पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ आध - ५. सू - ३९. ] दीपिका सहितम्. ९६३ यात' (बृ. ३-३-१०.) इति लिङ्गात् । चशब्दात् ' ततः कनीयासा एव देवा ज्यायसा असुराः' (बृ. ३-३-१०.) इति श्रुतेश्च ॥ ( ९ ) असुरा बहुला यस्मात्तस्मान्न जनतामियात् । इति च ब्राह्मे ॥ ३९ ॥ जनताप्रवेशनिषेधोक्तस्यान्यथानुपपत्तिरूपलिङ्गादित्यर्थः । सौत्रचश- ब्दार्थमाह—चशब्दादिति । सूचिताया इति शेषः । ' ततः ' तयोर्देवा- सुरभागयोर्मध्ये देवाः ' कनीयासाः' कनीयांसः सङ्ख्यातोऽल्पा इत्यर्थः। 'असुराः' अयोग्याः 'ज्यायसाः' ज्यायांसो बहुला इत्यर्थः । कनीय- सा ज्यायसा इत्याकारान्ते पदे । केचित्तु सकारान्ते द्वितीयाबहुवचना- न्ते इत्याहुः । पक्षद्वयेऽपि छान्दसं रूपं प्रथमे आकारप्रत्ययस्य द्वितीये दीर्घस्य च प्रापकाभावात् । श्रुतेश्चेत्यस्यापि ज्याय एवेत्यनेनैव सम्ब- न्धः ॥ ( ९ ) ननु जनताप्रवेशनिषेधोऽसुरबाहुल्यनिमित्त एवेति कुत इ- त्यत आह—असुरा इति ॥ 'जनतां' जनसङ्घं 'नेयात्' न प्रविशेदित्यर्थः। ब्राह्मे पुराणे उक्तश्चेति शेषः । केचित्तु—'तस्मान्न जनताम्' इति स्मृतिवाक्यं लिङ्गप्रदर्शकत्वेन प्रागेकदेशेनोदाहृतं पुनस्तस्यैव समग्रस्य ननु जनताप्रवेशनिषेधोऽसुरबाहुल्यनिमित्त एवेति कुत इति शङ्कापरिहारकत्वेनोदाहरणं कृतमित्याहुः । अपरे तु—उभयोः स्मृति- त्वमुपेत्य पूर्ववाक्यमन्यदिदं तु समग्रं स्मृत्यन्तरं भाष्ये चशब्दार्थत- योदाहृतमित्याहुः । तत्राद्यपक्षो बृहदारण्यके ' तस्मान्न जनतामिया- त् ' इति स्पष्टं श्रवणेन पूर्ववाक्यस्य श्रुतित्वादुत्तरस्य स्मृतित्वेनोभ- योर्भिन्नत्वादनुपपन्नः । द्वितीयपक्षस्तु पूर्ववाक्यस्य स्मृतित्वाभावादे- वायुक्तः । सूत्रे अत इत्यावर्त्तते । अत्र
९६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] ( १०) सू-ॐ ॥ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमात् द्रूपाभावेभ्यः ॥ ॐ ॥ ४० ॥ असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव । 'नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभव न्ति' ( ) इति नियमश्रुतेः । 'नासुराणां दै वं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रू पः स तद्रूपो निसर्गो ह्येष भवति' ( ) इत्य तद्रूपत्वश्रुतेः । 'तं भूतिरिति देवा उपासांचक्रिरे ते (१०) जैमिनिमतेनापि स्वरूपाभिभवो नेत्येतमर्थं समर्थयत्सूत्रं पठति - तद्भूतस्येति ॥ अत्र तच्छब्दो देवासुरनरपरामर्शकः । भूतश ब्दः स्वाभावरूपजात्यर्थकः । यद्वा - तदिति भावप्रधानं, भूतशब्दः प्रा प्तौ, तुशब्दोऽवधारणे । तद्भावस्तत्त्वम् । सिद्धमिति शेषः इत्याशयेन तद्भूतस्य तु तद्भावो जैमिनेरपीति प्रतिज्ञांशं व्याचष्टे - असुरेति । अ सुरजातेरिति बहुव्रीहिः । जातिः स्वभावः । तथा चासुरस्येत्यर्थः । दे वजातेरित्यप्येवमेव व्याख्येयम् । उपलक्षणमेतत् । मनुष्यजातेरेव म नुष्यत्वमित्यपि द्रष्टव्यम् । यद्यप्यभ्यर्हितत्वात् देवजातेरेव देवत्वमि ति प्रथमं वक्तव्यम् । तथाऽपि श्रुत्यनुसारेणैवमुक्तम् । जैमिनेरपीति । न केवलं व्यासस्येत्यपेरर्थः । अनेन पुरुषार्थादिनय इवात्र व्यवस्थितं विकल्पो नास्तीति सूचितम् । केन हेतुना जैमिनेस्तत्सिद्धिरित्यतो नियमेत्याद्युक्तं सूत्रे । तत्र नियमादिशब्दस्तच्छ्रुतिलक्षकः । तद्रूपं प्रा ग्विद्यमानस्वभावः, तन्नेत्यतद्रूपं, भावप्रधानमेतत् । अभावशब्दो भा वस्याप्युपलक्षक इति भावेन तमंशं व्याचष्टे - नासुरा इति । 'असु राः' अयोग्याः 'दैवीं गतिं' देवस्वभावं 'नेयुः' न प्राप्नुवन्ति । एवं देवा मनुष्याश्च स्वस्वान्यगतिं न यन्ति । किन्त्वात्मीयां स्वीयामेव 'जा तिं' स्वभावमनुसृत्य भवन्तीत्यर्थः । रूपमिति । रूप्यते निरूप्यते व्या वर्त्यते वस्त्वनेनेति रूपं सम्यग्ज्ञानादिधर्मः । यो जनो यद्रूपो यल्लक्ष णोपेतः स तद्रूप एव । कुतः ? 'हि' यस्मात् 'एषः' सम्यग्ज्ञानादि धर्मः 'निसर्गः' स्वभावो भवतीत्यर्थः । 'देवाः' योग्याः 'तं' परमा
[ अधि - ५. सू - ४०. ] दीपिकासहितम्. ९६५
