पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ४. सू - २३. ] दीपिकासहितम्. ९४३ परस्य ब्रह्मणो ह्येव सर्वविध्यतिदूरता ॥ इति ब्रह्मतर्के ॥ २१ ॥ ( १५ ) सू—ॐ ॥ भावशब्दाच्च ॥ ॐ ॥ २२ ॥ यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविध्यतिदूरता ॥ इति च तुः श्रुतौ ॥ २२ ॥ ( १६ ) सू—ॐ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ॐ ॥ २३ ॥ 'केन स्याद्येन स्यात्' ( बृ. ५-५-१० ) इत्यादयः स्थिर विध्यभावेऽपि न सर्वविध्यतिदूरत्वमित्याशङ्कां परिहर्तुमुक्तार्थे स्मृतिं चाह—विधीनामिति ॥ सर्वविधीनामित्यर्थः । निषेधानामप्युपलक्षण म् । 'अन्ये' अज्ञानिनः । वस्तुतस्तु ब्रह्मेतरज्ञानिनः । अत एव तुश ब्दात्तेष्वपि विशेषोऽस्ति, वक्ष्यते च 'विशेषितत्वादिति' इति तत्त्वप्र दीपोक्तिः । ब्रह्मण इति ज्ञानिमात्रोपलक्षणम् । हेतुस्तु पूर्वोक्त एव । 'कृतौ' करणे । विधिविषयत्वमिति शेषः । 'हि' यस्मात् । ब्रह्मतर्के उक्तमिति शेषः । अस्य सर्वैत्यादिनाऽन्वयः ॥ ( १५ ) ननु ज्ञानिनां स्वेच्छाचरणविधेः स्फुटप्रमाणसिद्धत्वे भवेत् 'येन स्यात्' इति वाक्यं स्वेच्छाचरणविध्यर्थकं, विधेः स्फुटप्रमाण सिद्धत्वमेव कुत इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तत्सूचितश्रुतिमेवो दाहरति—भावेति ॥ अत्र विधिरित्यनुवर्तते । तथा च इच्छावाचिभा वशब्दघटितश्रुतेश्च ज्ञानिनां स्वेच्छाचरणविधिः सिद्ध इति सूत्रार्थः। यतः 'अपरे' ब्रह्मेतरज्ञानिनः वस्तुतस्तु मनुष्यज्ञानिनो 'यथाविधानं' नित्यनैमित्तिकविधिमनतिक्रम्य वर्तन्त इति शेषः । प्रजापतेः तदुपल क्षितज्ञानिनः वस्तुतस्तु विरिञ्चस्य देवानां च 'भावे' इच्छायां स्वे च्छाचरणविषये 'विधिः' येन स्यादित्यादिरूपोऽस्त्यतः परमस्य ब्रह्म णो हरेरेव सर्वविध्यतिदूरता ज्ञातव्या । मुक्तव्यावृत्त्यर्थ—अतीति । स र्वदैवेत्यर्थः । रमाऽपि हर्याज्ञाविधिविषयेति न तत्राप्यतिप्रसक्तिरिति भावः । श्रुतौ चेत्यन्वयः । ज्ञानिनां स्वेच्छाचरणविधिरुक्त इति शेषः। सूत्रे भाष्ये च न केवलं स्वेच्छाचरणविधिविषयत्वं सामान्यविध्यवि षयाणां ज्ञानिनां सर्वविध्यतिदूरपरवचनान्यथानुपपत्त्या, किन्तु श्रु तेश्चेति समुच्चये चशब्दः ॥ ( १६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—पारिप्लवार्था इ ति ॥ अत्र पूर्वपक्षांशे पारिप्लवार्था इत्यस्य विशेष्यं दर्शयति—केनेति।
९४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
त्वनिवृत्त्यर्था इति चेन्न, 'त्रेधा हि ज्ञानिनो ह वाव भवन्ति विधिनियता अनियताः स्वेच्छानियता इति । विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वे- च्छानियत इति' गोपवनश्रुतौ विशेषितत्वात् ॥ २३ ॥ ( १७ ) सू-ॐ ॥ तथा चैकवाक्योपबन्धात् ॥ ॐ ॥ २४ ॥
इत्यादयो व्यपदेशा इति शेषः । पारिप्लवार्था इत्यस्य प्लु गतावित्युक्तेः परिप्लवोऽव्यवस्था तत्सम्बन्धिनः पारिप्लवाः अव्यवस्थिताः ते च तेऽ र्था इति विग्रहमभिप्रेत्य तत्पदं व्याख्याति-स्थिरत्वेति। स्थिरत्वस्य निवृत्तिरभावोऽस्थिरत्वं तदेषां ते स्थिरत्वनिवृत्तयः अस्थिरा इति या वत् । तेऽर्था येषां ते तथोक्ताः चञ्चलार्थका इत्यर्थः । अर्थचाञ्चल्यं च बुद्धिरूपमेवेति ध्येयम् । आदिपदेन 'कामचाराः' इत्यादेर्ग्रहणम् । अयमाशयः-' स ब्राह्मणः' इति वाक्यं तावत्सर्वज्ञानिसाधारणमतो मनुष्यादिषु सर्वेषु स्तुतये भवतीति तत्त्वप्रदीपोक्तेः स्तुतिपक्षस्य ज्ञा- निसाधारण्यानाविरुद्धत्वेऽपि नियमेन सर्वधर्माचरणानुष्ठेयानां मध्ये कामचारानुज्ञानस्वेच्छाचरणरूपप्रकारत्रयस्य एकधर्म्यगतत्वेन वि- रुद्धत्वात्तद्व्यपदेशानामपि विरुद्धत्वम् । एवं च यदा विरुद्धधर्मप्रति- पादकानेकवाक्यानामेव न यथार्थबोधकत्वं तदा सुतरामेकस्य 'येन स्यात्' इति वाक्यस्य तदभावो वस्तुनि विकल्पाद्योगादिति । सूत्रे प- रिहारांशं व्याचष्टे-नेति । उक्तं नेत्यर्थः । कुतो नेत्यतो-विशेषितत्वा- दित्युकम् । तस्य ज्ञानिनां मनुष्यदेवचतुर्मुखभेदेनानेकप्रकारत्वादि- त्यर्थमुपेत्य तस्यासिद्धिपरिहाराय श्रुतिपरतयाऽपि तमंशं व्याचष्टे- त्रेधा हीति । विशेषितत्वादिति । विशेषितत्वोक्तेरित्यर्थः । नासिद्धि- रिति वाक्यशेषः । श्रुतौ 'हिः' प्रसिद्धौ । वावेत्यवधारणे । त्रैविध्यमेव दर्शयति-विधिनियता इति । विधिबन्धवर्जितत्वेन कामत एव निय- मेन विहिताचरणवन्त इत्यर्थः । 'अनियताः' अनुष्ठेयानां मध्ये काम- चारानुज्ञावन्तः 'स्वेच्छानियताः' स्वेच्छाचरणविधिनियता इत्यर्थः । इति त्रेधेत्यन्वयः । त्रीन् क्रमेण निर्दिशति-विधीति ॥ ( १७) ननु ज्ञानिनामेकप्रकारत्वोक्त्या कथं विरोधपरिहारो जात इत्याशङ्कापरिहाराय सूत्रम्-तथा चेति ॥ अत्रैकवाक्येति भावप्रधा- नो निर्देशः । समग्रसूत्रस्य चावृत्त्तिरित्याशयेन सूत्रं व्याचष्टे--एवं
