भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 168, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 168

सीता--आर्यपुत्र ! एष्टव्ये काले भरतः आगतः । (ततः प्रविशति भरतः समातृकः) भरतः--तैस्तैः प्रवृद्धविषयैर्विषमैर्विमुक्त मेघैर्विमुक्तममलं शरदिव सोमम् । आर्यासहायमहमद्य गुरुं दिदृक्षुः प्राप्तोऽस्मि तुष्टहृदयः स्वजनानुबद्धः ॥ (६) रामः--अम्बा ! अभिवादये । सर्वाः--जात ! चिरञ्जीव । दिष्ट्या वर्धामहे अवसितप्रतिज्ञं त्वां कुशलिनं सह वध्वा प्रेक्ष्य । रामः--अनुगृहीतोऽस्मि । क्ष्मणलः--अम्बाः । अभिवादये। सर्वाः--जात ! चिरजीव । लक्ष्मणः--अनुगृहीतोऽस्मि । सीता--आर्याः ! वन्दे । सर्वाः--वत्से ! चिरमङ्गला भव । सीता--अनुगृहीतास्मि । भरतः--आर्य ! अभिवादये, भरतोऽहमस्मि । रामः - एह्येहि वत्स ! इक्ष्वाकुकुमार ! स्वस्ति, आयुष्मान् भव । वक्षः प्रसारयं कवाटपुटप्रमाण मालिङ्ग मां सुविपुलेन भुजद्वयेन । उन्नामयाननमिदं शरदिन्दुकल्प प्रह्लादय व्यसनदग्धमिदं शरीरम् ॥ (७) भरतः--अनुगृहीतोऽस्मि । आर्ये ! अभिवादये । भरतोऽहमस्मि । सीता--आर्यपुत्रेण चिरसञ्चारी भव । भरतः--अनुगृहीतोऽस्मि । आर्य ! अभिवादये । लक्ष्मणः--एह्येहि वत्स ! दीर्घायुर्भव । परिष्वजस्व गाढम् । (आलि- ङ्गति)