बभूवुस्तस्माद्धा अप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्य भूरित्यसुरास्ते ह पराबभूवुः ' (ऐ. आ. २-१-८.) इति देवासुराणां भावाभावश्रुतेश्च । ( ११ ) देवानां भूतिरित्येव मनो विष्णौ स्वभावतः । असुराणामभूतिस्त्वेनैतन्नेयमतोऽन्यथा ॥ देवाः शापाभिभूतत्वात्प्रह्लादाद्या बभूविरे । त्मानं 'भूतिः' ज्ञानैश्वर्यादिभूतिप्रदः तद्रूप इति उपास्ति चक्रिरे । ते न भूतिमन्तो बभूवुः । सुधायां तु मुक्ता इति शेष इत्युक्तम् । तस्माद्दे वानां भूतिरित्युपासकत्वादेव 'एतर्हि' अद्यापि सर्वदेवोत्तमः 'सु प्तः' सुप्तजनेषु स्थितो वायुः 'भूर्भूरित्येव' ज्ञानैश्वर्यादिरूपस्तत्प्रदश्चे त्येव 'प्रश्वसिति' प्रश्वसनियमपूर्वकं स्तौति । 'अभूतिः' अस्माक मनैश्वर्यहेतुरतद्रूप इति 'असुराः' अयोग्या उपासते । अतस्ते 'परा बभूवुः' भूत्यादिगुणहीना नित्यनिरयं प्राप्ता बभूवुरित्यर्थः । इति श्रुते रित्यन्वयः । भावाभावशब्दाभ्यां भूत्यभूती तथोपासनं च गृह्यते । त था च तं भूतिरित्येवंरूपेण देवासुराणां परस्परविपरीतस्य भूतित्वे नाभृतित्वेनोपासननियमस्य भूत्यभूतिरूपतत्फलनियमस्य च श्रुतेरि त्यर्थः । अन्यथा स न स्यादिति भावः । चशब्दः पूर्वोक्तश्रुतिसमुच्चये ॥ ( ११ ) ननु प्रह्लादादीनां दैत्यानामेव सम्यग्ज्ञानतत्फलयोर्दर्शना त्ते देवानामेवेत्येतत्कथमित्यतः उक्तार्थे स्मृतिं चाह-देवानामिति ॥ यतो देवानां विष्णौ स्वभावतो भूतिरित्येव मनः स्यात् । तेषां तथैवो पासनं स्यादिति यावत् । अतः फलमपि तथैव स्यादिति शेषः । असु राणां 'अभूतित्वेन' तद्विषय एव मनः स्यात् । फलमपि तादृशमेव स्यात् । अत एव तदुपासनं फलं च । 'अतः' उक्तात् 'अन्यथा' अ नियतधर्मिकतया 'नेयं' ज्ञेयं नेत्यर्थः । तथा च प्रह्लादादीनां भूतित्वे नोपासकत्वान्न दैत्यत्वमिति नोक्तनियमभङ्ग इति भावः । तर्हि देवा नां तेषां प्रह्लादादिभावः किन्निबन्धन इत्यत आह-देवा इति । 'शापा भिभूतत्वात्' शापेन तिरोहितस्वभावत्वादित्यर्थः । 'अतो' देवत्वा देव 'तेषां' प्रह्लादादीनां 'सुगतिः' सम्यग्ज्ञानतत्फले । 'अन्यथा' कारणान्तरात् 'व्यत्ययः' उक्तस्यान्यथाभावो न भवेदित्यर्थः । केचि त्तु- 'अतो' देवत्वात् 'अन्यथा' दैत्यत्वेन निमित्तेन उक्तस्य व्यत्य
िति व्यस्तं समस्तं च । तत्र व्यस्तेन पू- Wait, "व्याचष्टे": look at L24: "व्याचष्टे" or "व्याचष्टे-" or "व्याचष्टे—"? There is a dash: "व्याचष्टे—न चेति". Wait, look at "तदिति": "सूत्रे तदिति व्यस्तं समस्तं च ।" End of L24: "पू-" with a hyphen, or just "पू"? Line 25 starts with "र्ववाद्युक्तस्य".
Line 25: र्ववाद्युक्तस्य परामर्शः । तथा च यत्पूर्वपक्षिणा देवतापदं भगवदैश्व-
Line 26: र्यं चान्यैः प्राप्यमित्युक्तं, तन्नेत्यर्थः । कुतो नेत्यतस्तदयोगात् इति हे-
Line 27: तुर्योज्यः । अत्र तच्छब्देन सूत्रकारबुद्धिस्थदेवपदपरमैश्वर्याकां-
Line 28: क्षा गृह्यते । सावधारणमेतत् । तथा च तस्याः तदुभयाकांक्षाया ए-
Line 29: वायोगादित्यर्थः । तदाप्तिस्तु दूरोत्सारितेति भावः । ननु सूत्रे न चा
Let's check the
[ अधि - ६. सू - ४१. ] दीपिकासहितम्. ९६७ कांक्ष्यं, किमु परस्येति सूचयितुमपिशब्दः । चशब्द स्तु ज्ञानार्थिनां पूर्वोक्तादित्थंभावान्तरसूचकः। ( २ ) अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयो ग्यस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकांक्षायां पतनमनुमीयते । धिकारिकमित्यनेन तद्योगादित्युक्ताकांक्षान्वये सति ब्रह्मादिपदाना कांक्षैवोच्यते । अतः कथं न परमात्मैश्वर्यादिकमाकांक्ष्यमिति भण्यते । सूत्रे मुखतस्तदुक्तस्य ब्रह्मादिपदस्यापिपदेन ग्रहणं अपिपदसूचित स्य मुखतो ग्रहणं चायुक्तमित्यत आह—ब्रह्मादीनामिति । पदमिति शेषः । ‘नाकांक्ष्यं’ नाकांक्षार्हं रुद्रादिपद्योग्यैः । ‘परस्य’ विष्णोः। ऐश्वर्यमित्यनुवर्तते । ब्रह्मादीनामित्यनेन उत्तमाधिकारिणां ब्रह्मादिदे वानां यस्य यस्मिन्नधिकारः श्रुतिस्मृतिप्रसिद्धः तत्पदमाधिकारिक मित्याधिकारिकपदं व्याख्यातं भवति । कैमुत्यसूचकतया चाप्याधिका रिकमपीत्यपिपदं व्याचष्टे-ब्रह्मादीनामपीति । तथा च कैमुत्ये आक्षेप्या क्षेपकभावापन्नयोरुभयोरप्यापिपदाधिकारिकपदगृहीतत्वान्नोत्सूत्रत्वं भाष्यस्य अपिपदेन सूचितस्यापि परमात्मैश्वर्यस्य प्राधान्यान्मुखतो ग्रहणं च युक्तमिति भावः । नन्वेतत्प्रतिपादनं न पादसङ्गतमित्याशङ्का निरासकतया सौत्रं चशब्दं व्याचष्टे—चशब्दस्त्विति । पूर्वोक्तादिति। ‘ऊर्ध्वरेतस्सु च’ इत्युक्तादित्यर्थः । समुदायेकवचनमेतत् । इत्थं भावान्तरेति । इत्थंभाव इतिकर्तव्यता । अन्य इत्थंभाव इत्थंभावान्त रम् । तथा च ज्ञानार्थिनामपेक्षितः पूर्वोक्तेभ्यो ब्रह्मचर्यादिभ्योऽन्यो य इत्थंभावः परब्रह्मणो देवानां चैश्वर्याद्याकांक्षाकरणरूपस्तत्सूच क इत्यर्थः ॥ ( २ ) ननु भगवदैश्वर्याद्याकांक्षाऽयोगः कुतः प्रमाणादवसीयत इ त्यतः प्रवृत्तं—पतनानुमानादित्यंशं व्याचष्टे—अयोग्यमिति ॥ वृक्षादि कमिति शेषः । ‘प्रयतन्’ प्रयत्नं कुर्वन् ‘प्रपतन्’ पतनक्रियावान् हि दृश्यते लोके । अनेन दृष्टान्तभूते अयोग्यारोहप्रयत्नवति जने हेतुसा ध्ये दर्शिते । दार्ष्टान्तिकमाह—एवमयोग्यस्येति । सूत्रे मुखतः पूर्वगृ हीतस्यापि ब्रह्मादिपदस्याप्राधान्यात् पश्चान्निर्देशः । ‘आकांक्षायां’ प्रयत्नविशेषरूपायां कृतायामिति शेषः । अनेन पक्षे हेतुसत्त्वमुपपादि तम् । ‘अनुमीयते’ आकांक्षावत इति शेषः । अयोग्यस्येति वचनात्
९६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] (३) न देवपदमन्विच्छेत्कुत एव हरेर्गुणान् । इच्छन् पतति पूर्वस्मादधस्ताद्यत्र नोत्थितः ॥ इति ब्रह्माण्डे । (४) स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि । एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम् । इत्याद्यनुमानरूपवाक्याच्च । (५) मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः । तत्पदयोग्यस्य तत्पदाकांक्षायां नैव दोष इति सूच्यते । अनेनेत्थमनुमा नप्रयोगस्सूचितः—ब्रह्मादिपदाकांक्षावान् पतति, अयोग्यरोहप्रयत्न वत्त्वात्, अयोग्यवृक्षारोहप्रयत्नयुक्तवदिति । न च केवलाकांक्षावति प्रयत्नरूपहेतोरसिद्धिः । इच्छाया अपि प्रयत्नविशेषत्वात्, यथोक्तं सु धायाम्—साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरित्युच्येत इति ॥ (३) ननु निर्मूलानुमानमप्रमाणमित्यतोऽनुमानादित्येतदनुकूलस्मृ तिमानादित्यर्थकतयाऽपि व्याचष्टे—नेति ॥ यदा चैवं तदा 'हरेर्गु णान्' ऐश्वर्यादीन् 'कुतः' कथमेवान्विच्छेदित्यर्थः । 'यत्र' स्थाने पतितस्येति शेषः । नोत्थितस्ततः 'पूर्वस्मात्' पूर्वतनस्वस्थानादध स्तात् स्थिते तमसि पततीत्यर्थः । ब्रह्माण्डे उक्तत्वादिति शेषः । अ स्यायमर्थोऽनुमीयत इति पूर्वेणान्वयः ॥ (४) नन्वयोग्यारोहप्रयत्नस्य पतनकारणत्वेऽपि इच्छामात्ररूप स्य प्रयत्नस्य तददर्शनान्न तावन्मात्रं बाधकमित्यतः इच्छाया अपि पत नकारणत्वं स्मृत्युक्तानुमानेन दर्शयन् पतनानुमानादित्येतत्प्रकारान्तरे ण व्याचष्टे—स्वकीयमिति ॥ पदमिति शेषः । तुरवधारणे । हिः प्र सिद्धौ । प्रथमाद्यपदममात्यादिपरम् । द्वितीयं गन्धर्वादिपरम् । चः परस्परसमुच्चये । यद्वा—एकश्चशब्दः पातयन्तीत्यस्यानुकर्षणार्थः । स्वपदमिच्छतीति स्वपदेच्छुः, स्वार्थे कः । स्वपदेच्छुकं पातयतीत्य न्वयः । इत्यादीति । अनुमानं रूपयति ज्ञापयतीत्यनुमानरूपं, स्वार्थे कः एवमादिरूपं च तदनुमानरूपकवाक्यं चेति विग्रहः । अनेन विमतो देवादिभिः पात्यते, अशक्तत्वे सति तत्पदेच्छुत्वात्, राजपदेच्छुवदि त्यनुमानं सूचितं भवति । वाक्याच्चेति । चस्समुच्चये । अस्याप्ययम र्थोऽनुमीयते ज्ञायत इति पूर्वेणान्वयः ॥ (५) नन्वत्र मूलाभाव इत्यतोऽनुमानादित्येतन्मूलभूतश्रुतेरित्यर्थ
[ अधि- ६. सू - ४२. ] दीपिकासहितम्. ९६९ अव दस्यूरधूनुथाः (ऋ. ८-१४-१४.) इति श्रुतिश्च ॥४१॥ (६) सू--ॐ ॥ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॥ ॐ ४२ ॥ उपदेवपदं च नाकांक्ष्यमित्येके । भावशमनवदृषिपद वदेव । तच्चोक्तमिन्द्रद्युम्नश्रुतौ 'अथ यथर्षीन् प्रजाप कतयाऽपि व्याचष्टे—मायाभिरिति ॥ हे इन्द्र परमेश्वर 'मायाभिः' मोहिकाभिः कुविद्याभिः 'उत्' उत्तमत्वं 'सिसृप्सतः' सृप् गतौ, प्राप्तुमिच्छतः 'द्यां' स्वर्गं, 'आरुरुक्षतः' आरोढुं चेच्छतो 'दस्यून्' 'ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुः अनैपुणाः' इत्यादिनोक्तान् ब्रह्मास्ते नान् 'अव' अन्धे तमसि 'अधूनुथाः' अवाक्षिप इति श्रुत्यर्थः । इति श्रुतिश्चेति । उक्तार्थ
तीन्नाकांक्षेदेवं न गन्धर्वान्न विद्याधरान्न सिद्धान्' इति । (७) बृहत्संहितायां च-- न देवानभिकांक्षेत कुत एव हरेर्गुणान् । ति वदन्तीत्युपस्कर्तव्यम् । ऋष्यादिपदाकांक्षायामेव कुत इत्यत स्तद्धेतुत्वेन तदुक्तमित्येतद्व्याचष्टे-तच्चोक्तमिति । न केवलं सूत्रे, किन्तु श्रुतौ चेदमुदितमिति चशब्दार्थः । आरम्भार्थोऽथशब्दः । 'य थर्षीन् ' आर्षान् तद्धर्मान् नाकांक्षेत, एवं ज्ञानार्थी 'प्रजापतीन् ' प्रा जापत्यान् 'गन्धर्वान् ' गान्धर्वान् 'विद्याधरान् ' वैद्याधरान् 'सिद्धा न्' सैद्धान् धर्मान् नाकांक्षेदित्यर्थः । इत्युक्तमित्यन्वयः । यद्यपि गन्ध र्वादिपदस्यानाकांक्ष्यत्वे ततोऽपि न्यूनमृषिपदं न दृष्टान्तीकर्तुं शक्यं, तत्रानाकांक्ष्यत्वानिश्चये ततो न्यूने सुतरां तदनिश्चयात्
