प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 49, कुल 178 में से
संदर्भ में पढ़ें( 46 ) महाराज एव महाराजः । यावदिदानीं मैथिलीं पश्यामि । अवदातिका--भट्टिनी ! भर्तृदारकः खल्वागच्छति । नापनीतं वल्कलम् ? रामः--मैथिलि ! किमास्यते ? सीता--हम् आर्यपुत्र । जयत्वार्यपुत्रः । रामः--मैथिलि ! आस्यताम् । (उपविशति) सीता--यद् आर्यपुत्र आज्ञापयति । (उपविशति) अवदातिका--भट्टिनी ! स एव भर्तृदारकस्य वेषः । अलीकमिवतद् भवेत् । सीता--तादृशो जनोऽलीकं न मन्त्रयते । अथवा बहुवृत्तान्तानि राजकुलानि नाम । रामः--मैथिलि ! किमिदं कथ्यते । सीता--न खलु किञ्चित् । इयं दारिका भणति-अभिषेकोऽभिषेक इति । रामः--अवगच्छामि ते कौतूहलम् । अस्त्यभिषेकः । श्रूयताम् । अद्यास्मि महाराजेनोपाध्यायामात्यप्रकृतिजनसमक्षमेकप्रकारं संक्षिप्तं कोसलराज्यं कृत्वा बाल्याभ्यस्तमङ्कमारोप्य मातृगोत्रं स्निग्धमाभाष्य “पुत्र राम ! प्रतिगृह्यतां राज्यम्” इत्युक्तः । सीता--तदानीमार्यपुत्रेण किं भणितम् ? रामः--मैथिलि ! त्वं तावत् किं तर्कयसि ? सीता--तर्कयाम्यपुत्रेणाभणित्वा किञ्चिद् दीर्घं निःश्वस्य महाराजस्य पादमूलयोः पतितमिति । रामः--सुष्ठु तर्कितम् । अस्य तुल्यशीलानि द्वन्द्वानि सृज्यन्ते । तत्र हि पादयोरस्मि पतितः । मम बाष्पेण पतता तस्योपरि ममाप्यधः । पितुम् क्लेदितौ पादौ ममापि क्लेदितं शिरः ॥ (६) सीता--ततस्ततः । रामः--ततोऽप्रतिगृह्यमाणेऽप्यनुनये ऽप्यात्मनजरादोषैः स्वैः प्राणैरस्मि शापितः ।