प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 146, कुल 178 में से
संदर्भ में पढ़ें(157) रावणः—सीत ! श्रूयतां मत्पराक्रमः । भग्नः शक्रः कम्पितो वित्तनाथः कृष्टः सोमो मर्दितः सूर्यपुत्रः ।— धिग् भोः स्वर्गं भीतदेवैर्निविष्टं धन्या भूमिर्वर्तते यत्र सीता ॥ (१७) सीता—आर्यपुत्रे !—परित्रायस्व परित्रायस्व । सौमित्रे ! परित्रायस्व परित्रायस्व माम् । रावणः— रामं वा शरणमुपेहि लक्ष्मणं वा स्वर्गस्थं दशरथमेव वा नरेन्द्रम् । किं वा स्यात् कुपुरुषसंश्रितैर्वचोभि र्न व्याघ्रं मृगशिशवः प्रधर्षयन्ति ॥ (१८) सीता—आर्यपुत्र ! परित्रायस्व परित्रायस्व । सौमित्रे ! परित्रायस्व परित्रायस्व माम् । रावणः—विलपसि किमिदं विशालनेत्रे विगणय मा च यथा तवार्यपुत्रम् । विपुलबलयुतो ममैव योद्धुं ससुरगणोऽप्यसमर्थ एव रामः ॥ (१६) सीता—(सरोषम्) शप्तोऽसि । रावणः—अहह ! अहो पतिव्रतायास्तेजः । योऽहमुत्पतितौ वेगान्न दग्धः सूर्यरश्मिभिः । अस्या परिमितैर्दग्धः शप्तोऽसीत्यभिरक्षरैः !। (२०) सीता—आर्यपुत्र ! परित्रायस्व परित्रायस्व । रावणः—(सीतां गृहीत्वा) भो भोः । जनस्थानवासिनस्तपस्विनः शृण्वन्तु भवन्तः । बलादेष दशग्रीवः सीतामादाय गच्छति । क्षात्रधर्मे यदि स्निग्धः यिङ्कुम् रामः पराक्रम ॥ (२१) सीता—आर्यपुत्र ! परित्रायस्व । परित्रायस्व रावणः—(परिक्रामन् विलोक्य) अये ! स्वपक्षपवनोत्क्षेपक्षुभितव षण्डश्चण्डचञ्चुरभिधावत्येष जटायुः । आः ! तिष्ठेदानीम्