पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1010, कुल 1267 में से
संदर्भ में पढ़ें[ आध - ५. सू - ३९. ] दीपिका सहितम्. ९६३ यात' (बृ. ३-३-१०.) इति लिङ्गात् । चशब्दात् ' ततः कनीयासा एव देवा ज्यायसा असुराः' (बृ. ३-३-१०.) इति श्रुतेश्च ॥ ( ९ ) असुरा बहुला यस्मात्तस्मान्न जनतामियात् । इति च ब्राह्मे ॥ ३९ ॥ जनताप्रवेशनिषेधोक्तस्यान्यथानुपपत्तिरूपलिङ्गादित्यर्थः । सौत्रचश- ब्दार्थमाह—चशब्दादिति । सूचिताया इति शेषः । ' ततः ' तयोर्देवा- सुरभागयोर्मध्ये देवाः ' कनीयासाः' कनीयांसः सङ्ख्यातोऽल्पा इत्यर्थः। 'असुराः' अयोग्याः 'ज्यायसाः' ज्यायांसो बहुला इत्यर्थः । कनीय- सा ज्यायसा इत्याकारान्ते पदे । केचित्तु सकारान्ते द्वितीयाबहुवचना- न्ते इत्याहुः । पक्षद्वयेऽपि छान्दसं रूपं प्रथमे आकारप्रत्ययस्य द्वितीये दीर्घस्य च प्रापकाभावात् । श्रुतेश्चेत्यस्यापि ज्याय एवेत्यनेनैव सम्ब- न्धः ॥ ( ९ ) ननु जनताप्रवेशनिषेधोऽसुरबाहुल्यनिमित्त एवेति कुत इ- त्यत आह—असुरा इति ॥ 'जनतां' जनसङ्घं 'नेयात्' न प्रविशेदित्यर्थः। ब्राह्मे पुराणे उक्तश्चेति शेषः । केचित्तु—'तस्मान्न जनताम्' इति स्मृतिवाक्यं लिङ्गप्रदर्शकत्वेन प्रागेकदेशेनोदाहृतं पुनस्तस्यैव समग्रस्य ननु जनताप्रवेशनिषेधोऽसुरबाहुल्यनिमित्त एवेति कुत इति शङ्कापरिहारकत्वेनोदाहरणं कृतमित्याहुः । अपरे तु—उभयोः स्मृति- त्वमुपेत्य पूर्ववाक्यमन्यदिदं तु समग्रं स्मृत्यन्तरं भाष्ये चशब्दार्थत- योदाहृतमित्याहुः । तत्राद्यपक्षो बृहदारण्यके ' तस्मान्न जनतामिया- त् ' इति स्पष्टं श्रवणेन पूर्ववाक्यस्य श्रुतित्वादुत्तरस्य स्मृतित्वेनोभ- योर्भिन्नत्वादनुपपन्नः । द्वितीयपक्षस्तु पूर्ववाक्यस्य स्मृतित्वाभावादे- वायुक्तः । सूत्रे अत इत्यावर्त्तते । अत्र