[ अधि - ४. सू - २५. ] दीपिकासहितम्. ९४५ एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च स- म्बन्धो भवति ॥ २४ ॥ ( १८ ) सू--ॐ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ॐ ॥ २५ ॥ सतीति । तथा चेत्यस्य व्याख्यानमेतत् । एतच्चावर्तते । सम्बन्धो भ- वतीति चावर्तते । वृत्तिर्वर्तनं चरणम् । एकवाक्यतयेति शेषः । तथा चैवं सति ज्ञानिनां त्रैविध्य सिद्धे सति विधिवाक्यानां 'प्रातरुत्थाय' इत्यादिसर्वसदाचारविधिवाक्यानां 'यस्त्वात्मरतिः' इति स्वेच्छावृ- त्त्यनुज्ञावाक्यानां तथा 'यथाविधानम्' इति स्वेच्छावृत्तिविधिवा- क्यानां चैकवाक्यतया 'सम्बन्धः' अविरोधो भवति । एवं सति 'के- न स्यात्' इति वाक्यस्यापि तदनुसारेणार्थत्रयेऽप्येकवाक्यतया स- म्बन्धो भवतीति योजना । अनेन- ' तथा चैवं सति' ज्ञानिनां त्रैवि- ध्ये सिद्धे सति 'एकवाक्योपबन्धात्' विधिवाक्यानां स्वेच्छावृत्ति- वाक्यानां चैकवाक्यत्वेन ज्ञानिभेदमाश्रित्याविरोघे सति 'केन स्यात्' इति वाक्यस्यापि तदनुसारेणार्थत्रयेऽप्येकवाक्यतया 'उपबन्धात्' उपप- न्नत्वात् न 'केन स्यात्' इत्यादिव्यपदेशाः पारिप्लवार्था इति सूत्रार्थ उक्तो भवति । अनेन जैमिनिमतं मानुषज्ञानिविषयम् । द्वितीयं देव- ताविषयम् । तृतीयं हिरण्यगर्भविषयम् । स्तुतिपक्षस्तु समान इत्यु- क्तं भवति । ननु न देवाः सामान्यविधिविषयाः । नापि चतुर्मुखव- त्स्वेच्छाचारविधिविषयाः, उदाहृतवचनात् । एवं च स्तुतिपक्षस्य ज्ञानिमात्रसाधारणत्वे देवानां किञ्चिद्विधिविषयाणां परमात्मवत्सर्ववि- ध्यतिक्रमेण स्तुतिविषयत्वं स्यात् । ततश्च परमात्मन एव तदित्युक्त- मयुक्तमिति चेन्न । देवानां चतुर्मुखवत्सर्वात्मना स्वेच्छाचारविधिवि- षयत्वाभावेऽपि प्रायः स्वेच्छाचरणविधिसद्भावात् । न चात्र माना- भावः । स्वेच्छानुवृत्त्यैव भवेद्ब्रह्मणः प्रायशस्तथा । देवानामपि सर्वेषां विशेषादुत्तरोत्तरम् ॥ इति वचनात् । किञ्च विध्यभावेऽपि देवानामन्ज्ञाविषयत्वाभ्युपगमे न स्तुतिमात्रविषयत्वाभावान्नेश्वरसाम्यमिति ज्ञातव्यम् ॥ ( १८ ) एवं ज्ञानिनः 'केन स्यात्' इति श्रुतिबलेन सदसत्प्रवृत्त्यो र्योऽविशेषः शङ्कितः स श्रुतेरर्थान्तरोक्त्या 'परामर्शम्' इत्यादिना परि- ११९
९४६ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.] अत एव ज्ञानस्य मोक्षदाने नाग्निहोत्राद्यपेक्षा । ( १९) ब्रह्मतर्के च— येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः । शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥ स्वेच्छानुवृत्त्यैव भवेद्ब्रह्मणः प्रायशस्तथा । हृतः । तत्र यदुक्तं ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषे ज्ञानस्यासत्प्रवृत्तिकु- ण्ठितशक्तेर्न मोक्षसाधनत्वमिति, तत् 'कामकारेण चैके' इत्यादिना परिहृतम् । यच्चाभिहितं मोक्षसाधनत्वे ज्ञानस्य सत्प्रवृत्तिसापेक्षत्वं स्यादिति तत्परिहाराय सूत्रं पठित्वा व्याचष्टे—अत एवेति ॥ 'कमा- चाराः' इति श्रुतौ कामचाराणामपि मोक्षस्योक्तत्वादेवेत्यर्थः । न तत्र हेत्वन्तरं वक्तव्यमित्येवकाराभिप्रायः । सूत्रे अत इत्यावृत्तपदं व्याख्या- ति—ज्ञानस्य मोक्षदान इति । मोक्षदानकर्मणीत्यर्थः । मोक्षसाधन इ- त्यनुक्त्वा मोक्षदान इत्युक्त्या अज्ञानां ज्ञानदो विष्णुः ज्ञानिनां मोक्षदश्च सः । विष्णुर्हि दाता मोक्षस्य मोक्षदस्तु जनार्दनः ॥ इत्यादिवचनाद् ज्ञातो भगवानेव मोक्षदाता ज्ञानदाता च । ज्ञाने तु उ- पचरितं दातृत्वमिति सूचितं भवति । नाग्निहोत्राद्यपेक्षेत्यनेन अग्नेरि- न्धनं समन्त्रकं सन्दीपनं यस्मिन् कर्मणि तदग्निहोत्रं तथोक्तम् । आ- दिपदेन स्वाश्रमवर्णधर्माः ग्राह्याः, तदपेक्षाभाव इत्येव अग्नीन्धनाद्य- नपेक्षेति पदं नञ्व्यत्यासेन व्याख्यातं भवति । सूत्रे चोऽप्यर्थः। ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावेऽपीति स्फुटत्वान्न व्याख्यातः । द्विती- यचोद्यपरिहारस्याद्यचोद्यपरिहारेण समुच्चये चशब्द इति केचित् ॥ ( १९) ननु यदि सत्कर्मणा न मोक्षो निषिद्धकर्मणा न तत्प्रतिबन्धः कथं तर्हि ताभ्यां ज्ञानिनो विशेष इत्यतश्चशब्दसूचितस्मृतिमाह—ब्र- ह्मतर्के चेति ॥ न केवलं सूत्र इति चार्थः । तेषामित्यनन्तरं शुभाशुभ- कर्मकरणयोरपीति शेषः । अनेन सर्वसाधारणस्तुतिपक्षः सङ्गृहीतः । तर्हि शुभाशुभाभ्यां को विशेष इति तत्राह—शुभेति । 'आधिक्यं' मोक्षे मनुष्याणामानन्दवृद्धिः । 'विपरीतैः' अशुभैः 'विपर्ययो' ह्रा- सो भवेत् । भवेदित्यत्राधिक्यमित्यनुषज्यते । मुक्तावपेक्षितसर्वाधि- क्यमित्यर्थः । एवकारेण न तदर्थं श्रुतिविहिताग्निहोत्राद्यपेक्षा नापि
[ अधि - ४. - सू - २६. ] दीपिकासहितम्. ९४७ देवानांमपि सर्वेषां विशेषादुत्तरोत्तरम् ॥ इति ॥ २५ ॥ ( २० ) सू-- ॐ ॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ॐ ॥ २६ ॥ सर्वधर्मापेक्षा च ज्ञानस्योत्पत्तौ 'विविदिषन्ति यज्ञेन लोकदृष्ट्या निषिद्धपुत्रिकाकामत्यागाद्यपेक्षाऽस्तीत्युच्यते । सर्वेषां ब्रह्मे तरदेवानांमपि उत्तरोत्तरं विशेषादाधिक्येन प्रायशः स्वेच्छानुवृत्त्यैव मुक्तौ क्लृप्तसुखाधिक्यं भवेत् न तदर्थं प्रायः शुभाशुभकरणत्यागापे क्षाऽस्तीत्यर्थः । इति ब्रह्मतर्के इत्यन्वयः । उक्तत्वादिति शेषः । अस्य नेत्यनेनान्वयः ॥ ( २० ) नन्वस्तु ज्ञानिनः सत्प्रवृत्त्या विशेषः । स च मोक्षप्राप्तिरूप एव, नाधिक्यरूपः । न चैवं ज्ञानिनां सुकृतौ कृतावकृतौ च मोक्षश्रुति विरोधः । तत्प्रवृत्तेः मोक्षहेतुत्वेऽप्यसत्प्रवृत्तेरप्रतिबन्धकत्वेन तदुपप त्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति - सर्वेति ॥ अत्र चोऽवधारणे । ज्ञानस्योत्पत्तावित्यध्याहृतेनान्वेतीत्याशयेन सर्वापेक्षेत्यंशं व्याचष्टे— सर्वेति । उत्पत्तौ चेति सम्बन्धः । चशब्दोऽवधारणार्थः । तादर्थ्ये स प्तमी । ज्ञानस्येत्यावर्तते । न मोक्षदान इत्यादि पूर्वभाष्यमिहानुवर्तते । धर्मशब्देनाध्यापनशौर्यवार्ताशुश्रूषणादिरूपा वर्णधर्माः गुरुकुलवासा ग्निहोत्रपञ्चयज्ञतपउपास्त्यादिरूपा आश्रमधर्माः शमदमभक्त्यादिरू पाः सामान्यधर्माः श्राद्धादिरूपा नैमित्तिकधर्माश्च तत्त्वप्रदीपोक्ता गृ ह्यन्ते । तथा च ज्ञानस्य मोक्षदाने नाग्निहोत्रादिसत्प्रवृत्त्यपेक्षा । कु तो ? यतो ज्ञानस्य उत्पत्त्यर्थमेव सर्वधर्मेष्वपेक्ष न तत्फलसाधनत्वेऽ पीपि योजना । ज्ञानोत्पत्त्यर्थं कुतः सर्वापेक्षाऽवगम्यत इत्यतः प्रवृत्त स्य-यज्ञादिश्रुतेरित्यस्य यज्ञादीनां ज्ञानसाधनत्वश्रुतेरपीत्यर्थमभिप्रेत्य श्रुत्युदाहरणेन तमंशं व्याचष्टे-विविदिषन्तीति । बृहदारण्यकश्रुतिरि यम् । अत्र 'विविदिषन्ति' इत्यस्य पूर्वेणान्वयः । अत्र 'अनाश केन' अनशनेन । 'यज्ञेन दानेन तपसाऽनाशकेन ' इत्यस्य 'ए तमेव विदित्वा मुनिर्भवति' इत्युत्तरवाक्येनान्वयः । एतं भगवन्तमपरो क्षतो ज्ञात्वा मुनिनामको भवतीत्यर्थः । वस्तुतस्तु-विविदिषन्तीत्यार भ्य ग्रहणात् ये ब्राह्मणा विविदिषन्ति ते यज्ञादिना वर्तेरन्नित्यन्वयो ध्येयः । केचित्तु— 'तमेतं वेदानुवचनेन ब्राह्मणाः' इति पूर्वप्रकृता ब्रा ह्मणाः 'तं' पूर्वोक्तगुणवन्तं 'एतं' परमात्मानं वेदाध्ययनयज्ञादिना 'विविदिषन्ति' ज्ञातुमिच्छन्तीत्युक्तेः अश्वेन जिगमिषन्तीत्यादाविव
९४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] दानेन तपसाऽनाशकेन' ( बृ. ६-४-२२. ) इति श्रुतेः । ( २१ ) यथा गतिनिष्पत्त्यर्थमश्वादयोऽपेक्ष्यन्ते न निष्पन्नगते ग्रामादिप्राप्तौ ॥ २६ ॥ ( २२ ) सू-ॐ ॥ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तद् ङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ ॐ ॥ २७ ॥ यद्यपि ज्ञानेनैव मोक्षो नियतः । तथाऽपि ज्ञानी शम दमाद्युपेतः स्यात् । ( २३ ) 'आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो यज्ञादेः धात्वर्थज्ञानसाधनतैवोत्का भवतीति प्रकृतसङ्गतिरित्याहुः ॥ ( २१ ) ननु सर्वसत्कर्मणो ज्ञानार्थे अपेक्षितस्यापि मोक्षार्थमपेक्षित त्वं किं न स्यादित्याशङ्कोत्तरत्वेन अश्ववदित्यंशं अश्वस्य गतावपेक्षा यथेत्यर्थकतयोपलक्षणाभिप्रायेण व्याचष्टे—यथेति ॥ गतिः प्रयाणम् । आदिपदाद्गजानादयो गृह्यन्ते । निष्पन्नगतेरिति बहुव्रीहिः । निवृत्त गतेः पुरुषस्येत्यर्थः । ग्रामादीति । प्राप्तिस्संयोगः। आदिपदात्पत्तनादि ग्रहणम् । गतिसाध्यफल इति शेषः । अपेक्ष्यन्त इत्यनुषङ्गः ॥ ( २२ ) ननु यदि सदसत्प्रवृत्तिभ्यां मोक्षतद्भावयोरभावः, तर्हि ज्ञानिनस्ताभ्यां विशेषो नास्तीति न तेन सत्कर्म कार्यमसत्कर्म त्याज्य म् । न च ताभ्यां मोक्षे आधिक्यादि भवतीत्युक्तमिति वाच्यम् । 'ज्ञा नादेव सर्वे कामाः' ( कौण्ठरव्य. ) इति श्रुतेर्ज्ञानादेव तदुपपत्तेरित्या शङ्कां परिहरत्सूत्रमुपन्यस्यति—शमेति ॥ अत्र पूर्ववाद्यनुवादपूर्व तथापीत्यंशं व्याचष्टे—यद्यपीति । ज्ञानिन इति शेषः । शमेति साध्य भागं व्याचष्टे—ज्ञानीति । 'शमदमाद्युपेतः' शमादिसत्प्रवृत्तियुक्तो निषिद्धहीनश्च स्यादित्यर्थः । यद्यपि शमाद्युपेतः स्यादिति सुवचम् । तथाऽपि श्रुतौ पृथङ्निर्देशात्सर्वत्र साहचर्याच्चोभयोपादानम् ॥ ( २३ ) कुत इत्यतस्तद्धेतुत्वेन तद्विधेरित्यंशं व्याचष्टे—आचार्यादि ति ॥ 'आचार्यात्' तदुपदेशात् 'विद्यां' परोक्षज्ञानं प्राप्य 'एतं' हृ द्गतं परमात्मानं 'अभिपश्य' दृष्ट्वा 'शान्तो' भगवन्निष्ठावान् 'दान्तः' इन्द्रियनिग्रहवान् । 'शान्तिस्तु भगवन्निष्ठा दमो ह्यासुविनिग्रहः' इत्य भिधानात् । 'अनुकूलः' सतामिति शेषः । 'परिचरेत्' सेवेत । प रिचरेदिति पुनरुक्तिस्तात्पर्यार्था । आचार्यसमं स्वस्माच्छ्रेयांसमाचा र्ये बहुमानेन परिचरेदिति वा । 'ये के चास्मच्छ्रेयांसस्तान्युपच
[ अधि - ४. सू - २७. ] दीपिका सहितम्. १५९ भवेद्धान्तो भवेदनुकूलो भवेदाचार्यं परिचरेत परि चरेदाचार्यम्' इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः । ( २४ ) 'ब्राह्मीं वाव त उपनिषदमब्रूमेति । तस्यै तपो दमः क र्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनं यो वा ए रस्व' (पौष्यायण.) इति श्रुतेरिति तत्त्वप्रदीपदिशा श्रुत्यर्थः । तन्त्रा भिप्रायेणोक्तस्य तदित्यस्यार्थो—ज्ञानिनोऽपीति । नियतमोक्षस्यापी त्यपेरर्थः । अपरोक्षज्ञानिन एवेत्यवधारणे वाऽपिशब्दः । तेन श्रुतेः परोक्षज्ञानिपरत्वशङ्का निरस्ता । तद्विधेरिति । शमादिविधानादित्य र्थः । उपलक्षणमेतत् । 'न हन्तव्यः' ( ) इत्यादिनेषेधाच्चे त्यपि द्रष्टव्यम् । अनेन तस्यां श्रुतौ तस्य ज्ञानिनस्तस्य शमादेर्विधा नादिति सूत्रखण्डो व्याख्यातः ॥ ( २४ ) ननु ज्ञानादेव संसारदुःखनिवृत्तिवदानन्दातिशयस्यापि सिद्धेर्व्यर्थः शमादिविधिरित्यतः प्रवृत्तं तदङ्गतयेत्याद्यंशमसिद्धिपरि हाराय श्रुत्युदाहरणपूर्वं व्याचष्टे—ब्राह्मीमिति ॥ प्रथमेतिशब्दः श्रुति स्थः । एवं द्वितीयोऽपि । तृतीयो भाष्यकारीयः । इतीत्यनन्तरं श्रुत्याऽ वगतयेति शेषः । ज्ञानाङ्गतयेति । ज्ञानप्रतिष्ठापकत्वेनेत्यर्थः । निमि त्तभूतयेति शेषः । तेषां ज्ञानोत्तरकालशमादीनां ज्ञानप्रतिष्ठापक त्वं नाम ज्ञानवृद्ध्यर्थत्वं प्रतिदिनं तत्सम्पादकत्वमिति यावत् । यथो क्तं तत्त्वप्रदीपे—शमादीनां ज्ञानवृद्ध्यर्थमवश्यानुष्ठेयत्वादिति । ज्ञानफ लपूर्णार्थमित्यर्थः । अनुष्ठेयत्वादित्यस्य न वैयर्थ्यमित्यध्याहृतसाध्ये नान्त्वयः । 'उपनिषदं भो ब्रूहि' इत्युमापतिना ब्रह्माणं प्रति भो भगव न्निति सम्बोध्य पृष्टे सति तत्र किमुपनिषत्प्रतिपाद्यं पृच्छसि? किं वो पनिषदुत्पन्नविद्याया अवस्थानकारणं ? किं वा विद्याया उत्पत्तिकार णमिति हृदि विकल्प्याद्यस्योत्तरमाह—ब्राह्मीमिति । 'ते' तुभ्यं 'ब्रा ह्मीं' परब्रह्मविषयां 'वाव' असंशयं 'उपनिषदं' तत्स्वरूपमब्रूमेति ब्रह्मोवाचेत्यन्वयः । द्वितीयस्योत्तरमाह—तस्या इति । 'तस्यै' तस्या विद्यायाः 'तपः' कृच्छ्रचान्द्रायणादि शास्त्रप्रवचनं वा 'दमः' इन्द्रि यनिग्रहः 'कर्म' वर्णाश्रमोचितं 'प्रतिष्ठा' तद्धेतुः । तपआदिमत्सु सर्वविद्या प्रतितिष्ठतीत्यर्थः । तपआदीनां विद्याप्रतिष्ठापकत्वं विद्याऽ भिवृद्ध्यर्थत्वम् । तृतीयस्योत्तरमाह—वेदा इति । 'वेदाः' ऋगादयः तदनुकूलग्रन्थाश्च शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमि
९५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] तामुपनिषदमेवं वेद’ (केन.४-७..९.) इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् । (२५) यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा । तस्य शान्त्यादयोऽङ्गानि तस्मात्तेषामनुष्ठितिः । अवश्यकरणीया स्यादन्यथाऽल्पफलं भवेत् ॥ इत्याशङ्क्ये । तुशब्दः पूर्णफलार्थत्वं सूचयति ॥२७॥ (२६) सू- ॐ ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शना त् ॥ ॐ ॥ २८ ॥ ति षड्वेदाङ्गानि 'सत्यं' मीमांसा 'निर्णीयते यतः सत्यमिदं सत्यमि ति स्फुटम्' इति वचनात् । 'आयतनं' उत्पत्तिकारणं तस्या इत्यनु षङ्गः । एतदुपनिषद्ज्ञानिनः फलमाह- य इति । 'यः' अधिकारी 'एतां' उपनिषदं वेद सः 'अनन्ते' अपरिच्छिन्ने 'स्वर्गे' स्वरूपसु खज्ञानात्मके 'लोके' प्रकाशमाने 'ज्येये' ज्येष्ठे परे ब्रह्मणि प्रतिति ष्ठतीति तलवकारश्रुत्यर्थः । यद्यप्यत्र वेदादिकारणकत्वोक्त्या प रोक्षज्ञानमेव प्रतिपाद्यतया भाति । तथाऽपि 'यो वा वेद' इति फलवाक्यपर्यालोचनया परोक्षज्ञानद्वाराऽपरोक्षज्ञानपर्यवसायित्वम स्य वाक्यस्य वक्तव्यमिति नासङ्गतिः । अत एव भाष्ये फलवाक्य पर्यन्तोदाहरणम् । न चास्य सूत्रस्य 'तुल्यं तु दर्शनं, चीर्णे कृते वा' इत्युक्तिविरोधः शङ्कः । ज्ञानस्य मोक्षसाधनत्वेऽविशेषस्य तत्रोक्त त्वादिह च ज्ञानवृद्ध्यर्थत्वोक्तेर्विरोधाभावात् ॥ (२५) ननु ज्ञानादेव मोक्षसिद्धौ किं प्रतिष्ठयेत्यत आह-यस्येति॥ 'ज्ञानं' ब्रह्मापरोक्षज्ञानं 'तस्य' ज्ञानस्य 'शान्त्यादयः' शमादयः 'अ ङ्गानि' ज्ञानवृद्ध्यर्थानि ज्ञानेन सम्पूर्णमोक्षसाधने उपयुक्तानि भवन्ती त्यर्थः । 'तस्मात्' अङ्गत्वात् 'अन्यथा' शान्त्याद्यननुष्ठानेऽसत्कर्मा नुष्ठाने चेत्यर्थः । 'अल्पफलं' प्राप्तव्यहासो यावदनभिव्यक्तिश्चेत्यर्थः। नन्वेतत् श्रुत्युक्तं प्रमेयं सूत्रे किं नोक्तमित्यत आह-तुशब्द इति । श मादेरिति शेषः । 'पूर्णफलार्थत्वं' फलपूर्तिप्रयोजकत्वम् । उपलक्षण मेतत् । असत्प्रवृत्तेरल्पफलत्वं च सूचयतीत्यपि द्रष्टव्यम् ॥ (२६) ननु यदि सद्सत्प्रवृत्तिभ्यामस्ति ज्ञानिनो विशेषः, तर्हि 'क थमेवंविन्निखिलं भक्षयीत' इति निषिद्धान्नभोजनेऽपि हासाभावोक्तिः सम्भवति । तस्मान्न विशेषस्स्यादिति पूर्वोक्तस्य तर्कपराहतिमाश
[ अधि - ४, सू - २८. ] दीपिकासहितम्. ९५१ ‘यदि ह वा अप्येवंविन्निखिलं भक्षयत्येवमेव स भ वति’ ( ) इति सर्वान्नानुमतिः प्राणात्यय विषया । ‘न वा अजीविष्यमिमानखादिष्यिति होवाच कामो म उदपानम्’ (छा. १-१०-४.) इति दर्शनात् ॥ २८॥ इत्थं परिहरत्सूत्रं पठति—सर्वेति ॥ अत्र चशब्दः शङ्काव्यावर्तकः । त था च ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषाभ्युपगमे न ‘एवंवित्’ इति श्रु तिबाधो वाच्य इति प्रतिज्ञासिद्धौ तत्र हेतुत्वेन श्रुतेरन्यविषयत्वोक्ति परं—सर्वान्नानुमतिश्च प्राणात्यय इत्यंशं व्याचष्टे—यदीति । इती ति । एवंरूपा शाखान्तरस्था ‘सर्वान्नानुमतिः’ निषिद्धानिषिद्धसर्वभ क्षणानुज्ञाश्रुतिरित्यर्थः । प्राणात्ययविषयेति । यदि प्राणात्ययकाले ज्ञा नी निषिद्धं भुञ्जीत, तर्हि न तेन तस्य विशेष इत्येवं प्राणहानिप्रसक्ति कालविषयेत्यर्थः । विषयेत्यनेन सप्तम्यर्थ उक्तः । एवमुक्तप्रकारेण ब्र ह्मविद्यदि ‘निखिलं’ निषिद्धानिषिद्धरूपं सर्वं भक्षयीत । तदाऽपि सः ‘एवमेव’ मुक्त एव भवति, न तु हसत इति श्रुत्यर्थः । साधारणश्रुतेः कुतः प्राणात्ययविषयकत्वकल्पनेत्यतः तद्दर्शनादित्यंशं व्याचष्टे—न वेति । इति तद्दर्शनादिति । इत्येवंरूपाज्जीवनोपयुक्तनिषिद्धभक्षणानु मतिततोऽधिकरागप्राप्तानुपान प्रत्याख्यानरूपलिङ्गप्रतिपादकमुनिवच नादित्यर्थः । अतो ह्रासाभावोक्तेरन्यथोपपन्नत्वात् न तद्बलाज्ज्ञानिनः सदसत्प्रवृत्त्योरविशेषः शङ्कनीय इति ज्ञानिनाऽपि निषिद्धं न कार्यमे वेति भावः । अनेन—यतो ‘यदि ह वा’ इति सर्वान्नानुमतिश्रुतिः प्राणात्ययकालविषया अतो ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषाभ्युपगमे नैतच्छ्रुतिबाधः । कुतः श्रुतेरन्यकालविषयत्वकल्पनं ? ‘तद्दर्शनात्’ तत्र श्रुतेः प्राणात्ययविषयत्वे तस्य लिङ्गस्य दर्शनात् ‘न वा’ इति त ल्लिङ्गप्रतिपादकश्रुतेरिति सूत्रार्थ उक्तो भवति । सूत्रे तल्लिङ्गादित्येव वक्तव्ये दर्शनपर्यन्तधावनमसिद्धिपरिहारार्थमिति ध्येयम् । ‘न वा अ जीविष्यम्’ इति छान्दोग्यश्रुतेरयमर्थः—चक्रायणस्यापत्यं चाक्रायणः उषस्तिनामा मुनिरतिवृष्ट्या दौर्भिक्षे सति स्वजायया सह कस्यचि त् ‘इभ्यस्य’ धनिकस्य इभपालकस्य वा ग्रामे उवास । स च तत्र तत्रान्नार्थी अटन् ‘कुल्माषान्’ मुद्रान् कुत्सितवनमाषान् वा खाद न्तामिभ्यं यदृच्छयोपलब्ध्य ययाचे । अथेभ्योऽस्मै कुल्माषान् दत्त्वा ‘अ नुपानं’ उच्छिष्टजलपानं कुर्विति मुनिं प्रार्थयामास । एवमिभ्येन प्रार्थि
९५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] (२७) सू—ॐ ॥ अबाधाच्च ॥ ॐ ॥ २९ ॥ अन्यायाचरणाभावे न हि ज्ञानस्य बाधनम् । अतो विद्वानपि न्याय्ये वर्तेतोत्कर्षसिद्धये ॥ इति ब्रह्म तर्के ॥ २९ ॥ (२८) सू—ॐ ॥ अपि स्मर्यते ॥ ॐ ॥ ३० ॥ अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः । तो मुनिरेतदुदकपाने उच्छिष्टं मया पीतं स्यादित्यनूवाच । तत्रेभ्यो बभाषे एतेऽपि कुल्माषा उच्छिष्टाः ‘न स्विद्’ न किमिति । तत्र मुनि रुवाच । किमिति ? यदि ‘इमान्’ कुल्माषान् ‘नाखादं’ नाभक्षयं तर्हि ‘न वाऽजीविष्यं’ जीविष्यामि अतः प्राणत्यये दोषाभावात्ते म या भक्षिताः उदपानं तु ‘मे कामो’ ममेच्छाधीनं इदानीं वर्तते । वृथो च्छिष्टस्वीकारे दोषप्राप्तेस्तन्न पिबामीति । श्रुतावखादन्निति नञ्पूर्वं शत्रन्तः, अखादन्नाजीविष्यामीत्यन्वयः । लिङयं टीकायां लङ् लि ङ् चेति ज्ञेयम् ॥ (२७) ननु ज्ञानिनां निषिद्धाकरणे बाधकसद्भावात् न सदसत्प्रवृ त्तिभ्यां विशेषो युक्त इत्याशङ्कां परिहरत्सूत्रं पठति—अबाधाच्चेति ॥ न केवलं निषिद्धकरणे साधकप्रमाणाभावात् ज्ञानिनः सदसत्प्रवृत्त्यो रविशेषो न युक्तः, किन्तु निषिद्धाकरणे बाधकाभावाच्चेति सूत्रवृत्ति मभिप्रेत्याबाधादिति हेतोरसिद्धिपरिहाराय सूत्रं स्मृत्यैव व्याचष्टे— अन्यायेति । ‘अन्याय्याचरणं’ निषिद्धानुष्ठानं ‘हि’ यतः । ‘विद्वा न्’ ज्ञानी न केवलमविद्वानित्यपिशब्दार्थः । निषिद्धं त्यजेदिति भिन्न क्रमेण समुच्चये वाऽपिशब्दः । ‘न्याय्यं’ योग्यं सत्कर्म ‘वर्तेत’ अनु वर्तेत । उत्कर्षो मोक्षानन्दातिशयादिरूपः । ब्रह्मतर्के उक्तादिति शे षः । अस्याबाधादित्यनेनान्वयः । निषिद्धकरणे प्रमाणसत्त्वात् ज्ञानि ना तत्कर्तव्यमिति पक्षान्तरं त्वसिद्धत्वादयुक्तमित्युक्तं—‘अचोदना’ इत्यत्र ॥ (२८) ननु ज्ञानिनो निषिद्धकरणनिषेधकप्रमाणाभावान्न सदसत्प्र वृत्त्योर्विशेषो युक्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा सूत्राभिप्रेतस्मृति मुदाहरति—अपीति ॥ वक्ष्यमाणश्रुतिसमुच्चयेऽपिशब्दः । हरिवंशेष्वि ति । स्मर्यतेऽपीत्यपिशब्दान्वयः । यतो निषिद्धाकरणमिति शेषः । अ स्यातो नाविशेष इति प्रकृतसाध्यपदेनान्वयः । त्रयो लोकास्त्रैलोक्यं
[ अधि - ४. सू - ३० ] दीपिकासहितम्. ९५३ एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत् ॥ इति हरिवंशेषु ॥ ३० ॥ ( २९ ) सू- ॐ ॥ शब्दश्चातोऽकामचारे ॥ ॐ ॥ ३१ ॥ 'स य एतदेवं विदेवं मन्वान एवं पश्यन्न कामचारि तं चरेन्न कामे भक्षयीत न काममनुवर्तेत' इति कौ षिण्ड्यश्रुतौ । ( ३० ) अत इत्यल्पफलत्वं सूचयति । न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया । इति पाद्मे ॥ ३१ ॥ [तस्य पापादुद्धरणक्षमः । किमु अनेतादृश इति कैमुत्यमपिशब्दार्थः । श्रुत्युक्तं 'श्रौतं' स्मृत्युक्तं 'स्मार्तं' 'आचारं' तदङ्गकं न विसर्जये दित्यस्य सत्कर्मकरणं निषिद्धाकरणं च न परित्यजेदित्यर्थः ॥ ( २९ ) न केवलं स्मृतिरेव निषेधिका, अपि तु श्रुतिरपीत्याह-सू त्रकृत् - शब्द इत्यादिना ॥ यतोऽकामचारे न केवलं स्मृतिः, अपि तु 'शब्दश्च' श्रुतिरप्यस्ति अतः । एवमतश्च कामचारस्याल्पफलत्वाच्च न ज्ञानिनः कामचारो युक्त इत्यतोऽल्पफलत्वाद्योऽयमकामचारस्तत्र श ब्दश्चास्तीति वा सूत्रवृत्तिमभिप्रेत्य तत्र शब्दपदोक्तां श्रुतिमुदाहरति- स इति । 'यः' अधिकारी 'एतत्' ब्रह्म 'एवं' उक्तगुणवत्त्वेन 'वि त्' श्रवणेन विषयीकुर्वन् 'मन्वानः' तद्विषयकमननध्याने कुर्वन्नथ प श्यन्नास्ते सः 'कामचरितं' कामगमनं 'न चरेत्' न कुर्यात् । यद्वा- कामचरितं यथा भवति तथा 'न चरेत्' न गच्छेदित्यर्थः । 'कामं' यथेच्छं न भक्षयीत 'कामं' निषिद्धरागं सर्वं काम्यं वा नानुसरेदि ति श्रुत्यर्थः । श्रुतावित्यस्य अकामचार उक्त इति विपरिणताध्याहृतप दाभ्यामन्वयः ॥ ( ३० ) ननु निषिद्धकरणे बाधकाभावात्क्रियत इत्यतस्तदुत्तरत्वे नात इत्यंशं व्याख्याति-अत इति ॥ अतश्शब्देन निषिद्धकरणसमाना धिकरणज्ञानस्य 'अल्पफलत्वं' तद्धेतुत्वं, यद्वा-निषिद्धकरणस्य 'अ ल्पफलत्वं' फलह्राससाधनत्वं 'सूचयति' परामर्श्यति सूत्रकृदित्य र्थः । पूर्वं 'तथापि तु' इति तुशब्देन सत्प्रवृत्तेः पूर्णफलकत्वसूचनेन असत्प्रवृत्तेरल्पफलत्वस्यार्थात् आगतत्वात्तस्य इहातश्शब्देन पराम र्शो युक्त इति भावः । निषिद्धस्याल्पफलहेतुत्वमेव कुत इत्यत आह- १२०
