पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
१४२ पृथ्वीराजविजयमहाकाव्यम् यत्र कर्णोत्पलन्यस्तहस्तं दीपावलो(l.3)किनीः . दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥ दीपशमनार्थं कर्णोत्पलेषु न्यस्ता ह(l.4)स्ता यत्रैवं कृत्वा दीपानवलो- कयन्तीर्नारीर्भर्तृनिकटे दृष्ट्वा सखीभिः प्रतिमुच्यते ॥(l.5) सूक्ष्मम् ॥ रिरंसारूपसूक्ष्मार्थप्रकाशनात् ॥ १७३. शीतः पाणिरपथ्योयं सद्यो मे निरगाज्ज्वरः .(l.6) यत्र रामा प्रियस्पर्शप्रस्वेदमिति निह्नुते ॥ इदानीं मम ज्वरो निर्गतोतस्तवायं पाणिः शी(l.7)तत्वादपथ्य इत्य- नेन वचसा प्रियँस्पर्शन प्रस्वेदं रामाच्छादयति ॥ व्याजोक्तिः ॥ स्वेदेनो- द्विन्नस्य(l.8) प्रियस्पर्शसुखस्य ज्वरनिर्गमनेन निगूहनात् ॥ १७४. मा प्रवेक्ष्यति कोप्यन्तर्मा शब्दश्श्रूयते बहिः .(l.9) वाक्यं यत्र नवोढानामिति कान्तैर्निगद्यते ॥ नवोढा वक्ति मा हठादिकं कुरु यतः कोप्यन्तः प्रवेक्ष्य(l.10)ति तथा मायुङ्ग्ध्व यतो बहिशब्दश्श्रूयते एतदेव कान्ता अनुवदन्ति मा निषेधं कुरु यतः कोप्य(l.11)न्तः प्रवेक्ष्यति काकुप्रयोगेण न प्रवेक्ष्यतीत्यर्थः मा निषेधं कुरु यतो बहिशब्दश्श्रूयते काकु(l.12)प्रयोगेण न श्रूयते इत्यर्थः ॥ वक्रोक्तिः काकुप्रयोगात् ॥ १७५.. कोप्यन्तर्मे न ते स्नेहः कोपवन्तं त्य(l.13)जान्तरात् . नतोहमिति मानिन्यो रम्यन्ते यत्र कामिभिः ॥ मँमान्तः स्नेहस्तव नास्ति यद्वां त्वत्कर्तृकः स्नेहो मेन्तर्मयि विष(l.14)- यभूतायां न भवतीति मानिनीनामुक्तिः कामिभिस्त्वन्यथा योजनं कृतम् त्वं 1 Ms. °न्तीन्नारीम्भ°. 2 Ms. °यिःशी°. 3 Ms. प्रियास्प°-. 4 Ms. वक्रो°. 5 Ms. ममा° to. यद्वा lc. under l. 13.
[कोपी] कोप(l.15)वान् मे मम नते प्रणते स्नेह इति त्वयोक्तम् तत्कोपमन्त- राच्चित्ता[त्त्यज त]वाहं नैतः प्र(l.16)णामकारीत्युक्त्या कामिभिर्मानिन्यो रम्यन्ते रमणीजनाः . मे इत्येकवचनमेकैककामिन्य(l.17)भिप्रायत्त् ॥ श्लेषेण सैव ॥ सैवेति वक्रोक्तिः ॥ 176. यत्र स्तनन्धयान्हस्ते रत्नदीपं जिघृ(l.18)क्षतः . दृष्ट्वा हाहेति संभ्रान्ता धात्री चेतैर्विहस्यते ॥ रत्नदीपं हस्ते गृह्णतो बालान्दृ(l.19)ष्ट्वा सम्भ्रान्ता हाहेति वदन्ती धात्री चेतैरुपहस्यते ॥ स्वभावोक्तिः ॥ 177. निपीडितस्य पूर्णे(l.20**39⁵)न्दोस्सुधया पङ्किलाङ्गुली . यत्र मृत्युजितः पादौ भाव्येते भावितैः पुनः ॥ पीडितस्यासनभूत(l.1)स्य पूर्णचन्द्रस्यामृतेनाङ्गुली मृत्युजितो भग- वतः पादौ भक्तैः प्रणिधीयेते ॥ भाविकम् ॥(l.2)अत्यन्तविप्रकृष्टस्य भगव- दङ्घुलिपङ्किलत्वस्य प्रत्यक्षाद्यमाणत्वात् ॥ 178. च्युतकर्पूरकस्तू(l.3)रीपांसुला पण्यवीथिका . कुरुते पाण्डुरश्यामवाससो यन्निवासिनः ॥ च्युताभ्यां कर्पूरक(l.4)स्तूरीभ्यां पांसुला यत्राट्टवीथी यस्मिन्निवा- सिनः पौरान्सितासितवस्त्रान्करोति ॥ उदात्तम् ॥(l.5) सातिशयसमृद्धिवर्ण- नात् ॥ 179. पारेसिन्धु विजिग्ये यां मध्येसिन्धु व्यधाच्च याम् • रामः कृ(l.6)ष्णश्च नगरीं ते दास्ये यस्य नोचिते ॥ ' समुद्रपारे यां नगरीं लङ्कां रामो जितवांस्तथा समु(l.7)द्रमध्ये नगरीं 1 Should be ॰कोपिनां. 2 Ms. ॰राश्चि॰. 3 Ms. ॰वाहनं नं॰. 4 Ms. वक्रो॰. 5 Ms. पृ. रा. ४५ vertically on margin.