[ अधि - ६. सू - ४३. ] दीपिकासहितम्. ९७१ प्राजापत्यान्न चार्षांश्च गान्धर्वादीनपि क्वचित् ॥ ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः ॥ इति विशेषदर्शनार्थमेक इत्युक्तम् ॥ ४२ ॥ (८) सू - ॐ ॥ बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ॐ ॥ ४३ ॥ तथाऽऽकांक्षासम्भवात् । न च देवत्वेऽपि केषां विद्योध्यानां तथाऽऽ- काsubक्षाऽस्तीति वाच्यम् । यतो यथा देवत्वस्य नवकोटिष्वेव भावोऽ- न्यत्राभावः न तथा ऋषित्वस्य शतकोटिष्वेव भावान्नान्यत्राभावोऽस्ति । कुत एतत् ? राजर्षीणां दुर्वासःप्रभृतीनां च ऋषित्वदर्शनात् । एवम् योग्यानां द्रुमिडादीनां गन्धर्वादिपददर्शनाच्चेति दिक् । इतीति । इति शब्दः आवर्तते । तत्रैकस्य इति बृहत्संहितायामित्यनेनान्वयः । अन्य- स्य इति विशेषदर्शन
९७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकांक्षा यामनाकांक्षायां च न पतनम् । (९) देवर्षिगन्धर्वाणां पदाकांक्षी पतेद्ध्रुवम् । अन्यत्र शुभमाकांक्षन् पतेदविरोधतः ॥ इति स्मृतेः ॥ (१०) नानात्वमेव कामानां नाकामः क्व च दृश्यते । ख्यानं—देवर्षीत्यादि । आदिपदात् प्रजापत्यादि गृह्यते । पदशब्दः स र्वत्र सम्बध्यते । बहिरित्यस्यार्थः—अन्यत्रेति । तद्विवृणोति-शुभविषय इति । ज्ञानभक्त्यादिरूपशुभधर्मविषय इत्यर्थः । विषय इत्यनन्तरं वि शेषार्थकस्तुशब्दः संयोज्यः । उभयथेत्येतद्व्याचष्टे—आकांक्षायामि ति । ननु विज्ञानभक्त्यादिकमप्यतीव न साधनं कामबहिष्कृतं चेत् । अकामितोऽवाग्गतिमेव दद्यात् ॥ इति भारततात्पर्यनिर्णये ज्ञानभक्त्यादेरनाकांक्षायामनर्थोक्त्या आकां क्ष्यत्वविधानादनाकांक्षायां पतनाभावोक्तिः कथमिति चेन्न, नियमाभा वे तात्पर्यात् । उक्तवचनस्य सार्वकालिकानांक्षाविषयत्वात् । शुभ शब्देन ज्ञानसाधनैश्वर्यादि गृह्यते । तदाकांक्षायां अनाकांक्षायां च न पतनमित्यर्थः । ज्ञानं प्रत्यैश्वर्यादेरनियतसाधनत्वादिति भावः । न पत नमिति सूत्रे शेषोक्तिः ॥ (९) कुतो न पतनमित्यतः प्राप्तं स्मृतेरिति हेत्वंशं व्याचष्टे—दे वर्षीति । पदेष्वाकांक्षा यस्येति वा पदान्याकांक्षन्तीति वा विग्रहः । नित्यसापेक्षत्वात्पदाकांक्षी इति समासः । अन्यत्रेत्यतः प्राक् एतेभ्य इ त्युपस्कार्यम् । ‘अन्यत्र’ अन्यत् ‘शुभं’ ज्ञानादि तत्साधनैश्वर्यादिकं च । कुतो न पतेदित्यत आह—अविरोधत इति । ज्ञानादिकामस्य श्रु त्याद्यविरुद्धत्वादित्यर्थः ॥ (१०) ननु—विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ इति मोक्षाङ्गत्वेन सर्वकामप्रहाणविधानात् कथं शुभकामे पतनाभा व इत्याशङ्कोत्तरत्वेनाचारादित्यंशं स्मृतिपरतया व्याचष्टे—नानात्व मिति ॥ स्यादित्यतः परमप्येवशब्दस्य तेनेत्यतः परं चशब्दस्यान्वयः। तथा च कामयमानः पुमान् ‘अविरुद्धकामः’ अनिषिद्धेच्छावान् स्या देवेति प्रतिज्ञा । न चाकामत्ववचनविरोधः, यतः पुमान् श्रुत्यविरुद्धा
ऋषभं श्रेष्ठं कुर्विति ज्ञानाय-> wait, does it sayसजातानांorसज्ञानानां? Let's re-verify सजातानां: Look at the letters in मां समानानां सजातानां: स- standardस जा-जwithा ता- look atता: it's a तwithा! नां-नwithाandं. Yes, सजातानां! Wait, what about the next word? ऋषभं श्रेष्ठं कुर्विति Wait,ऋषभंhasऋ ष भं. Yes! Wait, let's look at ज्ञानायagain: ज्ञानायorज्ञानाविरुद्ध...? Wait, is line 26 starting with विरुद्धकामस्योक्तत्वेन? Yes, विरुद्धकामस्योक्तत्वेन प्रकृतार्थसाधकत्वात् ॥ ६ ॥ Line 27:॥ इति आधिकारिकाधिकरणम् ॥ Line 28:— * —(asterisk with dashes) Line 29:७. अधिकरणम् ॥ Line 30:( १ ) अत्राधिकरणे ब्रह्म
