भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 162, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 162

( १७७ )

मूल कैकेयी—(आत्मगतम्) भवतु , इदानीं कालः कथयितुम् । (प्रकाशम्) जात ! त्वं न जानासि महाराजस्य शापम् । भरतः—किं शप्तो महाराजः ? कैकेयी—सुमन्त्र ! आचक्ष्व विस्तरेण । सुमन्त्र—यदाज्ञापयति भवती । कुमार ! श्रूयताम्—पुरामृगयां गतेन महाराजेन कस्मिंश्चित् सरसि कलश पूरयमाणो वनगजवृं हि- तानकारिशब्दसमुत्पन्नवनगजशङ्कया शब्दवेधिना शरेण विपन्नचक्षुषो महर्षेश्चक्षुर्भूतो गुणितनयो हिंसितः । भरतः—हिंसित इति । शान्तं शान्तं पापम् । ततस्ततः ? सुमन्त्रः—ततस्तमेव गतं दृष्ट्वा, तेनोक्तं रुदितस्यान्ते मुनिना सत्यभाषिणा । यथाहं भोस्त्वमप्येवं पुत्रशोकाद् विपत्स्यते ॥ (१५) इति । भरतः—नन्विदं कष्टं नाम । कैकेयी—जात ! एतन्निमित्तमपराध मा निक्षिप्य पुत्रको रामो वनं प्रेषितः, न खलु राज्यलोभेन । अपरिहरणीयो महर्षिशापः पुत्रविप्रवासं विना न भवति । भरतः—अथ तुल्ये विप्रवासे कथमहमरण्यं न प्रेषितः ? कैकेयी—जात ! मातुल कुले वर्तमानस्य प्रकृतिभूतस्ते विप्रवासः । भरत—अथ चतुर्दश वर्षाणि किं कारणमवेक्षितानि ? कैकेयी—जात ! चतुर्दश दिवसा इति वक्तुकामया पर्याकुलहृदयया चतुर्दश वर्षाणीत्युक्तम् । भरतः—अस्ति पाण्डित्यं सम्यग् विचारयितुम् । अपि विदितमेतद् गुरुजनस्य ? सुमन्त्रः—कुमार वसिष्ठवामदेवप्रभृतीनामनुमतं विदितं च । भरतः—हन्त ! त्रैलोक्यसाक्षिणः खल्वेते । दिष्ट्यानपराद्धात्रभवती । अम्ब ! यद् भ्रातृस्नेहात् समुत्पन्नमन्युना मया दूषितात्रभवती, तत्सर्वं मर्षयितव्यम् । अम्ब ! अभिवादये ।

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक) · पृष्ठ 162, कुल 178 में से · BharatKosha