द्वारवतीं कृष्णो यां व्यधात्ते नगर्यौ यस्य दासत्वयोग्ये न भवतः ॥ द्वितीयमुदात्तम् ॥(l.8)लङ्काजयद्वारिकानिर्माणयोर्महापुरुषचरितयोरङ्गभू- तत्वात् ॥ 180. चन्द्रांशुस्मेरधम्मिल्ल(l.9)मल्लिकानां प्रियान्प्रति • सौधेषु गीतं रामाणां यत्रालिभिरनूद्यते ॥ चन्द्रांशुभिः स्मेराशु(l.10)भ्रतरा धम्मिल्लमल्लिका यासां स्त्रीणां प्रियानुद्दिश्य गीतं सौधेषु सखीभिरनु पश्चा(l.11)दुच्यते गीयते ॥ रस- वत् ॥ रतेरङ्गत्वाद्सवदलङ्कारः ॥ 181. सौधेष्विन्दूदये शुद्धाः प्रि(l.12)यमार्गस्पृशो दृशः • न व्याकुलयितुं भृङ्गा यत्रोत्पलदृशामलम् ॥ चन्द्रोदये प्रियमा(l.13)र्गवीक्षिणीरुत्पलदृशां दृष्टीर्व
पञ्चमः सर्गः . १४५ हठेन पादपतनं यत्र रामासु सागसाम् . कोपाग्निं दीपयति च प्रसादान्बु च वर्षति ॥ रामासु सापराधनां संबन्धिं१ हठेन प्रणमनं कर्तृ कोपाग्निं ज्वलय- ति हर्षजलं च वर्षति . प्रसादे इति वा पाठः ॥ भावसन्धिः ॥ असूयौत्सु- क्ययो रत्यङ्गयोर्भावात् ॥ १८५. लटभाभिस्स्वयं दत्तं विलासिषु नवंक्षतम्३ . दृष्टं विस्मृत्य रत्यन्ते यत्रैति क्षणविघ्नताम् ॥ कामिनां तरुणीभिस्स्वयमेव दत्तं२ तदेव विस्मृतं सद्रत्यन्ते दृष्टं विघ्नतामेति ॥ भावोदयः ॥ असूयोदयात् ॥ १८६. यस्मिन्पराङ्मुखी रक्ता साश्रुस्स्मेरा च योषिताम् . सुसखीसाक्षिकं दृष्टिर्भवत्यानमति प्रिये ॥ रमणीनां प्रिये प्रणमति सति दृष्टिः पराङ्मुखत्वादिसहिता४ स्निग्ध- सखीसाक्षिकं भवति ॥ भावशबलता ॥ अमर्षासूयानिर्वेदहर्षाणां शब- लत्वात् ॥ १८७. भ्रूभङ्गभङ्गिभिस्त्रीणां येनाप्ताश्चापराजयाः . कामस्य कामिभिर्यत्र कृतस्तस्य पराजयः ॥ येन कामेन भ्रूभङ्गविच्छित्तिभिर्हे५तुभिश्चापानां राजयः पङ्क्तयः प्राप्ताः तस्य कामस्य कामिभिः पराजयः कृतः ॥ अनुप्रासयमकयोस्सं- सृष्टिः ॥ १८८. • केलीकोकिलकाकल्याः कल्पाः कान्तागिरो जये . यत्र कामयमानानां नानाङ्गं सुवते सुखम् ॥ 1 Ms. संबधि. 2 Ms. दत्तुं. 3 Is it नखं° ? 4 Ms. ॰खादि॰. 5 Ms. ॰भिहे॰. १६
१४६ पृथ्वीराजविजयमहाकाव्यम्. यत्र प्रियाणां वाचः(l.14) कामयमानानां कामिनां नानाविधं सुखमु- त्पादयन्ति केलीकोकिलानां काकलीक(l.15)········स जये कल्पाः कुश- लाः ॥ तयोरेव संकरः ॥ 189. कर्पूरविपणौ यत्र सर्वस्मि···(l.16)- 190. Lines 17 to end of page missing स्थानेनामरावतीन्द्रनगरी भूरिसौभाग्यं स्पृशति . समगुणेति तात्पर्यम्. या च स्त्री पुरुषार्थि(l.1)तद्वृत्तिसात्यार्थे सुभगा ॥ समासोक्त्युत्प्रेक्षा- सङ्करः ॥ स्पृशतीति संभावनातात्पर्या(l.2)दार्थ्युत्प्रेक्षा नायिकाव्यवहारा- रोपाच्च समासोक्तिः ॥ 191. एवंविधामजयमेरुपुरः प्र(l.3)तिष्ठां कृत्वा सकौतुक इवाजयराजदेवः . दोर्वीर्यसंहतनयं तनयं विधाय सिंहासने त्रि(l.4)दिवमीक्षितुमुच्चचाल ॥ एवंविधामजयमेरुनगरस्य प्रतिष्ठां कृत्वा स्वर्गदर्शनार्थं(l.5) कौतुकीव. नगरान्तरलाभार्थमिति भावः . भुजबलमिलितनीतिं पुत्रं सिंहासने कृत्वा (l.6)चलितः ॥ 192. अर्णोराजोथ सादाशिवमनिशमनु
