भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 105, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 105

(ततः प्रविशन्ति देव्यः सुमन्त्रश्च) सुमन्त्रः— इत इतो भवत्यः । इदं गृहं तत् प्रतिमानृपस्य नः समुच्छ्रयो यस्य स हर्म्यदुर्लभः । असन्निवृत्तैरप्रतिहारिकागतै- र्विना प्रणामं पथिकैरुपास्यते ॥ (१३) (प्रविश्यावलोक्य) भवत्यः ! न खलु न खलु प्रवेष्टव्यम् । अयं हि पतितः कोऽपि वयःस्थ इव पार्थिवः । देवकुलिकः— परशङ्कामलं कर्तुं गृह्यतां भरतो ह्ययम् ॥ (१४) (निष्क्रान्तः) देव्यः—(सहसोपगम्य) हा जात ! भरत ! भरतः—(किञ्चित् समाश्वस्य) आर्य ! सुमन्त्रः—जयतु महा— (इत्यर्धोक्ते सविषादम्) आहो स्वरसादृश्य- मन्ये प्रतिमास्थो महाराजो व्याहरतीति । भरतः—अथ मातृणामिदानीं काऽवस्था । देव्यः—जात ! एषा नोऽवस्था । (अवगुण्ठनमपनयन्ति) सुमन्त्रः—भवत्यः ! निगृह्यतामुत्कण्ठा । भरतः—(सुमन्त्रं विलोक्य) सर्वसमुदाचारसन्निकर्षस्तु मा सूचयति कच्चित् तात ! सुमन्त्रो भवान् ननु । सुमन्त्रः—कुमार ! अथ किम् । सुमन्त्रोऽस्मि । अन्वास्यमानश्चिरजीवदोषैः कृतघ्नभावेन विडम्ब्यमानः । अहं हि तस्मिन् नृपतौ विपन्ने जीवामि शून्यस्य रथस्य सूतः ॥ (१५) शब्दार्थ—समाश्वस्य=आश्वासन पाकर । अटवीभूतां=अरण्य के तुल्य वर्जिताम्=रहित । पिपासार्तः=पानी की इच्छा से पीडित । अनुधावामि=पीछे दौडता हूं । क्षीणतोयां=सूखे जल वाली । विस्तरश्रवणं=विस्तार से समाचार