९५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] ( ३१ ) सू—ॐ ॥ विहितत्वाच्चाश्रमकर्माऽपि ॥ ॐ ॥ ३२ ॥ न केवलं निषिद्धाकरणेन पूर्यते । कर्तव्यं च वर्णाश्र मविहितं कर्म । ( ३२ ) पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन् । यदात्मनस्तु नियतमानन्दोत्कर्षमाप्नुयात् ॥ इति कौषारवशभ्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ ३२ ॥ ( ३३ ) सू—ॐ ॥ सहकारित्वेन च ॥ ॐ ॥ ३३ ॥ नेति । वर्ततेत्यावर्तते । तथा च यः ' पूर्णज्ञानफलेच्छया ' पूर्णं यत् ज्ञानफलं तदिच्छया वर्तेत, तदिच्छुः सन् निषिद्धानि कर्माणि नानु वर्तेतेत्यर्थः । पाद्म इति । वचन इति शेषः । अस्याल्पफलत्वमित्यादि नाऽन्वयः ॥ ( ३१ ) ननु निषिद्धाचरणे फलह्रासादिबाधक सद्भावादस्तु ज्ञानि नो निषिद्धं वर्ज्यम्, न तु सत्कर्मकरणमावश्यकम् । न चैवं पूर्णफला सिद्धिः । ह्रासकारणाभावे ज्ञानादेव तत्सिद्धेरित्याशङ्कां परिहरत्सूत्र मुपन्यस्यति—विहितत्वादिति ॥ अत्र चशब्दः साध्यांशे कर्तव्यमित्य ध्याहृतपदेनाऽप्यन्वेतीत्याशयेन तं निषिद्धाकरणसमुच्चयार्थकतया व्याचष्टे—नेति । ' पूर्यते ' कर्मेति शेषः । पूर्णफलयुक्तो भवति पुरु ष इति वा । साध्यांशं व्याचष्टे—वर्णेति । वर्णेष्ववाश्रमेषु च कर्तव्यत या विहितमित्यर्थः । वर्णेत्यपिशब्दार्थोक्तिः ॥ ( ३२ ) कुत इत्यतो विहितत्वादिति हेतुं व्याख्याति--पश्यन्निति ॥ ‘ इमं ’ हृदयादिगतं परमात्मानं पश्यन्नपि, न केवलमपश्यन्नित्यपेरर्थः । ‘ अविचारयन् ’ असंशयानः कर्म कुर्यात् । कर्म किमित्यत आह--य दिति । ‘ आत्मनः ’ कर्तृजीवस्य ‘ सुनियतं ’ वर्णाश्रमोचितम् । फल माह--आनन्देति । येनेति शेषः । यद्वा--‘ यत् ’ यस्मादात्मनः ‘ सु नियतं योग्यमानन्दोत्कर्षमाप्नुयादित्यर्थः । विहितत्वाच्चेति । न के वलमानन्दातिशयार्थत्वादिति चार्थः । वक्ष्यमाणसहकारित्वसमुच्च यार्थो वा । सूत्रेऽनुक्तो वर्णधर्मः आश्रमधर्मेण सह किमिति भाष्यत इत्यत आह—अपिशब्द इति ॥ ( ३३ ) ननु विहितत्वेऽपि न सत्कर्म ज्ञानिना कार्यं फलाभावात् ।
[ अधि - ४. सू - ३३. ] दीपिकासहितम्. ९५५ यथा राज्ञस्सहकार्यैव मन्त्री तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् । एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित् ॥ इति कमठश्रुतौ सहकारित्वोक्तेश्च । ( ३४ ) ज्ञानान्मोक्षो भवत्येव सर्वाकार्यकृतोऽपि तु । आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वातु वर्धते ॥ इति ब्र ह्याण्डे ॥ ( ३५ ) सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चितैव हि । न च सम्पूर्णफलार्थं तत्कर्तव्यमिति वाच्यम् । तस्य ह्रासकारणाभावे स्वत एवसिद्धेः अन्यथा ज्ञानकर्मसमुच्चयवादापातादित्याशङ्कां प रिहरत्सूत्रमुपन्यस्य व्याचष्टे—सहकारित्वेनेति ॥ सम्पूर्णफलसिद्धौ ज्ञानसहकारित्वेनोक्तेश्च वर्णाश्रमविहितं कर्म कर्तव्यमिति सूत्रार्थः । सूत्रे हेत्वसिद्धिपरिहारायोक्तेरिति शेषः कार्यः, चः साध्यसूचकोऽपि त्याशयेन श्रुत्युदाहरणपूर्वं सूत्रं व्याचष्टे—यथेति । यथा यद्यपि ‘क्षि तिपो’ राजा ‘तं’ मन्त्रिणमृते राज्यकार्यं ‘ऋच्छेत्’ प्राप्नोति । त थाऽपि राज्ञो मन्त्री सम्पूर्णकार्यसिद्धेः सहकार्यैव ‘एवं’ तथा यद्यपि ज्ञानं कर्म विनाऽपि मोक्षकार्यं साधयेदिति शेषः । तथाऽपि कर्म स म्पूर्णफलसाधने सहायभूतं फलाधिक्यहेतुत्वात् । नात्र कुतश्चित्कार णात् संशयः कार्य इत्यर्थः । सहकारीति । कर्मणः संपूर्णफलसिद्धौ ज्ञानसहकारित्वेनोक्तत्वाच्चेत्यर्थः । न केवलं विहितत्वादिति चार्थः । एतेन समुच्चयवादो निरस्तः, विनाऽपि कर्म ज्ञानमात्रेण मोक्षस्वरूप सिद्धेः ॥ ( ३४ ) ‘एवं ज्ञानं कर्म विनाऽपि’ इति श्रुत्युक्तार्थे स्मृतिं चाह—ज्ञा नादिति ॥ ब्रह्मदर्शनादित्यर्थः । अकार्यं निषिद्धं कर्म । सर्वाकार्यकृता दपीत्यपि व्याख्येयम् । ज्ञानिन इति शेषः । ‘अकार्यात्’ अनापदि नि षिद्धकरणात् । ‘शुभं’ स्वस्ववर्णाश्रमोचितं ज्ञानिमात्रसाधारणं श मादिकर्म च कृत्वा, स्थितस्येति शेषः । वर्धते आनन्दः शुभमिति वा । ब्रह्माण्डे सहकारित्वेनोक्तत्वादित्यन्वयः । एवं ब्रह्मतर्क इत्यस्याऽपि ॥ ( ३५ ) ननु यदि सम्पूर्णानन्दप्राप्तौ कर्म सहकृतं ज्ञानं साधनं, त
