भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 44, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 44

( 41 )

(ततः प्रविशति सीता सपरिवारा) सीता—हञ्जे ! अवदातिका परिशङ्कितवर्णं दृश्यते । किन्नु खल्व- वैतत् । चेटी—भट्टिनी ! सुलभापराधः परिजनो नाम । अपराद्धा भविष्यति । सीता—नहि नहि, हसितुमिवेच्छति । अवदातिका—(उपसृत्य) जयतु भट्टिनी । भट्टिनी ! न खल्वह- मपराद्धा । सीता—का त्वां पृच्छति । अवदातिके ! किमेतद् वामहस्तपरि- गृहीतम् । अवदातिका—भट्टिनी ! इदं वल्कलम् । सीता—वल्कलं कस्मादानीतम् ? अवदातिका—शृणोतु भट्टिनी । नेपथ्यपालिन्यार्यरैवा निवृत्त- रङ्गप्रयोजनमशोकवृक्षस्यैकं किसलयमस्माभिर्याचितासीत् । न च तया दत्तम् । ततोऽहं त्यपराध इतीदं गृहीतम् । सीता—पापकं कृतम् । गच्छ, निर्यातय । अवदातिका—भट्टिनी ! परिहासनिमित्तं खलु मयैतदानीतम् । सीता—उन्मत्तिके ! एवं दोषो वर्धते । गच्छ, निर्यातय निर्यातय । अवदातिका—यद् भट्टिन्याज्ञापयति । (प्रस्थातुमिच्छति) सीता—हला ! एहि तावत् । अवदातिका—भट्टिनी ! इयमस्मि । सीता हला ! किन्नु खलु ममापि तावत् शोभते । अवदातिका—भट्टिनी ! सर्वशोभनीयं सुरूपं नाम । अलंकरोतु भट्टिनी । सीता—आनय तावत् । (गृहीत्वालंकृत्य) हला ! पश्य, किमिदानीं शोभते ? अवदातिका—तव खलु शोभते नाम । सौवर्णकमिव वल्कलं संवृत्तम् ।