पञ्चमः सर्गः . १४७ ' प्राप्यैकमप्रतिमल्लं पुष्करक्षेत्रं समस्तभूमौ पुण्डरीकाणां (l.11) छत्राणां प्रकटं विघटनेनोद्धतानां मातङ्गराजानां म्लेच्छानां त्रासायासोत्पादने व्यवस्थितं (l.12)शक्तमकरोत् ॥ व्यवहितमिति पाठो नार्षः . सिंहश्च पुण्डरीकाणां व्याघ्रविशेषाणां विघ(l.13)टनादधिकमुद्धतानां हस्तिनां भयमुत्पादयतीति भद्रम् ॥ 193. श्रीलोलराजसुतप(l.14)ण्डितभट्टनोन- राजात्मजो विवरणेन स जोनराजः . सर्गे चिराद्व्यधित पञ्चममञ्चि(l.15)--- ︶︶︶︶︶︶︶︶︶︶राजे ॥ श्रीश्रीकण्ठचरित्रकाव्यविवृतौ(l.16) Lines 17 to end of page missing * * * * * 1 Ms. °यउ°, 2 Ms. °जः. Is it °ञ्चितं श्रीपृथ्वीमहेन्द्रविजयाभिधकाव्यराजे ?
[ षष्ठः सर्गः ]
समीयु- र्भयं तदेवाजयमेरुनार्यः ॥ प्रथमं चन्द्रस्य राहुणा ग्रहे ग्रासे सति चन्द्रलोके दाक्षा(l.1)यणीनां ताराणामश्विन्यादीनां यद्भयमासीत्तदेव तत्सममित्यर्थः दुर्गाङ्गनाः प्रापुः (l.2)विषण्णे हस्तश्रश्रवणं च नक्षत्रे हस्तः करश्रश्रवणं कर्णौ यासां ताः ॥ 1. रजोभिरेव प्रतिभानभङ्गे(l.3) पूर्वस्य पुंसस्तरणेः प्रवृत्ते . निर्गत्य सोष्मा विदधे स दोष्मा- नौर्वाग्नितां तत्कटकार्णवस्य ॥ अ(l.4)र्णोराजस्य पूर्वः पुमानादित्यः तस्य रजोभिरेव प्रकाशनाशे जाते सोष्मा दृप्तो दोष्मान्भुजशा(l.5)ली स····························[सै]न्य- समुद्रस्य वडवाग्नितामकरोत् तत्कटकमशोषयदित्यर्थः ॥(l
षष्ठः सर्गः . १४६ भा(l.9)ग्यानि भवन्ति . यदि हि म्लेच्छा रणे संमुखा म्रियेरंस्तदार्कबिम्बं भित्वा गच्छेयुः नत्वेवमतो न(l.10)रके पतिताः ।। ३. दोश्शालिनामाजयमेरवाणां यल्लोहघातैः करणीयमासीत् . भारा(l.11)यमाणैर्निजवर्मलोहै- स्तदन्वभूवन्बहवस्तुरुष्काः ॥ अजयमेरुभवानां भटानां श(l.12)स्त्राघातैर्यत्कर्तव्यमासीत्तद्भारीभूतै- रायसकवचैर्बहवस्तुरुष्काः प्रापुः . निजकवचभ(l.13)रैरेव मृता इत्यर्थः।। ४. पुरोगतानामसवो निरीयुः पिपासया ये मरुधूलिमध्ये . तैरेव सा(l.14)~~~~~— —————— ॥ .........पिपासया(l.15) ५. Lines 16 to end of page missing —घतस्कराढ्ये सुखेन पाथेयमिवात्तवद्भिः ॥ अश्वग्रीवास्वायुधप्रहारं दत्वा शोणितं पीतवद्भिः कैश्चिन्मृतम् . भावे क्तः . अत्रोत्प्रेक्ष्यते पापचोरसंकुले नरमार्गे पाथेयमिव गृह्णद्भिः(l.2) . चौरबहुले च लोकः पाथेयं गृह्णाति ॥ ६. मरुस्थलीवालुकया प्यधत्त कांश्चिद्दिपन्नांल्लु(l.3)ठतः पृथिव्याम् . 1 Ms. दौ°.
