भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 135, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 135

(144) राम—सीते, तुम्हारा सोचना नितान्त उचित है । यमराज के बाणों के प्रहार होने वाले मेरे शरीर पर हृदय का घाव तो अभी वैसा ही है । इसी बीच अनेक फल वाले दुःख रूपी बाणों के आघात उसी स्थान पर बार-बार गिर रहे हैं । (४) सीता—आखिर आर्यपुत्र को किस बात की चिन्ता है ? (२) मूल रामः—श्वस्तत्रभवतस्तातस्यानुसंवत्सरश्राद्धविधिः । कल्पविशेषेणनिवपनक्रियामिच्छन्ति पितरः । तत कथं निर्वर्तयिष्यामीत्येतच्चिन्त्यते । अथवा— इच्छन्ति तुष्टिं खलु येन केन त एव जानन्ति हि ता दशा मे । इच्छामि पूजां च तथापि कर्तुम् तातस्य रामस्य च सानुरूपाम् ॥ (५) सीता—आर्यपुत्र ! निर्वर्तयिष्यति श्राद्धं भरत ऋद्ध्या, अवस्था- नुरूपं फलोदकेनाप्यार्यपुत्रः । एतत् तातस्य बहुमततरं भविष्यति । रामः—मैथिलि ! फलानि दृष्ट्वा दर्भेषु स्वहस्तरचितानि नः । स्मारितो वनवासं च तातस्तत्रापि रोदिति ॥ (६) (ततः प्रविशति परिव्राजकवेषो रावणः) रावणः—एष भोः ! नियतमनियतात्मा रूपमेतद् गृहीत्वा खरवधकृतवैरं राघवं वञ्चयित्वा । स्वरपदपरिहीणां हव्यधारामिवाहं जनकनृपसुतां तां हर्तुकामः प्रयामि ॥ (७) (परिक्रम्याधो विलोक्य) इदं रामस्याश्रमपदद्वारम् । यावदवतरामि । (अवतरति) यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि । अहमतिथिः । कोऽत्र भोः !