भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 140, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 140

( 149 ) [रा]वणः--अलं परिहृत्य । पृच्छतु भवान् । [रा]मः--भगवन् ! निवपनक्रियाकाले केन पितॄंस्तर्पयामि ? [रा]वणः--सर्वम् श्रद्धया दत्तं श्राद्धम् । [रा]मः--भगवन् ! अनादरतः परित्यक्तं भवति । विशेषार्थम् पृच्छामि । [रा]वणः--श्रूयताम् । विरूढेषु दर्भाः, ओषधीषुतिला, कलाय शाकेषु, मत्स्येषु महाशफर., पक्षिषु वार्ध्रीणसः, पशुषु गौः खड्गो वा, इत्येते मानुषाणां विहिताः । रामः--भगवन् ! वाशब्देनावगतमन्यदप्यस्तीति । रावणः--अस्ति प्रभावसम्पाद्यम् । रामः--भगवन् ! एष एव मे निश्चयः । उभयस्यास्ति सान्निध्यं यद्येतत् साधयिष्यति । धनुर्वा तपसि श्रान्ते श्रान्ते धनुषि वा तपः ॥ (६) रावणः--सन्ति । हिमवति प्रतिवसन्ति । रामः--हिमवतीति । ततस्ततः । रावणः--हिमवत. सप्तमे शृंगे प्रत्यक्षस्थाणुशिरःपतितगङ्गाम्बु- पायिनो वैदूर्यश्यामपृष्ठा. पवनसमजवाः काञ्चनपार्श्वा नाम मृगाः, यैर्वैखानसबालखिल्यनैमिषीयादयो महर्षयश्चिन्तित- मात्रोपस्थितविपन्नैः श्राद्धान्यभिवर्धयन्ति । तैस्तर्पिताः सुतफलं पितरो लभन्ते हित्वा जरा खमुपयान्ति हि दीप्यमानाः । तुल्यं सुरैः समुपयान्ति विमानवास मावृत्तिभिश्च विपयैन बलान् ध्रियन्ते ॥ (१०) रामः--मैथिलि ! आपृच्छ पुत्रकृतकान् हरिणान् द्रुमांश्च विन्ध्य वनं तव सखीर्दयिता लताश्च । वत्स्यामि तेषु हिमवद्गिरिकाननेषु दीप्तैरिवौषधिवनैरुप रञ्जितेषु ॥ (११) सीता--यदार्यपुत्र आज्ञापयति । रावणः--कौसल्यामातः ! अलमतिमनोरथेन । न ते मानुषैर्दृश्यन्ते ।