१५० पृथ्वीराजविजयमहाकाव्यम्. संस्कारमात्मोचितमन्तकाले प्रवर्तयन्ती कृपयेव वात्या ॥ मृतान्भूमौ लुठ(1.4)तोन्वान्वातसमूहो मरुसिकतयाच्छादयत् . अत्रो- त्प्रेक्ष्यते कृपया हेतुभूतया यवनोचि(1.5)तं प्रेतसंस्कारं भूमिनिखननलक्षणं प्रवर्तयन्तीव ॥ ७. रुध्वा स्थितान्कांश्चन राजमार्ग ग्रा(1.6)म्याश्शवान्गन्धभयेन हुत्वा . तुरुष्कमांसस्य चिराद्रसज्ञं क्रव्यादमग्निं रचयांबभूवुः ॥(1.7) राजमार्गमावृत्य स्थितान्कांश्चन शवान्गन्धभयेन हुत्वा ग्रामिणः क्रव्या- दमसंस्कृतमग्निं (1.8) तुरुष्कमांसस्यास्वादज्ञं चिराच्चक्रुः ॥ ८. बभूव यावानवनेः पुरस्ता- द्भारस्तुरुष्कैर्व्यसुभि(1.9)र्लुठद्भिः . तावानभून्मेदुरितोदरीणां तत्पारणाद्भारणतश्शिवानाम् ॥ तुरुष्कैर्गतप्रा(1.10)णैर्लुठद्भिः पूर्वं भूमेर्यावान्भारोभूत्तावानेव भारस्त- त्पारणात्तुरुष्कग्रसनात्पीवरोदरीणां (1.11) जम्बुकीनां धारणातोभूत् . पार- णाशब्दो भक्षणे वर्तते. तुरुष्कभक्षणे निवृत्तस्य भारस्य शिवामे(1.12)दुर- त्वात्पुनरुदयः ॥ ९. असृचि तेषां विशतामुलूकै- स्सपादलक्षं यदमङ्गलं प्राक् . त(1.13)त्तत्पलास्वादननिर्वृतस्य भद्रं बभाषे बलिभुक्कुलस्य ॥
1 Ms. °भिः लु°. 2 Ms. °निवृ°.
' सपादलक्षं नाम देशविशे(l.14)षं विशतां म्लेच्छानाममङ्गलमुलूकैः कौशिकैर्येत्सूचितं तदमङ्गलमेव कर्तृ काक(l.15)[कुलस्य] शुभमसूचयत् यतो मृतम्लेच्छमांसग्राससुखितस्य . आसादनेति पाठो ना(l.16)[र्षः] ...... ॥ 10. ~-~~~~~- रीति परस्परस्याप्सरसो हसन्त्यः . जनङ्गमैमूर्धभिरर्ध(l 17)~~
...............रुदयं समेभ्य(l.18) 11.
[Lines 19 to end of page missing](*)
तिस्ते तत्र कथामात्रमपि नाकुर्वन्निति. पांथेष्विति यस्य च भावेन
भावलक्षणमिति सप्तमी(l.1). पांथाः कथामत्यजन्शृङ्गाद्युत्स्वकुर्वन्निति
तात्पर्यम् ॥ 12.
