भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 41, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 41

प्रथमोऽङ्कः २३ कामः—प्रिये, अस्त्यत्र किंचिन्निगूढं बीजम् । रतिः—आर्यपुत्र, तत्किं नोद्घाट्यते ? (अज्जउत्त, ता किं ण उग्घाडीअदि ?) कामः—प्रिये, भवती स्त्रीस्वभावाद्वीरुरिति न दारुणकर्म पापीय- सामुदाह्रियते । रतिः—( सभयम् ) आर्यपुत्र, कीदृशं तत् ? ( अज्जउत्त, केरिसं तम् ? ) कामः—प्रिये, न भेतव्यं न भेतव्यम् । हताशानामाशामात्रमेवैतत् । अस्ति किलैषा किंवदन्ती । अत्रास्माकं कुले कालरात्रिकल्पा विद्यानाम राक्षसी समुत्पत्स्यत इति । रतिः— ( सभयम् ) हा धिक् हा धिक् । कथमस्माकं कुले राक्षसीति वेपते मे हृदयम् । (हद्धी हद्धी । कहं अम्हाणं कुले रक्खसीति वेवदि मे हिअअम्) निगूढम्–प्रच्छन्नम् । बीजम्–अनर्थकारणम् । उद्घाट्यते–प्रकाशीक्रियते । स्त्रीस्वभावात्–नारीत्वात् । भीरुः–भयशीला । दारुणकर्म–भीषणचेष्टा । पापीय- साम्–अतिपापाचाराणाम् । पापाचारा हि विवेकादयो भीषणं कर्म चिकीर्षन्ति तेषां तत्कर्म तव समक्षं न प्रकाश्यते यतस्त्वं स्त्रीत्वान्भीता भविष्यसीति तात्पर्यम् । हताशानाम्–निन्द्यानामभाग्यानां वा । आशामात्रम्–केवलो मनोरथः । किंव- दन्ती–प्रवादः । कालरात्रिकल्पा–प्रलयनिशासमाना । समुत्पत्स्यते–जास्यते । वि- द्यायाः प्रलयरात्रिकल्पता सर्वमोहपक्चीयसंहारकरत्वेनोक्ता वेद्या । राक्षसी त्वं च तस्याः स्वरूपतो भयप्रदत्वेन मोहबन्धुभिरास्थीयते । वेपते–कम्पते । काम—प्रिये, इसमें कुछ रहस्य बात है । रति—आर्यपुत्र, फिर आप बताते क्यो नही ? काम—प्रिये, स्त्रीस्वभावके कारण तुम भीरु हो, अतः उन पापियोंके भयङ्कर कर्म तुम्हारे सामने नही बताया जाता है । रति—( भयसे ) आर्यपुत्र, सो क्या ? काम—प्रिये, डरो मत, डरो मत ! उन अभागों की यह आशामर है । ऐसी अफवाह है कि हमारे कुलमे कालरात्रितुल्य विद्या नामकी राक्षसी पैदा होगी । रति—( भयसे ) हा धिक् ! हा धिक् ! क्यों हमारे कुलमे राक्षसी !! इस बातसे मेरा हृदय काँप रहा है ।