भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 45, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 45

[Page 42]

सीता—हञ्जे ! त्वं किञ्चिन्न भणसि । चेटी—नास्ति वाचा प्रयोजनम् । इमानि प्रहृषितानि तनूरूहाणि मन्त्रयन्ते । (पुलकं दर्शयति) सीता—हञ्जे ! आदर्शम् तावदानय । चेटी—यद् भट्टिन्याज्ञापयति । (निष्क्रम्य प्रविश्य) भट्टिनी ! अयमादर्श । सीता—(चेटीमुखं विलोक्य) तिष्ठतु तावदादर्शः । त्वं किमपि वक्तुकामेव । चेटी—भट्टिनी ! एवं मया श्रुतम् । आर्यवालाकिः कञ्चुकी भणति-अभिषेकोऽभिषेक इति । सीता—कोऽपि भर्ता राज्ये भविष्यति । (प्रविश्यापरा) चेटी—भट्टिनी ! प्रियाख्यानिकं प्रियाख्यानिकम् । सीता—किं किं प्रतीष्य मन्त्रयसे । चेटी—भर्तृदारकः किलाभिषिच्यते । सीता—अपि तातः कुशली ? चेटी—महाराजेनैवाभिषिच्यते ! सीता—यद्येवं, द्वितीयं मे प्रियं श्रुतम् । विशालतरमुत्सङ्गं कुरु । चेटी—भट्टिनी ! तथा । (तथा करोति) सीता—(आभरणान्यवमुच्य ददाति) चेटी—भट्टिनी ! पटहशब्द इव । सीता—स एव । चेटी—एकपदे अवघट्टिततूष्णीकः पटहशब्दः संवृत्तः । सीता—को नु खलूद्घातोऽभिषेकस्य । अथवा (विहुवृत्तान्तानि राजकुलानि नाम ।) चेटी—भट्टिनी ! एवं मया श्रुतम्-भर्तृदारकमभिषिच्य महाराजो वनं गमिष्यतीति । सीता—यद्येवं, न तदभिषेकोदकं मुखोदकं नाम ।