प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 41, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः २३ कामः—प्रिये, अस्त्यत्र किंचिन्निगूढं बीजम् । रतिः—आर्यपुत्र, तत्किं नोद्घाट्यते ? (अज्जउत्त, ता किं ण उग्घाडीअदि ?) कामः—प्रिये, भवती स्त्रीस्वभावाद्वीरुरिति न दारुणकर्म पापीय- सामुदाह्रियते । रतिः—( सभयम् ) आर्यपुत्र, कीदृशं तत् ? ( अज्जउत्त, केरिसं तम् ? ) कामः—प्रिये, न भेतव्यं न भेतव्यम् । हताशानामाशामात्रमेवैतत् । अस्ति किलैषा किंवदन्ती । अत्रास्माकं कुले कालरात्रिकल्पा विद्यानाम राक्षसी समुत्पत्स्यत इति । रतिः— ( सभयम् ) हा धिक् हा धिक् । कथमस्माकं कुले राक्षसीति वेपते मे हृदयम् । (हद्धी हद्धी । कहं अम्हाणं कुले रक्खसीति वेवदि मे हिअअम्) निगूढम्–प्रच्छन्नम् । बीजम्–अनर्थकारणम् । उद्घाट्यते–प्रकाशीक्रियते । स्त्रीस्वभावात्–नारीत्वात् । भीरुः–भयशीला । दारुणकर्म–भीषणचेष्टा । पापीय- साम्–अतिपापाचाराणाम् । पापाचारा हि विवेकादयो भीषणं कर्म चिकीर्षन्ति तेषां तत्कर्म तव समक्षं न प्रकाश्यते यतस्त्वं स्त्रीत्वान्भीता भविष्यसीति तात्पर्यम् । हताशानाम्–निन्द्यानामभाग्यानां वा । आशामात्रम्–केवलो मनोरथः । किंव- दन्ती–प्रवादः । कालरात्रिकल्पा–प्रलयनिशासमाना । समुत्पत्स्यते–जास्यते । वि- द्यायाः प्रलयरात्रिकल्पता सर्वमोहपक्चीयसंहारकरत्वेनोक्ता वेद्या । राक्षसी त्वं च तस्याः स्वरूपतो भयप्रदत्वेन मोहबन्धुभिरास्थीयते । वेपते–कम्पते । काम—प्रिये, इसमें कुछ रहस्य बात है । रति—आर्यपुत्र, फिर आप बताते क्यो नही ? काम—प्रिये, स्त्रीस्वभावके कारण तुम भीरु हो, अतः उन पापियोंके भयङ्कर कर्म तुम्हारे सामने नही बताया जाता है । रति—( भयसे ) आर्यपुत्र, सो क्या ? काम—प्रिये, डरो मत, डरो मत ! उन अभागों की यह आशामर है । ऐसी अफवाह है कि हमारे कुलमे कालरात्रितुल्य विद्या नामकी राक्षसी पैदा होगी । रति—( भयसे ) हा धिक् ! हा धिक् ! क्यों हमारे कुलमे राक्षसी !! इस बातसे मेरा हृदय काँप रहा है ।