प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 42, कुल 274 में से
संदर्भ में पढ़ें२४ प्रबोधचन्द्रोदयम् कामः—प्रिये, न भेतव्यं न भेतव्यम् । किंवदन्तीमात्रमेवैतत् । रति.—अथ तया राक्षस्या किं कर्तव्यम् । ( अध ताए रक्खसीए कादव्वम् । कामः—प्रिये, अस्ति किलैषा प्राजापत्या सरस्वती— पुंसः सङ्गसमुज्झितस्य गृहिणी मायेति तेनाप्यसा- वस्पृष्टापि मनः प्रसूय तनयं लोकानसूत क्रमात् । तस्मादेव जनिष्यते पुनरसौ विद्येति कन्या यया तातस्ते च सहोदराश्च जननी सर्वं च भक्ष्यं कुलम् ॥ १६ । किंवदन्तीमात्रम्-प्रवादमात्रम्, न तु यथार्थभावेन तदुदयो जातोऽतो भयं वृथेति भावः । तया-विद्याऽभिधानया । एषा-अग्रेऽभिधीयमाना । प्राजापत्या-ब्रह्मोक्ता । सरस्वती-वाणी । पुंस इति० सङ्गसमुज्झितस्य 'असङ्गो ह्ययं पुरुषः' इति श्रुत्युक्तदिशा सङ्गरहितस्य पुंसः पुरुषस्य गृहिणी भोगसाधनत्वेन भार्या इति प्रसिद्धा, तेन पुंसा अस्पृष्टा अनालिङ्गितापि (ईक्षणमात्रकृतार्था) असौ प्रकृतिः मनः अन्तःकरणं तनयं पुत्रं प्रसूय उत्पाद्य क्रमात् क्रमवशेन लोकान् भूर्भुवःस्वरादीन् असूत अजनयत् । पुनः अनन्तरम् असौ विद्येति प्रसिद्धा कन्या पुत्री तस्मात् मनस एव जनिष्यते उत्पत्स्यते यया विद्यया तातः स्वोत्पादकं मनः ते प्रसिद्धाः सहोदराः बान्धवाः च जननी माता माया (किं बहुना) सर्वम् निरवशेषम् । कुलम् (कुलान्तःपातित्वात् आत्माऽपि) भक्ष्यम् समाप्यम्, अस्पृष्टापि पुंसा कथं जनयतीति प्रश्नस्य-चुम्बक- पाषाणेनासम्बद्धाऽपि लोहशलाका चुम्बकं यान्तमन्वेतीति दृष्टं लोके तथैवेयम- स्पृष्टायीक्षणमात्रेण जनयतीत्युत्तरं बोध्यम् । असङ्गस्य पुरुषस्य तेनास्पृष्टा माया- नाम गृहिणी मनः पुत्रमसूत तदनन्तरं च सकलं विश्वमजनि, सम्प्रति मनसः सकाशात् विद्यां नाम कन्यां जनविष्यति यया विद्यया पितुः सहोदराणां जनन्याः काम—प्रिये, मत डरो, यह तो अफवाह ही भर है । रति—आर्यपुत्र, वह राक्षसी क्या करेगी ? काम—ऐसी प्रजापत्य सरस्वती है कि— निःसङ्ग पुरुषकी पत्नी माया है, उसने पुरुषस्पर्श के बिना ही मन नामक पुत्रको जन्म देकर इस संसारको आकाशादि क्रमसे उत्पन्न किया, उसीसे विद्या नामक कन्या जन्म ले गी जो पिता, सहोदर, माता तथा पूरे कुलको खा ले गी ॥ १९ ॥