प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 70, कुल 184 में से
संदर्भ में पढ़ेंवासवदत्ता—(सास्रम् ।) भगवति अधिकमेतदपि त्वया कृतम् । न खल्वहं काञ्चनमाला काल्येन वज्जयितव्या । (भगवदि अहिअं एदं वि तुए किदं । ण हु अहं कञ्चणमाला कल्लेण वज्जयिदव्वा ।) साङ्कृत्यायनी—(विहस्य ।) आयुष्मति ईदृशमेव काव्यं भविष्यति । आर०—(सरोषमिव ।) अपेहि काञ्चनमाले अपेहि । न मे बहु- मतासि । (अवेहि कञ्चणमाले अवेहि । ण मे बहुमदासि ।) काञ्चन०—(सस्मितम् ।) यद्यहं तिष्ठन्ती न बहुमता तदेषा गच्छामि । (इति निष्क्रान्ता ।) (जद् अहं चिट्ठन्ती ण बहुमदा ता ऐसा गच्छामि ) आर०—(ससम्भ्रमम् ।) काञ्चनमाले तिष्ठ तिष्ठ । अयमस्याग्रहस्त- समर्पितः । (कञ्चणमाले चिट्ठ चिट्ठ । अयं से अग्गहत्थो समप्पिदो ।) राजा—(आरण्यिकाया हस्तं गृहीत्वा ।) सद्योऽवश्यायबिन्दुव्यतिकरशिशिरः किं भवेत्पद्मकोशो ह्रादित्वं नास्य मन्ये सदृशमिदमुपस्येव वीतातपस्य । मुञ्चन्त्येते हिमौघं नखरजनिकराः पञ्च किं सोऽपि दाही ज्ञातं स्वेदापदेशादविरतममृतं स्यन्दते व्यक्तमेतत् ॥ ११ ॥ अपि च । एतेन बालविद्रुमपल्लवशोभापहारदक्षेण । हृदये मम त्वयायं न्यस्तो रागः स्वहस्तेन ॥ १२ ॥ सद्य इति । अत्र मया गृहीत कर सद्यस्तत्कालश्च अवश्ययाबिन्दूनां नीहारकणानां व्यतिकर सम्बन्धेन शिशिर शीतल पद्मकोश कमलमुकुल भवेत्किम् । नैतत्संभ- वीत्याह । अस्य नीहारकणसद्भावस्य पद्ममुकुलस्य अधुनाह्लादित्वमानन्दकारित्वं न मन्ये । यत वीतातपस्य आतपरहितस्य । पोतातपस्येति पाठे गृहीतातपस्य । अस्य उपस्येष सदृश योग्यम् । उपस्येव पद्ममिव आह्लादको भवेदिति भाव । वितर्कांतरमाह एते पञ्च नखरजनिकरा नखचन्द्रा हिमौघ नीहारसन्दोह मुञ्चति किम् । नैतदपि । यत सोऽपि रजनिकर दाही विरहिणां दहनशील । न तु सर्वदानन्दकरो यथायम् । तस्मिन्नेतत्सं- दिग्धे निर्णयमाह—ज्ञातं मया सम्यगवगतम् । एतत् स्वेदापदेशात्स्वेदव्याजेन अमृतम विरतं स्यन्दते क्षरति । एतद् व्यक्त स्पष्टमेव । सन्देहापहुतिसकीर्णोत्प्रेक्षा । शार्दूल- वि० वृत्तम् । एतेनेति । एतेन बाल य विद्रुमपल्लव प्रवालकुरलस्तस्यशोभाया अपहारे मोचने दक्षेण । अथ वा तत्सदृशेन स्वहस्तेन त्वया मम हृदये अय राग रक्तिमा अनुरागो वा न्यस्तोऽर्पित ॥ १२ ॥ १ अह्र २ वीता०