पवित्रिता वीररसेन धात्री
[L1
राज्ञस्सेना दिशस्सर्वा उच्चैश्श्रवस्सर्गप्रकृ(l.6)तीरिव व्यधात् हताः प्रसादीकृता नष्टाश्चेतेभ्यश्शिष्टाः प्रविष्टास्तौरुष्कास्तुरङ्गमा यस्यां(l.7) सा . तुरुष्कवाहापहरणात्तत्सेना दिशोजैषीदिति भावः . उच्चैश्श्रैवा एक एव स च स्वर्ग(l.8) एवास्ति तत्सेना तु वराश्वबाहुल्याद्बहुसंख्योच्चैश्श्रवस्सहिता दिशो- पि व्यधादित्यपि श(l.9)ब्दार्थः यद्वा हतादिभ्यश्शिष्टत्वादल्पप्रविष्टाश्वां- पि दिशोनेकोच्चैश्श्रवस्सहिता...........² ॥ १४. भीत्या विना कस्य न सुप्रवेश- मुपक्रमे यत्समरस्य जज्ञे . भाग्यैर्विना कस्य(l.10) न च प्रवेष्टुं साध्यं न तत्पार्थिवसैन्यमासीत् ॥ रणारम्भे यद्राजसैन्यं भीत्या विना कस्य न(l.11) सुप्रवेशमभूत् . भीति- रेव तत्र सैन्ये न प्रविष्टा अन्ये तु सर्वे तुरुष्काः प्रविष्टा इत्यर्थः . तद्रा(l.12)ज- सैन्यं कस्यापि प्रवेष्टुं साध्यं नासीत्कैर्विना . भाग्यैर्विना . भाग्यान्येव समरान्ते प्राविशन्नन्ये तु तु(l.13)रुष्का हता इत्यर्थः हत्वा तुरुष्कांस्तद्धनं प्राप्तमिति भावः . यद्वा निर्भयस्य कस्य न सुप्रवे(l.14)शमिति यज्जनैरज्ञे ज्ञातं तद्राजसैन्यं भाग्यानि विना कस्यापि न प्रवेष्टुं शक्यमिति ॥(l.15) १५. एकैकमु ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ णीर्भर्तुरिवाभिधातुम् . संप्रोषितै ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ॥(l.16) १६. Lines 17 to end of page missing तथा परकटकं सिद्धवत्प्रविष्टा इत्यर्थः पौरस्तुत्यमृतपूर्णास्सत्सद्दिनो- शोभन्त ॥ १७. 1 Ms. °वैश्र°, 2 Ms. lc. on margin. 3 Ms. °धस्वा°. 4 Ms. °भर्त्त°. 5 Ms. °पूर्णास्सां,
षष्ठः सर्गः . १५३ नृपः(l.1) पताकासिचयप्रपञ्च- सञ्चारिचित्राम्बरभूषणायम् • अलोठयित्वैव नवीकृतायां पु(l.2)र्यामपूर्वां श्रियमैक्षते स्म ॥ ध्वजवस्त्राण्येव संचारि चित्रं यस्य तदम्बरं भूषणं य(l.3)स्यांमत ऍवालोठयित्वैव लोंठनेन विनैव नवीकृतायां नगर्यां स शोभां दृष्टवान्. शत्रुमारणा(l.4)न्नगर्या नवीकरणम् ॥ 18. महोत्सवः क्ष्मापतिना सुलग्ने न ज्ञायते कुत्र स सूत्रितोभूत् .(l.5) अद्यापि यो रुद्धतुरुष्कयात्रं⁵ तथैव सर्वामवनीमुपास्ते ॥ योद्यापि म्लेच्छानां यात्रां रुद्ध(l.6)वान्सर्वां भुवं च व्याप्नोति स महोत्सवो राज्ञा कस्मिन्नपि शोभने स्थिरे लग्ने प्रारब्धोभूत् • शोभन(l.7)- लग्ने एवारब्धस्य स्थैर्योपपत्तेः ॥ • 19• व्यापादि यस्मिन्नपवित्रसेना स भूमदेशश्चिरकाल(l.8)मासीत् • कङ्कालिकाकालिशृगालमाला- मेलापकोलाहलकेलिरौद्रः ॥(l.9) सा चाण्डालसेना यत्र मारिता तत्स्थानं कङ्कादिरौद्रं जातम् ॥ 20. विशुद्धिहेतोरथ तस्य(l.10) राजा घ्राणेन्द्रियाकास्मिकरौरवस्य • अकारयत्कीर्त्तिपटीपिनद्ध- क्षीरोदनशङ्कर(l.11)णं तटाकम् ॥
1 Ms. °लौठं. 2 Ms. °स्यांम°. 3 Ms. ऎवा°. 4 Ms. °लाठ°. 5 Ms. °त्रां. We take it as an adverb. 6 Ms. °सीत्क°. २०