९७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] 'ब्रह्मविदाप्नोति परम्' (तै. २-१.) इत्यादि फलं स्वामिनां देवानामेव भवति । 'यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भव ति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः' इ ति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ ४४ ॥ (२) सू-ॐ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रि यते ॥ ॐ ॥ ४५ ॥ शंकं सूत्रमुपन्यस्य व्याचष्टे—स्वामिन इति ॥ इत्यादीति लुप्तविभ क्तिकम् । उक्तमिति शेषः । फलं स्वामिनामित्यनेन स्वामिन इति स मुदायैकवचनान्तं हेतुगर्भं, फलेति लुप्तविभक्तिकमिति सूचितम् । त था च 'ब्रह्मवित्' इत्यादिनोक्तं ज्ञानफलं 'स्वामिनो' ज्ञानस्वामिनां देवानामेव भवति, न प्रजानाम् । कुतः ? श्रुतेः 'यदु किञ्चेमाः' इति फलश्रुतेः । देवानामिन्द्रियादिप्रेरकत्वेन ज्ञाने स्वामित्वाच्चैवाचार्य आत्रेयोपि मन्यत इति योजना । श्रुतावुशब्द एवार्थः । तथा चेमाः प्रजाः यदेव किञ्चन शुभं कर्माचरन्ति तद्देवा एवाचरन्ति । तेषां कर्म साधनेन्द्रियादिप्रेरकत्वेन तत्स्वामित्वादिति भावः । एवं प्रजाः यदे व किमपि विजानते तद्देवा एव जानन्तीत्यर्थः । भावस्तु पूर्वोक्त एव । ननु प्रजाकर्तृकयोः कर्मज्ञानयोः कथं देवस्वामिकत्वमित्यत आह— देवानां हीति । 'हि' यतो देवानामेतच्छुभकर्मादि भवतस्तस्तेषामेव फलं भवतीत्यर्थः । ननु कर्तुरेव फलावश्यंभावात् कथं स्वामिनः फ लमित्यतो दृष्टान्तमाह—स्वामी हीति । लोक इति शेषः । कृष्यादि स्थले तथा दर्शनादिति हिशब्दार्थः । तत्त्वप्रदीपे तु न हान्य उपास्ते न हान्यः फलमश्नुत इति समञ्जसं भवेदित्यादिना प्रजानामेव फलं न स्वामिनामिति प्राप्ते स्वामिनामपि फलं, तस्य महत्त्वाद्भाष्ये एवश ब्दः । प्रजानां त्वल्पमिति सिद्धान्तपरतयेदं सूत्रं व्याख्यातम् ॥ (२) एवमात्रेयमतावलम्बेन पूर्वपक्षिते सिद्धान्तयत्सूत्रं पठति— आर्त्विज्यमिति । अत्रार्त्विज्यमिति लुप्तोपमानम् । ऋत्विजामिदमा र्त्विज्यम् । ऋत्विजां यज्ञफलमिवेति यावदित्याशयेन सूत्रं व्याचष्टे— सत्रयागेष्विति । ऋत्विजामपीति । अगृहपतीनामिति शेषः । न केवलं गृहपतेरित्यपेरर्थः । अगृहपतीनामपीति वा । फलं यज्ञफलम् । अनेन
[ अधि - ७. सू - ४६. ] दीपिकासहितम्. ९७५ सत्र यागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजाना मपि भवतीत्यौडुलोमिर्मन्यते । तदर्थं देवैः क्रियमाण त्त्वात् ॥ ४५ ॥ ( ३ ) सू--ॐ ॥ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ॐ ॥ ४६ ॥ फलभागित्वं साध्ये पूर्वोक्तस्वामित्वहेतोरप्रयोजकत्वमुक्तं भवति । तस्मा इत्येतत् पञ्चम्यन्ततया प्रथमान्ततया तृतीयान्ततया च विपरिणा म्य व्याचष्टे—अल्पफलमिति । ज्ञानफलमित्यर्थः । प्रजानामपीति । न केवलं देवानामेव फलं, किन्तु प्रजानामपीत्यपेरर्थः । प्रजानामपि फ लभाक्त्वं कुत इत्यतः प्रवृत्तं तस्मै हीत्यादि व्याचष्टे—तदर्थमिति । प्रजार्थमेवेत्यर्थः । अनेन सूत्रे तच्छब्दः प्रजापरः, तादर्थ्ये चतुर्थीत्यु क्तं भवति । क्रियमाणत्वादिति । सम्पाद्यमानत्वादित्यर्थः । ज्ञानस्ये ति शेषः । अनेन हि शब्दो हेत्वर्थः परिक्रियते इत्यस्य क्रियते इत्यर्थ उक्तो भवति । तथा चायं सूत्रार्थः ‘आर्त्विज्यं’ आर्त्विज्यमिव यथा सत्रयागेऽग्रहपतीनामप्यृत्विजां यज्ञफलं तथा ‘तासां’ प्रजानामस्वा मिभूतानामपि तदल्पफलमस्ति । कुतो ? ‘हि’ यतः ‘तस्मै’ प्रजाफ लार्थ ‘तैः’ प्रजास्थितैः तत्तत्करणप्रेरकैर्देवैः ‘तत्’ ज्ञानादि ‘परि क्रियते’ सम्पाद्यतेऽत इति । तत्त्वप्रदीपे तु यथा सत्रयागेषु न केवलं गृहपतेरेव, किन्तु ‘ऋत्विजां’ इष्टप्रथमयज्ञानां स्वानूत्स्वानग्नीन् तद् ग्रिषु समारोप्य दीक्षितानामनात्तदक्षिणानामल्पं फलं दृश्यते गृहपतेः द्रव्यादिस्तृणुरसमत्वेऽपि, तथा देवैः क्रियमाणस्य ज्ञानयज्ञस्यार्त्वि ज्यं प्रजाभिः परिक्रियते । ‘तत्’ आर्त्विज्यं तासामप्यल्पफलदं भव त्येव । कुतो ? ‘हि’ यतः ‘तस्मै’ तदर्थं प्रजानामपि फलसिद्ध्यर्थमे व तासु स्थित्वा तत्तत्करणानि व्यापारयद्भिर्देवैः ज्ञानयज्ञः ‘परिक्रि यते’ अनुष्ठीयते अत इति सूत्रार्थो वर्णितः । एतत्पक्षे आर्त्विज्यमि त्यावर्तते । एवं परिक्रियत इत्येतदपि । अस्यार्त्विज्यमित्यनेन ज्ञानय ज्ञ इत्यध्याहृतेन चान्वयः । तथा च सत्रयागेष्वार्त्विज्यमृत्विजामल्प फलदं तथा देवैर्यो ज्ञानयज्ञः क्रियते तस्यार्त्विज्यं यत्प्रजाभिः क्रियते तदार्त्विज्यं प्रजानामप्यल्पफलदं भवत्येव । कुतो हि यत इत्यादिरू पा सूत्रयोजना द्रष्टव्या ॥ ( ३ ) यदि देवैः प्रजार्थं ज्ञानादि साध्यते तर्हि तत्फलं प्रजानामेव
