भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 70, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 70

वासवदत्ता—(सास्रम् ।) भगवति अधिकमेतदपि त्वया कृतम् । न खल्वहं काञ्चनमाला काल्येन वज्जयितव्या । (भगवदि अहिअं एदं वि तुए किदं । ण हु अहं कञ्चणमाला कल्लेण वज्जयिदव्वा ।) साङ्कृत्यायनी—(विहस्य ।) आयुष्मति ईदृशमेव काव्यं भविष्यति । आर०—(सरोषमिव ।) अपेहि काञ्चनमाले अपेहि । न मे बहु- मतासि । (अवेहि कञ्चणमाले अवेहि । ण मे बहुमदासि ।) काञ्चन०—(सस्मितम् ।) यद्यहं तिष्ठन्ती न बहुमता तदेषा गच्छामि । (इति निष्क्रान्ता ।) (जद् अहं चिट्ठन्ती ण बहुमदा ता ऐसा गच्छामि ) आर०—(ससम्भ्रमम् ।) काञ्चनमाले तिष्ठ तिष्ठ । अयमस्याग्रहस्त- समर्पितः । (कञ्चणमाले चिट्ठ चिट्ठ । अयं से अग्गहत्थो समप्पिदो ।) राजा—(आरण्यिकाया हस्तं गृहीत्वा ।) सद्योऽवश्यायबिन्दुव्यतिकरशिशिरः किं भवेत्पद्मकोशो ह्रादित्वं नास्य मन्ये सदृशमिदमुपस्येव वीतातपस्य । मुञ्चन्त्येते हिमौघं नखरजनिकराः पञ्च किं सोऽपि दाही ज्ञातं स्वेदापदेशादविरतममृतं स्यन्दते व्यक्तमेतत् ॥ ११ ॥ अपि च । एतेन बालविद्रुमपल्लवशोभापहारदक्षेण । हृदये मम त्वयायं न्यस्तो रागः स्वहस्तेन ॥ १२ ॥ सद्य इति । अत्र मया गृहीत कर सद्यस्तत्कालश्च अवश्ययाबिन्दूनां नीहारकणानां व्यतिकर सम्बन्धेन शिशिर शीतल पद्मकोश कमलमुकुल भवेत्किम् । नैतत्संभ- वीत्याह । अस्य नीहारकणसद्भावस्य पद्ममुकुलस्य अधुनाह्लादित्वमानन्दकारित्वं न मन्ये । यत वीतातपस्य आतपरहितस्य । पोतातपस्येति पाठे गृहीतातपस्य । अस्य उपस्येष सदृश योग्यम् । उपस्येव पद्ममिव आह्लादको भवेदिति भाव । वितर्कांतरमाह एते पञ्च नखरजनिकरा नखचन्द्रा हिमौघ नीहारसन्दोह मुञ्चति किम् । नैतदपि । यत सोऽपि रजनिकर दाही विरहिणां दहनशील । न तु सर्वदानन्दकरो यथायम् । तस्मिन्नेतत्सं- दिग्धे निर्णयमाह—ज्ञातं मया सम्यगवगतम् । एतत् स्वेदापदेशात्स्वेदव्याजेन अमृतम विरतं स्यन्दते क्षरति । एतद् व्यक्त स्पष्टमेव । सन्देहापहुतिसकीर्णोत्प्रेक्षा । शार्दूल- वि० वृत्तम् । एतेनेति । एतेन बाल य विद्रुमपल्लव प्रवालकुरलस्तस्यशोभाया अपहारे मोचने दक्षेण । अथ वा तत्सदृशेन स्वहस्तेन त्वया मम हृदये अय राग रक्तिमा अनुरागो वा न्यस्तोऽर्पित ॥ १२ ॥ १ अह्र २ वीता०