१५४ पृथ्वीराजविजयमहाकाव्यम्. नासाया आकस्मिकरौरवाख्यस्य नरकविशेषस्य . उद्वेगोत्पादक(l.12)- दौर्गन्ध्यातिशयादिति भावः . तस्य म्लेच्छमारणस्थानस्य शोधनार्थं स राजा तटाकम(l.13)कारयत् . कीर्त्तिरेव पटी तया पिनद्धस्य क्षीरोदस्य नग्नंकरणम् . क्षी(l.14)रसमुद्रादधिकमित्यर्थः . अधिकश्च हीनं जयन्पटीं गृहीत्वा नग्नं करोति . नग्नपलितेत्या(l.15)दिना कर्तर्यर्थे [ख्यु]टि नग्नं- करणशब्दस्य रूपम् ॥ 21. तत्तुङ्गमातङ्गघटास्थिकूटा- वि(l.16)—⏑———⏑—⏑—— • ——⏑ पीडां मनुते स्म भू(l.17)[यः] ॥ 22. Lines 18 to end of page missing या पुष्करारण्यविहारशीला मन्दाकिनीवेन्दुनदी प्रसिद्धा • भगीरथस्सिन्धुमिव स्रवन्त्या(l.1) तया तटाकं तमपूरि देवः ॥ पुष्करमरण्यमाकाशं च तत्र संचारिणी या चन्द्रनदी(l.2) गङ्गेव प्रसिद्धा तया नद्या स राजा तं तटाकमपूरयत् भगीरथस्समुद्रमिव . पूरेर्णि- जन्तस्य चिण्यपूरिति(l.3) रूपम् ॥ 23. पयोभिरीशानकिरीटचन्द्र- पेयूषगर्भैः परि
षष्ठः सर्गः . १५५ ' हरमौलिचन्द्रसुधामिश्रैर्जलैः(l.5) पूरितोपि समुद्रस्सगरपुत्राणामभा- ग्यवशादिव क्षारत्वं प्राप्तन्. दोषादिवेत्यार्ष:(l.6) पाठः ॥ 24. पुण्यास्तु तस्याजयराजसूनोः को वेदितुं तत्त्वगतीरभिज्ञः . शाकम्भरीचे(l.7)त्रगतोपि यस्य क्रीडासमुद्रस्स चिवस्सुधायाः ॥ राज्ञः पुण्यानां परमार्थं ज्ञातुं को(l.8) विदग्धः यस्य क्रीडाब्धिः क्षार- स्थलस्थोपि सुधायास्सद्दशः ॥ • 25. नाम्ना पितुर्वारु(l.9)णबाणलिङ्ग- प्रासादमत्तुङ्गमकारयद्यत् . वारां विवृद्धयर्थमिवागतोसौ हि(l.10)मालयस्तत्सरसो विभाति ॥ पितुरजयराजस्य नाम्ना स वारुणबाणलिङ्गस(l.11
१५६ पृथ्वीराजविजयमहाकाव्यम्. प्रतिष्ठाफलं प्राप्तत्. कुतः तुरुष्काणां(1.2) यात्राया विघातात्. यदि हि स राजा तुरुष्कान्न विहन्यात्ते तुरुष्का देवगृहध्वंसं कु(1.3)र्युरिति भावः॥ 28. अवीचिभागो मरुभूमिनामा खण्डो द्युलोकस्य च गूर्जराख्यः . परी(1.4)क्षणायेव दिशि प्रतीच्या- मेकीकृतौ पाशधरेण यौ द्वौ ॥ 29. तयोर्द्वयोरप्युदिते नरेन्द्रं(1.5) तं वव्रतुस्तुल्यगुणे महिष्यौ . रसातलस्वर्गभवे इव द्वे त्रिलोचनं *चन्द्रकलात्रिसर्गे ॥(1.6) मरुसंज्ञितोवीचिनामा नरकैकदेशस्तथा गूर्जरनामा स्वर्गखण्ड इति द्वौ खण्डौ प(1.7)श्चिमदिशि वरुणेन परीक्षार्थमिव स्थापितौ यौ तयोर्द्वयोर्मरु- गूर्जरयोरुत्पन्ने समगु(1.8)णे राज्ञौ वव्रतुः यथा भूतलस्वर्गोत्पन्ने चन्द्रकला- गङ्गे परमेश्वरं वव्रतुः ॥ 30. पूर्वा तयो(1.9)र्नाम कृतार्थयन्ती तं प्राप्य कान्तं सुधवाभिधाना . सुतानवापत्प्रकृतेस्समाना- न्गुणानिवान्यो(1.10)न्यविभेदिनस्त्रीन् ॥ तयोर्महिष्योर्मध्यात्पूर्वा ज्यायसी सुधवानामां तं कान्तं लब्ध्वा नाम सा(1.11)र्थकं कुर्वती त्रीन्पुत्रान्समबलानन्योन्यभिन्नान्गुणभिन्नांश्च प्राप्तत् . अतस्संभाव्यते प्रकृतेर्गुणा(1.12)न्सत्वरजस्तमांसीवेति . तानि⁴ च समान्य- न्योन्यभिन्नानि च भवन्ति ॥ '31. 1 Ms. °योद्व°. 2 Ms. °लानिस°. 3 Sic. See p. 109, note 5. 4 Refers to सत्वरजस्तमांसि, not गुणान्.