१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] तृतीयः स्वपक्षः । भवेत्, न किञ्चिद्देवानां इत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति — सहका रीति ॥ अत्र तृतीयमित्यस्यैतदित्यध्याहृतेनान्वयः । पक्षेणेति च भाव प्रधानम् । तथा च ' एतत् ' वक्ष्यमाणं पक्षत्वेन तृतीयमित्यर्थ इत्याश येन सम्बन्धिप्रदर्शनपूर्वकं पक्षेण तृतीयमित्यस्य फलितार्थमाह — तृ तीय इति । स्वेति सावधारणम् । तथा च पूर्वोपन्यस्तपक्षद्वयापेक्षया ऽयं तृतीयः स्वस्यैव भगवतो बादरायणस्यैव पक्षः न त्वौडुलोमिना ज्ञात इत्यर्थः । यद्यपि पूर्णफलापेक्षया देवानामेव फलमिति श्रुत्यवष्ट म्भेन प्रवृत्तस्याद्यपक्षस्य, अल्पफलापेक्षया प्रजानामपीति युक्त्यवष्ट म्भेन प्रवृत्तस्य द्वितीयपक्षस्य तदुभयोपपादकस्य अस्य तृतीयपक्ष स्य च विरोधाभावात्पक्षत्रयमपि बादरायणीयमेव, उत्तरप्रस्थाने त थैव विवृतत्वात् । तथाऽपि मन्दानामात्रेयमतस्यापाततो विरुद्धतया प्रतीतेरेवमुक्तम् । न चैवं पक्षत्रयस्य वस्तुतोऽविरोधसम्पादने आद्य द्वितीयाभ्यां तृतीयस्य तदुभयोपपादकस्य कथं भेद इति वाच्यम् । यतो देवानां महाफलं प्रजानां त्वल्पफलमित्येवं सदृष्टान्तमौडुलोमिना ऽभिहितं, न तु वक्ष्यमाणं ज्ञातम्, बादरायणेन तु प्रधानाङ्गभावोक्तिपू र्वकं तदुपपादनं क्रियत इति । उक्तं हि तत्त्वप्रदीपे — देवानामेव मह त्फलमित्यत्र श्रुतिमात्रेण श्रावयामास । प्रजानामप्यल्पफलमस्तीत्य त्र युक्तिमौडुलोमिना प्रयोजयामास । स्वयन्तु सर्वविद्याचार्यतमः आ चार्यप्रवेशेन प्रवक्तृत्वं प्रजासु स्थित्वा तत्तदिन्द्रियप्रवर्तनेन ज्ञापनमि त्येतदुभयं देवानां फलाधिक्ये कारणं, सहकार्यान्तराभावे स्वविहित ज्ञानदानासम्भवेन विहितानुष्ठानाङ्गत्वात्प्रजानामपेक्ष्यत्वं, तासामप्य ल्पफलभावे कारणं, प्रजानामाचार्यस्य देवानां च फलेयत्ताविशेषं चे ति बहून् विशेषानाहेति तृतीयः स्वपक्ष इत्याहेति । एवं प्रथमसूत्रे स्वामिभृत्यभावमुखेन द्वितीये यजमानऋत्विग्भावेन तृतीये प्रधानाङ्ग भावेन महदल्पफलत्वोपपादनाद्भेद इत्यपि समाधानं द्रष्टव्यम् । नन्वे वमपि तत्त्वप्रदीपे सूत्रत्रयमपि सिद्धान्तपरतया व्याख्याय, यत्तु न्या यविवरणेऽन्यथा व्याख्यानम्, तदात्रेयमतानुवादमुखेन मन्दाशङ्कानु वादपरमिति न तत्प्रत्यनीकत्वं सिद्धान्तवादस्येति भाष्यस्य न्यायवि वरणविरोधस्याऽपि परिहृतत्वात्तद्विरोधः स्यादिति चेन्न, आपाततो विरोधमाश्रित्य न्यायविवरणभाष्ययोः प्रवृत्तिसम्भवात् । तदनुसारे
[ अधि - ७. सू - ४६. ] दीपिकासहितम्. ९७७ (४) देवानां ज्ञानादिकर्मणि सहकार्यन्तरत्वेन प्रजा विधी- यन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन वि- धीयन्ते । यथा वाऽऽचार्यस्य शिष्याः । (५) वाराहे च — ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् । वेदेषु तेषां विहितं तत्राचार्यो महत्तरः ॥ ण टीकाया अपि प्रवृत्तेः । तत्त्वप्रदीपस्य च वस्तुस्थित्या प्रवृत्तत्वात् ॥ (४) कोऽसौ तृतीयः पक्ष इत्यतस्तत्प्रदर्शनाथं प्रवृत्तं सहकार्यन्त- रविधिरित्यंशमपेक्षितोपस्कारेण व्याचष्टे—देवानामिति ॥ सहकार्य- न्तरत्वेनेत्यनेन सूत्रे भावप्रधानो निर्देशः, तृतीयातत्पुरुषश्चेत्युक्तं भ- वति । सूत्रे भाष्ये च आचार्यापेक्षया प्रजानां सहकार्यन्तरत्वादान्तर- शब्दप्रयोगः । केचित्तु—अन्तरशब्दो विशेषार्थकः, स चानुग्राह्यत्वरू- प इत्याहुः । विधीयन्त इत्यनन्तरं यत इति शेषः । अस्यात उभयोरपि महदल्पफले स्त इत्युपस्कारेणेतिशब्दाध्याहारेण च तृतीय इत्यनेना- न्वयः । तत्र देवानां प्रजाकृतपुण्यफलभाक्त्वमेव, न तु पापफलभा- क्त्वं तत्फलं त्वसुराणामिति विवेको द्रष्टव्यः । कथं विधिरित्यतः प्रवृ- त्तं तद्वतो विध्यादिवदित्यंशं व्याचष्टे—यथेति । तद्वत इत्यस्य व्या- ख्या—प्रजावत इति । तस्य विवरणं—राज्ञ इति । सहकारित्वेनेति । पालनकर्मणीति शेषः । तद्वत इति प्रकारान्तरेण व्याचष्टे—आचार्य- स्येति । शिष्यवत इत्यादावुपस्कर्तव्यम् । शिष्याः सहकारित्वेन वि- धीयन्त इति सम्बन्धः । अत्राप्यत उभयोरपि महदल्पफले स्त इति वा- क्यशेषः । तेन सौत्रादिशब्दार्थ उक्तो भवति । यथा प्रजावत इत्यादेः शिष्या इत्यन्तस्य तथाशब्दाध्याहारेण देवानामित्यादिनाऽन्वयः ॥ (५) अत्रैवार्थे स्मृतिमाह—वाराहे चेति ॥ देवानां प्रजाभ्यो 'सा- धु' सम्यक्साक्षादिति वा ज्ञानादिदानं विष्णुना 'चोदितं' आज्ञप्तम्। आदिशब्देन मोक्षादिर्गृह्यते । 'तेषां' देवानां वेदे विहितं चेति चश- ब्दान्वयः । 'तत्र' स्वविहिते ज्ञानदाने 'आचार्यों' गुरुः 'महत्तरो' महान् मुख्यः । स्वार्थे तरप् । 'सहकारित्वे' सहकारित्वेन तच्छिष्ये वा विहितः । सहकार्यन्तरं प्रजा इति पूर्वोत्तराभ्यां सम्बध्यते । तत्र दार्ष्टान्तिके अन्तरशब्दोऽमुख्यान्यपरः दृष्टान्ते व्यक्तिविशेषार्थकः । अ- १२३
