प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 56, कुल 178 में से
संदर्भ में पढ़ें( 53 ) ७) मूल— (प्रविश्य) काञ्चुकीयः —परित्रायतां परित्रायतां कुमारः । राम —आर्य ! कः परित्रातव्यः ? काञ्चुकीयः—महाराजः । रामः—महाराजः इति । आर्य ! ननु वक्तव्यम् एकशरीरसंक्षिप्ता पृथिवी रक्षितव्येति । अथ कुत उत्पन्नोऽयं दोषः । काञ्चुकीयः— स्वजनात् । रामः--स्वजनादिति । हन्त ! नास्ति प्रतीकारः । शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा । कस्य स्वजनशब्दो मे लज्जामुत्पादयिष्यति ॥ (१२) काञ्चुकीयः— तत्रभवत्या कैकेय्याः । रामः - किमम्बाया ? तेन हि उदर्केण गुणेनात्र भवितव्यम् । काञ्चुकीयः—कथमिव ? रामः—श्रूयताम्, यस्याः शक्रसमो भर्ता मया पुत्रवती च या । फले कस्मिन् स्पृहा तस्या येनाकार्यं करिष्यति ॥ (१३) काञ्चुकीयः—कुमार ! अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनि- क्षेप्तुम् । तस्या एव खलु वचनाद् भवदभिषेको निवृत्तः । रामः -आर्य ! गुणाः खल्वत्रे । काञ्चुकीयः—कथमिव ? रामः—श्रूयताम्, वनं दमननिवृत्तिः पार्थिवस्य तावन्मम पितृपरवत्ता बालभावः स एव । नवनृपति विमर्गे नास्ति शङ्का प्रजानामथ च न परिभोगैर्वञ्चिता भ्रातरो मे ॥ (१४) काञ्चुकीयः—अथ च तयानाहूतोपसृतया भरतोऽभिषिच्यतां राज्य इत्युक्तम् । अत्राप्यलोभः ? रामः —आर्य !(भवान् खल्वस्मत्पक्षपातादेव नार्थमवेक्षते) कुतः, शुल्के विपणितं राज्यं पुत्रार्थे यदि याच्यते । तस्या लोभोऽत्र नास्माकं भ्रातृराज्यापहारिणाम् ॥ (१५)