षष्ठः सर्गः . १५७ एको दशग्रीव इवाच(l.13)कांच पितुर्विंरुद्धं व्यवहृत्य नाभम् (?) . अन्येन बाल्येपि न कुम्भकर्ण- न्यायेन नामाप्यत(l.14)--—॥ 32. ——मधुद्विषोंश- स्सत्वोन्नतो विग्रहराजनामा . महाबला(l.15)- 33. Lines 16 to end of page missing गूर्जरेन्द्रो जयसिंहस्तस्मै यां³ दत्तवान्सा काञ्चनदेवी रात्रौ च दिने च सोमं सोमेश्वरसंज्ञम(l.1)जनयत् ॥ 34. उत्पत्स्यते कंचन कार्यशेषं निर्मातुका मस्तनयोस्य रामः . सांवत्सरैरित्युदि(l.2)तानुभावं मातामहस्तं स्वपुरं निनाय ॥ कंचित्कार्यशेषं संपादयितुमस्य राम उत्पत्स्यते इ(l.3)ति ज्योतिर्विद्भिः कथितमाहात्म्यं तं सोमेश्वरं मातामहो निजगरमनयत् ॥ 35. सर्व(l.4)प्रकारं खलु संमुखोपि तस्यानुरूपं तनयं विधाता . विधातुमल्पप्रतिभो यदासी- त्त(l.5)तो न तं सान्वयतां निनाय ॥ सर्वथानुकूलोपि विधिस्तस्य सदृशं पुत्रं कर्तुमनभिज्ञो(l.6) ध्रुवं यदा- सीत्ततो राजानं सपुत्रंतां नानयत् ॥ 36. 1 Is it नाकम् ? 2 Ms. यान्द°. 3 Ms. सोयं lc. on top margin.
१४८ पृथ्विराजविजयमहाकाव्यम्. चतुर्मुखत्वे सदृशे विरिञ्चा- द्विष्णोर्(1.7)लूनाननताविशेषः । देवस्तु पञ्चाननताविशिष्ट- ष्षडाननत्वं गुहमानिनाय ॥ ३७. प्र(1.8)कृष्टतामभ्यधिकामतोपि स्रष्टुं पटुर्न ध्रुवमीश्वरोपि । अतः कुमारं विदधे कुमार(1.9)- मैच्छन्न तन्न्यूनसमान्ववायम् ॥ विरिञ्चाद्ब्रह्मणस्सकाशाद्विष्णोस्सकाशात्पंचा(1.10)ननत्वेन महेश्व- रोधिकः स च स्वपुत्रं कुमारं षण्मुखत्वमनयत् अतोपि कुमारादपि प्र- (1.11)कर्षं कर्तुमीश्वरोपि ध्रुवमसमर्थः अतः कुमारं कुमारमेव कृतवान् कुमारादपि कु(1.12)मारपुत्रस्य विशेषकरणसामर्थ्याभावादीश्वरः कुमारं ब्रह्मचारिणं कृतवानित्यर्थः(1.13) महेश्वरंः कुमारं न्यूनोथवा समोन्ववायः पुत्रो यस्य॑ नैच्छत् ॥ ३८. इत्थं विविञ्चन्नृपतिस्सम(1.14)- ३९. Lines 15 to end of page missing कर्मसु धूर्जटीमीश्वरम् ॥ ४०. भविष्यतानेन विमानदातु- र्हर्तुं धनेशान्नरयानलज्जाम्(1.1) । रामस्य पित्रा दुहितुस्सुतेन सुतेजसा नन्दतु चक्रवर्त्ती ॥ धनेशाद्वैश्रवणान्नरयाने(1.2)न नरस्कंधाधिरोहणेन लज्जां हर्तुं त्या- जयितुमिव विमानदातुः पुष्पकाख्यविमान(1.3)प्रतिदायिनो रामस्य पित्रा