९७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] विहितस्सहकारित्वे सहकार्यन्तरं प्रजाः । पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥ तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् । ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम् ॥ इति ॥ ४६ ॥ -- ८. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ॐ ॥ ४७ ॥ त एव प्राक् स्ववाक्ये सहकारित्वेनेत्येतावदेवोक्तम् । राज्ञः पातृत्वेन निमित्तेन प्रजास्तस्य सहकार्यन्तरमित्यन्वयः । पालने व्याख्याने चेति क्रमेण शेषः । तस्माद्देवानां ज्ञानदाने प्रजानां सहकारिमात्रत्वादाचा- र्याणां मुख्यसहकारित्वात्तासां प्रजानां 'यावच्छ्रुतं' यावत्प्रमाणसिद्धं तावत्फलं भवति । अतो 'महत्तरं' महत्फलं आचार्याणां भवति । 'त- तः' आचार्यात् 'देवानां' ब्रह्मान्तानां 'उत्तरोत्तरं' महत्तरं 'मुक्ताव- ष्टगुणं शिष्याद्गुरोराप्नोति' इत्युक्तरीत्याऽतिशयितं फलं भवतीत्यर्थः । इति वाराहे इत्यन्वयः । न केवलं सूत्रकृतेति चशब्दार्थः । वाराह इत्य- नन्तरं देवानामित्यादिनोक्तमभिहितमिति वाक्यशेषः ॥ सूत्रार्थस्तु 'तत्' वक्ष्यमाणं 'पक्षेण' पक्षत्वेन 'तृतीयं' तृती- यः पक्षः । स च स्वस्य भगवतो बादरायणस्यैव पक्षः, नौडुलोमिना ज्ञातः । कोऽसौ ? यो देवानां स्वविहिते ज्ञानदाने कर्मणि प्रजानां 'स- हकार्यन्तरविधिः' यद्देवैराचार्याणां सहकारित्वेन प्रजानां सहकार्य- न्तरत्वेन कारणम्, अत एवोभयोः फलवैलक्षण्यं च । तत् कथं ? 'त- द्वतो विध्यादिवत्' यथा प्रजावतो राज्ञः शिष्यवतो गुरोश्च पालने व्याख्याने च प्रजानां शिष्याणां च सहकारितया विधिः तथेति । आ- दिशब्दो गुरो राज्ञश्च महत्फलमिति सूचयति ॥ ७ ॥ ॥ इति फलभूत्यधिकरणम् ॥ -- ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मज्ञाने विशेषाधिकारिणां यतीनां सर्वाश्र- मिभ्योऽतिशयसमर्थनेन ज्ञानमहिमा वर्ण्यते । पूर्वपक्षादिप्रदर्शनार्थं सूत्रं पठति—कृत्स्नेति ॥ अत्र गृहिणोपसंहार इत्यंशसूचितं सयुक्ति
[ मधि - ८, सू - ४७. ] दीपिकासहितम्. ९७९ 'कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिका- न्विदधत्' इत्युक्त्वा 'न च पुनरावर्तते न च पुनरा- वर्तते' ( छा. ८-१५-१. ) इति गृहिणोपसंहारः क्रिय- कपूर्वपक्षमाह — कुटुम्ब इति। कुटुम्ब इत्यतः प्राक् तत्रेति, उक्तेत्यतः प्राक् मोक्षमिति चोपस्कर्तव्यम्। गृहिणेत्यावर्तते। षष्ठ्यर्थे तृतीया। उपसंहार उपनिषत्समापनम्। तथा चेत्थं योजना — गृहस्थस्यैव मु- क्तावुत्तमत्वं, कुतो ? यस्मात् 'तत्र' छन्दोगोपनिषदि 'आचार्यकुला- द्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शु- चौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि प्रतिष्ठाप्याहिंसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते' इति 'गृहिणा' गृहिणः गृहस्थस्यैव मोक्षमुक्त्वा 'न च पुनरावर्तते' इति 'गृहिणोपसंहारः' तद्विषयकोप- संहारः क्रियते तस्मादिति। न ह्याधिक्याभावे सर्वेषां मोक्षे समाने वि- शिष्योक्तिर्युक्तेति भावः। उपसंहारपदप्रयोगेनास्य वाक्यस्याधिक्ये तात्पर्यं सिद्धमिति ज्ञापितम्। उपसंहारस्य तात्पर्यनिर्णायकत्वात्। श्रुत्यर्थस्तु — 'यथाविधानं' विधिमनतिक्रम्य 'आचार्यकुलात्' वंशा- त् वेदमधीत्य 'यथाविधानं' सेवारूपं कर्म 'अतिशेषेण' अशेषेण 'अभिसमावृत्य' कृत्वा 'कुटुम्बे' गृहस्थाश्रमे वर्तमानः शुचौ देशे स्थि- त्वा 'स्वाध्यायं' वेदमधीयानो 'धार्मिकान्' धर्मसम्बन्धिनो व्यापा- रान् 'विदधत्' कुर्वन् तादृशजनान् पुत्रादीन् विशेषेण धारयन्निति वा 'आत्मनि' परमात्मनीन्द्रियाणि 'सम्प्रतिष्ठाप्य' नियम्य 'तीर्थे- भ्यो' यज्ञेभ्यः 'अन्यत्र' तान्बिना सर्वाणि भूतान्यहिंसन् यावदायुषं स्वात्मानमेवं प्रवर्तयन् परमात्मानं दृष्ट्वाऽथ परब्रह्मलोकं 'अभिस- म्पद्यते' प्राप्नोति। स्वर्गं