प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 82, कुल 178 में से
संदर्भ में पढ़ें( 81 ) राजा—क्या बिना कुछ कहे ही वन मे चले गए ? (इस प्रकार कह कर घोर मूर्च्छा मे पड जाते हैं) मन्त्र—(हडबडाहट के साथ) हे बालाकि, मन्त्रियो से कहो कि महाराज की हालत असाध्य हो चुकी है । कञ्चुकीय—जो आज्ञा । (निकल जाता है) ५) मूल देव्यौ—महाराज ! समाश्वसिहि समाश्वसिहि । राजा—(किञ्चित् समाश्वस्य) अंगं मे स्पृश कौसल्ये ! न त्वां पश्यामि चक्षुषा । राम प्रति गता बुद्धिरद्यापि न निवर्तते ॥ (१८) पुत्र ! राम ! यत् खलु मया सन्ततं चिन्तितम्— राज्ये त्वामभिषिच्य सन्नरपतेर्लाभात् कृतार्थाः प्रजाः, कृत्वा, त्वत्सहजान् समानविभवान् कुर्वात्मनः सन्ततम् । इत्यादिश्य च ते, तपोवनमितो गन्तव्यमित्येतया कैकेय्या हि तदन्यथा कृतमहो निःशेषमेकक्षणे ॥ (१९) सुमन्त्र ! उच्यतां कैकेय्याः— गतो रामः प्रियं तेऽस्तु त्यक्तोऽहमपि जीवितैः । क्षिप्रमानीयतां पुत्रः पापं सफलमस्त्विति ॥ (२०) सुमन्त्रः—यदाज्ञापयति महाराजः । राजा—(ऊर्ध्वमवलोक्य) अये ! रामकथाश्रवणसन्दग्ध— हृदयं मामाश्वासयितुमागताः पितरः । कोऽत्र ? (प्रविश्य) काञ्चुकीयः—जयतु महाराजः । राजा—आपस्तावत् । काञ्चुकीयः—यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महाराजः । इमा आपः । राजा—(आचम्यावलोक्य) अयममरपते सखा दिलीपो