1 Ms. ॰रंकुं 2 Add वाहनं.
षष्ठः सर्गः . १५६ भवित्रा भविष्यतानेन दौहित्रेण चक्रवर्त्ती तुष्यतु ॰ जहातिरन्तर्भावि(l.4)- तए्यर्थः ॥ 41. श्रुत्वेति दौहित्रमुखारविन्द- लावण्यलक्ष्मीसहवासमत्ताम् ॰ विधाय(l.5) दृष्टिभ्रमरीं कथञ्चि- त्तत्संमुखीं भूपतिराबभाषे ॥ दौहित्रमुखपद्मलाव(l.6)ण्यसमृद्धिसहवासेन मत्तां दृष्टिभ्रमरीं तस्य दैवज्ञस्य संमुखीं कृत्वा राजावदत् ॥(l.7) 42. अश्रौषमेवं बहुधा बहुभ्य- स्सन्देहगेहं च मनो ममाभूत् ॰ तदस्ति किञ्चिन्नहि जी(l.8)वलोके प्रियंवदानां न यदीरणीयम् ॥ बहुभ्यः सकाशाद्बहुधा चाहमेवं श्रु(l.9)तवान् मम मनस्तु सन्देह- स्थानमेवाभूत् चाटुकाराणां न किञ्चिदवाच्यं यतः ॥(l.10) 43. षाड्गुण्यमन्त्री परमार्थतस्तु प्रजापतेस्त्वं³ प्रतिभाससे मे ॰ ललाटपट्टेसु कृतो नृ(l.11)णां वा त्वं तेन लिप्यक्षरसूत्रधारः ॥ विधातुष्षाड्गुण्ये सृष्टिविषये व्यवहारे मन्त्री(l.12) उपदेष्टा त्वं भवसि ॰ त्वमेव प्रजापतेस्सुखदुःखलेखनोपदेशं करोषीत्यर्थः य(l.13)द्वा प्रजापतिना त्वं लिपिलेखकरः कृतः ॰ त्वमेव लिखसीत्यर्थः ॥ 44. आज्ञां त्वदी(l.14)[यामनुवर्त्तमानः] शरीरभाजां प्रसवप्रसङ्गे ॰ 1 Ms. भत्रा. 2 Ms. ॰यंचिं॰. 3 Ms. ॰तेः त्वं.
१६० पृथ्विराजविजयमहाकाव्यम्. ज्योतिंषि तीक्ष्णांशुमुखान्यमूनि(l.15) ―――――॥ [ग्रा]शिनां जन्मकाले त्वदाज्ञानुसारं सूर्याद्मि(l.16)············· ···णवन्मुमोच(l.17) 45. Lines 18 to end of page missing भरणान्तराणि ॥ संशय एव वंशस्तद्भेदं कृत्वा मुक्तारत्नसमुुक्तं वचनं सूच्यता(l.1)मुच्य- तामतः यथा सन्देहो न भवति तथा कथयेत्यर्थः . यद्वा व्यादाय . स्वपित्या- दिष्वि(l.2)दं द्रष्टव्यम् . मम हृदये स्थितेन येन भूषणान्तराणि त्याज्यत्वं प्राप्नुयुः. त्वद्वचनमेव(l.3) भूषणीभूतं हृदि धारयामीत्यर्थः ॥ 46. सन्देहबीजमाह ॥ इदं हि तद्व्योमनि चित्रकर्म(l.4) मरुस्थले श्रीसह
षष्ठः सर्गः . १६१ इदमपि संशयबीजं ˈहरिर्र्यस्या उ(l.9)दरं समुद्रादपि पवित्रं करिष्यति तस्याः कस्याः कलावपि पुण्यानि तथाविधानि (l.10) भवन्ति . यैस्संस्करि- ष्यत्युदरमित्यार्षः पाठः ॥ 48. आरुह्य संकल्पविकल्पतल्पं ज(l.11)ल्पन्तमित्थं जयदेवसिंहम् . स्मित्वा विधातेव स मन्युमूर्ति- र्मौहूर्त्तिकः स्फूर्तिम(l.12)दित्युवाच ॥ संकल्पाश्च विकल्पाश्च तदेव तल्पमाश्रित्य पृच्छन्तं जयसिं(l.13)हदेवं मौहूर्त्तिको ज्योतिर्विन्मन्युमूर्त्तिः प्रजापतिरिव किञ्चिद्विहस्योर्जितमेवमवो- (l.14)चत् ॥ 49. दशावतारानुकृतिप्रगल्भैः पुरा मुरारेर्दशभिशिरोभिः . दिङ्मात्र(l.15)- 50. [Lines 16 to end of page missing] (**45) – – – – तस्थे . तामुज्जहार त्वरितं स दृष्टिं सर्वसहां कोसलराजपुत्र्याः ॥ शोकाग्निना पीतेपि वृ(l.1)द्धिं गच्छति बाष्पसमुद्रे बुडितां यासीत्तां कौसल्याया दृष्टिं सर्वसहां शोकसां स उद्धृ(l.2)तवान् सर्वसहां भूमिं च हरिरुद्धृतवान् ॥ 51. जीमूतकेशत्वदशोपपन्न- सौदामिनी(l 3)सोदरपिङ्गलिम्ना , ममार्ज्ज बाष्पाम्बुनिपातपाण्डू पादौ जटानां पटलेन चास्याः ॥(l.4) 1 Comm. जयसिंहदेवं. 2 Ms. समन्त°. 3 Ms. मूर्त्तिः lc. under 1 13. 4 Ms. किंचि°. 5 Ms. °त्राः. 6 Ms. वृत्वित्वा. 7 Restore शोकाग्निपीतेपि विवर्धमाने बाष्पाम्बुधौ या बुडितेव तस्थे । 8 Ms. °सुत°. See pp. 18 and 42, note 2. 9 Ms. °मनी°. २१