस्य च मनोजन्मतया समानकुलत्वमिति मनसि कृत्वा प्रश्नोऽयम् । जनकः = पिता मनोरूपः । अभिन्नः एकः । अस्माकं विवेकादिभिः सह सगोत्रत्वं सकुलत्वं वास्तीति कि वक्तव्यमेते हि विवेकादयो वयं चैकस्यैव मनसः सुताःस्मस्तन्न समानजन्मतायां समर्थितायां सगोत्रताप्रश्नो नोदयत इत्याशयः । सम्भूत इति० प्रथमम् आदौ महेश्वरस्य ब्रह्मणः सङ्गात् सम्बन्धात् मायायाम् अनाद्यविद्यायाम् 'मनः' इति विश्रुतः प्रसिद्धः तनूजः पुत्रः सम्भूतः जातः तेन मनसा इदं प्रत्यक्षदृश्यम् सकलम् स्थावरजङ्गमात्मकम् त्रैलोक्यम् विसृज्य विशेषतः सृष्ट्वा खास करके हमारे स्वामीके भक्त मद, मात्सर्य, दाम और लोभ आदिसे सामना होने पर विवेकके मन्त्रिगण अधर्मकी ही शरण लेगे । रति—आर्यपुत्र, हमने सुना है आपका तथा विवेक आदिका कुल एक ही है । काम—हाँ प्रिये, एक ही कुल है इस सम्बन्धमे क्या कहना है? हमलोगोंके पिता ही एक है । क्योंकि— परब्रह्मका मायाके साथ संसर्ग होनेसे मन नामका एक ख्यात पराक्रम पुत्र उत्पन्न हुआ, उसीने इस त्रैलोक्यके साथ हमारे कुल तथा विवेकके वंशको जन्म दिया ॥ १७ ॥