प्राप्त इवायं पुनरावर्तते किं? नेत्याह — न चे- ति। चोऽवधारणे। कदाचिदपि केनापि निमित्तेन नैवावर्त्तत इति। शु- चौ कुटुम्बीति कचित् पाठः तत्त्वप्रदीपविरुद्धः। पूर्वपक्षं प्रतिषेधति — न च वाच्यमिति। कुतो नेत्यतस्तत्र पूर्वपक्षहेतोरन्यथासिद्धयुक्ति- परं कृत्स्नभावादिति सूत्रांशं हेतुत्वेन व्याचष्टे — यत इति। कृत्स्नगृह- स्थानिति हेतुगर्भम्। कृत्स्नाः सम्पूर्णाः गृहस्थधर्मा येषां ते तथोक्ताः। अस्य विवरणं — देवानिति। अनेन कृत्स्नो भावो गृहस्थधर्मो यस्य दे- ववर्गस्य कृत्स्नस्य गृहस्थधर्मस्य भावो यस्मिन्निति वा स तथोक्त इ-
९८० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] ते । तस्माद्गृहस्थस्यैवोत्तमत्वमिति न वाच्यम् । यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते । ( २ ) 'कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना ह्येते यतयोऽत एते- षां न पुत्रा दायमुपयन्ति न चैते गृहान्विसृजन्त्येरा- ति सौत्रपदं व्याख्यातं भवति । सूत्रे एकवचनं जात्यभिप्रायम् । 'अ- पेक्ष्य' विषयीकृत्येत्यनेन सूत्रे पञ्चमी ल्यब्लोपनिमित्तेत्युक्तं भवति । एवेति तुशब्दार्थोक्तिः । न तु मनुष्यगृहस्थानिति तदभिप्रायः । यतो देवाः कृत्स्नगृहस्थाः अतो योग्यत्वात्कृत्स्नगृहस्थान् देवानपेक्ष्योपसं- हारः क्रियते, न तु मनुष्यगृहस्थान् । यत एवमतो न तद्वलात् गृह- स्थस्यैवोत्तमत्वमिति वाच्यमिति योजना । तथा च मनुष्य
[ अधि - ८. सू - ४८. ] दीपिका सहितम्. ९८१ गा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः' इति पौत्रायणश्रुतिः ॥ ४७ ॥ ( ३ ) सू — ॐ ॥ मौनवदितरेषामप्युपदेशात् ॥ ॐ ॥ ४८ ॥ न चाश्रमद्वयमेव देवानाम् । 'देवा एव ब्रह्मचारिणो धरागा इत्यादिविशेषणानि त्रीणि यतित्वस्यैवोपपादकान्तराणि । पु- नर्गार्हस्थ्ये साधनान्तरमाह — सर्वभोगा इति । पुनर्यतित्वे उपपादक- माह — सर्वज्ञा इति । यथा यतीनां गृहिष्वध्यासङ्गाभावादधिकज्ञानस- म्पादनं विद्यते एवं देवानां सार्वज्ञ्यं वर्तत इत्यतोऽपि तेषां यतित्वमि- ति भावः । पुनर्गार्हस्थ्ये साधकान्तरमाह — सर्वकर्तार इति । पुत्रकृ- त्वादिसर्वकर्तार इत्यर्थः । अत्र श्रुतौ कृत्स्ना यतय इति यतित्वस्याप्यु- क्तिर्देवाना
९८२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.] देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वे ह्येते कर्म कुर्वन्ति' इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेन अन्येषामप्युपदे शात् ॥ ४८ ॥ —— ९. अधिकरणम् ॥ (१) सू- ॐ॥ अनाविष्कुर्वन्नन्वयात् ॥ ॐ ॥ ४९ ॥ 'एतां विद्यामधीत्य ब्रह्मदर्शी वाव भवति । स एतां म देवा एव ब्रह्मचारिण इत्याद्युक्तार्थस्य 'यथा ह्येतेमुनयः' इत्यादिनोपपा दनं क्रियते। अत्र 'यथा ह्येते' देवाः 'मुनयो' यतयः प्रसिद्धाः 'एवं' तथा सर्वाश्रमा इत्येवंशब्दस्य व्यवधानेनान्वये सर्वाश्रमा इति दार्ष्टा न्तिकोक्तिः। एवंशब्दस्य समुच्चयार्थत्वे न केवलं यतयः, किन्तु सर्व वर्णास्सर्वाश्रमाश्चेति स्वस्थानेऽन्वयः। सर्ववर्णास्सर्वाश्रमा इत्युभयत्र हेतुमाह—सर्वे हीति । 'हि' यतः सर्ववर्णाश्रमोचितं कर्म कुर्वन्ती त्यर्थः। मुनेर्भावः कर्म वा मौनमित्याशयेन मौनवदित्येतद्व्याचष्टे— यतित्वेति। कर्माप्युपलक्ष्यते। इतरेषामित्यस्य प्रतिपदं—यतित्वाद न्येषामिति। ब्रह्मचर्यादीनामित्यर्थः। 'उपदेशात्' उक्तत्वात् । अनेन देवानां 'मौनवदितरेषामप्युपदेशात्' मौनवद्यतित्ववदितरेषामप्या श्रमधर्माणां तेषु भावः सिद्धः, न त्वाश्रमद्वयकर्मित्वमेव तेषां, तथा च यदाऽऽश्रमद्वयकर्मित्वेनैव देवानां यतिभ्य उत्तमत्वं सिद्ध्यति तदा किमु वाच्यं सर्वाश्रमकर्मित्व इति सूत्रार्थ उक्तो भवति ॥ ८ ॥ ॥ इति कृत्स्नभावाधिकरणम् ॥ —— ९. अधिकरणम् ॥ (१) अत्राधिकरणे अपरोक्षज्ञानसङ्गतपरोक्षज्ञानस्यातिगोप्यत्व महिमा समर्थ्यते। सूत्रं पठति—अनाविष्कुर्वन्निति ॥ अत्र विषयोदा हरणपूर्वकमनाविष्कुर्वन्नित्यनेन सूचितं पूर्वपक्षं दर्शयति—एतामि ति। अत्रेत्थं योजना-यतः 'एताम्' इति माठरश्रुतौ विद्यादानं कर्तव्यं श्रूयते, तथा स्वाधिक्यानुसारेण फलप्रदं चोच्यते। अतो ज्ञानदात्रा स्वस्याधिकफलार्थं तदुपयोगितया 'बहूनां' शिष्याणां स्वीकारार्थं 'तत्' विद्यादानं 'आविष्कारेणैव' उच्चैः कार्यमिति। 'एतां' प्रकृ