९५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] उपासया कर्मभिश्च भक्त्या चानन्दचित्रता ॥ इति बृहत्तन्त्रे ॥ ( ३६ ) धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः । स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः ॥ इति च पाद्मे ॥ ३३ ॥ र्हि समुच्चयवादापत्तिर्दुर्वारा । न च मोक्षस्वरूपमात्रं ज्ञानमात्रसाध्यं, न तत्र कर्माऽपि कारणमिति न समुच्चय इति वाच्यम् । सम्पूर्णानन्द- प्राप्तिमन्तरेण मोक्षस्वरूपस्य पृथग्भावादित्यत आह—सर्वेति ॥ स्वा- नुबन्धिसर्वदुःखनिवृत्तिरित्यर्थः । उपलक्षणमेतत् । बहुतरानन्दानुभ- वश्चेत्यपि द्रष्टव्यम् । तथा च सर्वदुःखनिवृत्तिरूपो मोक्षो ज्ञानैकसा- ध्य इति न दोष इति भावः । ‘उपासया’ ज्ञानोत्तरकृतब्रह्मोपास- नेन ‘कर्मभिः’ निवृत्तकर्मभिः । आनन्दचित्रतेति । आनन्दानुभववै- चित्र्यमित्यर्थः । उपलक्षणमेतत् । समग्रानन्दव्यक्तिश्चेत्यपि द्रष्टव्यम्। केचित्तु—आनन्दस्य बहुत्वार्द्धिचित्रता तारतम्यं क्रमेण आनन्दवृद्धि- रित्यर्थ इत्याहुः ॥ ( ३६ ) यदुक्तमसत्प्रवृत्त्या आनन्दह्रास इति, न तद्युक्तम् । चतुर्मु- खादीनां पुत्रिकाकामाद्यसत्प्रवृत्त्या ह्रासाभावादित्यत आह—धर्मेति॥ शुभकर्मस्वरूपाणां विचित्रत्वादित्यर्थः । धर्मवैचित्र्यं तु यो देवादीनां धर्मः स मनुष्याणामधर्मः । योऽन्येषामधर्मः स देवादीनां धर्म इत्या- दिरूपमिति ध्येयम् । ‘देवमनोगतः’ देवमनोवृत्त्या कर्तव्यतया विष- यीकृतः , इतरेषामभावात् । तेषामेवायं विशेषः कथमित्यत आह-- न हीति ॥ ‘हि’ यस्मात् ‘एते’ देवाः ‘लोकसम्मिताः’ इतरजनसदृ- शा नेत्यर्थः । पाद्मे इति । निश्शङ्कं विवक्षितार्थोऽभिहित इति शेषः । इति च ब्रह्माण्ड इत्यारभ्य स्थिताश्चशब्दाः परस्परसमुच्चयार्थाः । ‘अबाधाच्च’ इत्यादिसूत्राणां ‘अचोदना चापवदति हि, शमदमाद्यु- पेतः स्यात् तथाऽपि तु तद्विधेः, अत एव चाग्नीन्धनादि’ इत्यादि- वचनैः पौनरुक्त्यपरिहारस्तु ‘अबाधाच्च’ इत्यादिसूत्राण्युदाहृत्योक्तमे- वार्थे प्रमाणान्तरैः प्रचुरतरं प्रपञ्चयतीति तत्त्वप्रदीप एवाभिहितः ॥४॥ ॥ इति स्तुत्यधिकरणम् ॥
[अधि - ५. सू - ३४.] दीपिकासहितम्. १५७ ५. अधिकरणम् ॥ (१) सू—ॐ ॥ सर्वथाऽपि तु त एवोभयलिङ्गात् ॥ ॐ ॥ ३४ ॥ सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये । (२) 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽवि जिघत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः सोऽन्वेष्ट ५. अधिकरणम् ॥ (१) अत्राधिकरणे ब्रह्मज्ञानस्याधिकारिमात्राप्यत्वं वर्ण्यते । वेदानधिकारिणामवैष्णवानामपि वेदप्राप्तिदर्शनात् तद्वदनधिकारि भिरपि महाप्रयत्नेन ज्ञानमाप्तुं शक्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमु पन्यस्यति—सर्वथाऽपीति ॥ सूत्रे महाप्रयत्नमात्रमप्रयोजकमिति ज्ञाप नाय सर्वथाऽपीत्युक्तमिति भावेन तद्व्याचष्टे—सर्वेति । प्रकारः अङ्ग म् । उत्साहः प्रयत्नः श्रवणादिरूपः । इत्थंभूतलक्षणे तृतीया । साङ्ग श्रवणादिप्रयत्नेऽपीत्यर्थः । अपिः यद्यप्यर्थाऽपीत्यर्थे । त इति तच्छ ब्दपरामर्शनीयं दर्शयति—ये इति । ज्ञानं प्राप्नुवन्तीति शेषोक्तिः । योग्यता त्वनादिभूता तत्तत्फलप्राप्तिसाधनागन्तुकप्रयत्नाव्यतिरिक्ता कारणानागन्तुकस्वभावविशेषाख्या बोध्या । एवकारव्यावर्त्यमाह— नेति । अन्य इत्यनन्तरं प्रत्युत विपरीतज्ञानं तादृशफलं वेति शेषः । तेन सौत्रतुशब्दो व्याख्यातः । उक्तं हि तत्त्वप्रदीपे—अयोग्यः उत्सा हेनापि न ज्ञानं प्राप्नोति तुशब्दाद्विपर्ययं प्राप्नोति च । अमृतार्थं प्रयत मान इव राहुः शिरच्छेदमिति ॥ (२) एवं साध्यांशं व्याख्याय कुत इत्यतस्तद्धेतुत्वेनोभयलिङ्गा दित्यंशं सर्वथाऽपीत्यस्यात्राप्यन्वयमभिप्रेत्य व्याचष्टे-य आत्मेति ॥ इति श्रुत्येति । अभेदे तृतीया । एवंरूपश्रुत्यात्मको योऽयमाचार्योपदे शः चतुर्मुखकर्तृकोपदेशः तस्य इन्द्रविरोचनयोः समत्वेऽपीत्यर्थः । विरोचनो नामासुरः । विपरीतज्ञानमिति । चक्षुष प्रतीयमानप्रतिबि म्ब एव अपहत पाप्मत्वादिलक्षणात्मेति विपरीतज्ञानमित्यर्थः । साव धारणमेतत् । न तु सम्यग्ज्ञानमित्यवधारणार्थः । इन्द्र इति च साव धारणम् । न तु विरोचन इत्यवधारणार्थः । सम्यग्ज्ञानमिति । आपे त्यनुषज्यते । इत्युभयविधलिङ्गादिति । इत्येवंरूपमिन्द्रविरोचनयोः स म्यग्ज्ञानप्राप्त्यप्राप्तिरूपं यत् उभयेषां योग्यायोग्यजनानां सम्यग्ज्ञान
९५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] व्यः स विजिज्ञासितव्यः' (छा. ८-७-३.) इति श्रु त्या आचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमा प इन्द्रस्सम्यग्ज्ञानमित्युभयविधलिङ्गात् ॥ ३४ ॥ विपरीतज्ञानप्राप्तिरूपोभयविधार्थप्राप्तिसाधकं यल्लिङ्गं तस्मादित्यर्थः । अनेन सूत्रे उभयशब्द आवर्तते । तत्रैक उभयशब्दपर्यायः । अपर उ भयविधार्थकः । तथा च उभयोः इन्द्रविरोचनयोर्गुरूपदेशसाम्येऽपि उभयविधात् ज्ञानप्राप्त्यप्राप्तिरूपात् योग्यायोग्यजनानां सम्यग्ज्ञान विपरीतज्ञानप्राप्तिरूपोभयविधार्थस्य साधकलिङ्गादिति हेत्वर्थ उक्तो भवति । एवं हि छन्दोगोपनिषदि श्रूयते । 'तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति । तौ होचतुः य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसंकल्पस्सोऽन्वे ष्टव्यस्स विजिज्ञासितव्यः.. इति ह भगवतो वचो वेदयन्ते तमिच्छ न्ताववास्तमिति । तौ ह प्रजापतिरुवाच य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच' (छा. ८-७.) इत्यादि । अस्यार्थः- 'तौ' पूर्वप्रकृताविन्द्रविरोचनौ द्वात्रिंशत्सहस्रसङ्ख्याकानि वर्षसह स्राणि गुह्यनियमाख्यं ब्रह्मचर्यव्रतं चरन्तावृषतुर्ह किल । एवं स्वस मीपवासिनौ प्रजापतिरुवाच ह । किमिति ? 'वां' युवामत्र किमिच्छ न्ताववास्तमिति । तावेवं पृष्टौ ऊचतुर्ह । तदेवाह- 'य आत्मा' इ त्यादिना 'विजिज्ञासितव्यः' इत्यन्तेन । इत्येवं 'भगवतः' पूज्यस्य ते 'वचो' वाक्यं 'वेदयन्ते' तदर्थभूतं परमात्मानं वेत्तुमिच्छन्ति देवा सुरा इति शेषः । अतस्तमात्मानमुपदेष्टृतो ज्ञातुमिच्छन्तावावां 'अवा स्तं' अवात्स्व पुरुषादिव्यत्ययः छान्दसः । 'तौ' एवं प्रकटिताभिप्रा यौ प्रजापतिः 'उवाच' उपदिदेश-य एषोऽन्तरक्षिणीति । योऽक्षि स्थो विश्वनामा हरिरात्मा सोऽपगतपाप्मत्वादिगुणकइति । य आत्मे त्यादेरर्थस्तु दहरनयेऽभिहितः । यद्यपि य इत्यादि विजिज्ञासितव्य इ त्यन्तं वाक्यं प्रजापतिना पूर्वोक्तमेवेन्द्रविरोचनाभ्यामनूद्यत इति नो पदेशरूपमतो नैतदुदाहरणार्हं, किन्तु य एषोऽन्तरक्षिणीत्याद्येवोदाहर णीयम् । तथाऽपि भगवतो वच इत्यन्ते श्रवणादस्यापि चतुर्मुखोपदे शत्वावगमान्नासङ्गतिः । तथा च भाष्ये विजिज्ञासितव्य इत्यन्तोदाह रणं प्रतीकरूपमुपलक्षणाभिप्रायमन्यस्याप्युदाहरणीयत्वं ज्ञापयतीति द्रष्टव्यम् ॥
[ अधि - ५. सू - ३६. ] दीपिकासहितम्. ९५९ ( ३ ) सू- ॐ ॥ अनभिभवं च दर्शयति ॥ ॐ ॥ ३५ ॥ 'दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चा सुरा नैवैतयोरभिभवः कदाचित्स्वभाव एव ह्यवतिष्ठ ते' इति स्वभावानभिभवं च दर्शयति॥ ३५ ॥ ( ४ ) सू--ॐ ॥ अन्तरा चापि तु तद्दृष्टेः ॥ ॐ ॥ ३६ ॥ ( ३ ) ननु महता प्रयत्नेन अयोग्यताया अभिभावयितुं शक्यत्वा दयोग्यानामपि ज्ञानप्राप्तिः किं न स्यात् । दृष्टं हि विश्वामित्रस्य मह ता प्रयत्नेन विप्रत्वमित्याशङ्कां परिहरत्सूत्रं पठति—अनभिभवं चेति॥ अत्र नायोग्यताऽभिभवेनायोग्यानामपि ज्ञानप्राप्तिर्युक्ता । कुतः ? अयो ग्यत्वस्य स्वभावत्वादिति हेतुसाध्ये उपस्कृत्य तत्र हेतोरसिद्धयप्रयो जकत्वशङ्कापरिहारकतया सूत्रं व्याचष्टे—दैवीमे
-like loop, just like the 'व' in 'त्वादिकं' at the beginning of the line! Yes! 'त्वादिकं' has 'त', 'व' subscript, and 'ा' matra! And this character has: 'त', 'व' subscript, and 'ा' matra! So it is 'त्वा'! Then 'म'! So it is literally printed: "सात्त्विकत्वाम" (or maybe a broken 'सात्त्विकत्वम्' where the 'व' has a full vertical line that looks like 'ा', or a typo in the book for सात्त्विकत्वम् or सात्त्विकत्वात्). Wait, could it be "सात्त्विकत्वम्" where the font has 'त्व' with its normal right vertical, and the typesetter mistakenly put 'ा'? In many Sanskrit fonts, 'त्व' is formed by 'त' + 'व', and 'व' has its own vertical bar. That vertical bar IS the right side of 'व'! It is NOT an 'ा' matra! Let's check! In 'त्वादिकं' (beginning of L31): There is 'त', 'व' subscript, AND an 'ा' matra (two vertical bars: one for 'व', one for 'ा')! Now look at the word at the end of L31: Does it have TWO vertical bars, or ONE? It has 'त', subscript 'व', and ONE vertical bar!
[ अधि - ५. - सू - ३८. ] दीपिकासहितम्. ९६१ ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयात् ॥ देवा दैवस्वभावेन कर्मणा चाप्यसंशयम् । सम्यग्ज्ञानेन परमां गतिं गच्छन्ति वैष्णवीम् ॥ नानयोरन्यथाभावः कदाचित्क्वापि विद्यते । मानुषा मिश्रमतयो विमिश्रगतयोऽपि च ॥ इति स्का- न्दे ॥ ३७ ॥ ( ६ ) सू—ॐ ॥ विशेषानुग्रहं च ॥ ॐ ॥ ३८ ॥ शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमति नेनीयमानः । सत्त्वरूपं ज्ञातव्यम् । केचित्तु — आसुरेण कर्मणा विपरीतेन ज्ञानेनेत्य- न्वयमाहुः । एके तु — आसुरेणेत्यस्य विवरणं-विपरीतेनेत्याहुः । तथा च ‘असुराः’ अयोग्याः ‘आसुरेण’ तामसेन स्वभावेन योग्यतया ‘स्वभावेन’ तदनुसारिणा कर्मणा, तथा आसुरेण स्वभावेन विपरी- तेन ज्ञानेन च ‘विनिश्चयात्’ निस्सन्देहं तमो यान्त्येव । ‘देवाः’ मु- क्तियोग्याः ‘दैवस्वभावेन’ दैवेन सात्त्विकेन स्वभावेन स्वभावानुसा- रिणा कर्मणा तादृशेन ज्ञानेन च असंशयं ‘परमां वैष्णवीं गतिं’ सर्वो- त्तमं विष्णुस्वरूपं तत्स्थानं वा गच्छन्ति । ‘अनयोः’ दैवासुरस्वभा- वयोस्तत्फलयोश्च कदाचित्काले क्वापि पुरुषे ‘अन्यथाभावो’ व्यत्या- सो न विद्यते । ‘मानुषाः’ नित्यसंसृतियोग्याः सम्यग्विपर्ययमिश्रराज- सबुद्धयः तादृशकर्मिणश्च, अत एव ‘विमिश्रगतयो’ विमिश्रफलशा- लिनोऽपीति स्मृत्यर्थः । स्कान्द इति । स्मर्यत इत्यन्वयः । अनेन — य- तो देवादीनां तत्तत्स्वभावत्वं अपिशब्दात्सूचितं तादृशफलं च स्मर्य- ते, अतस्तदुभयं सिद्धमिति सूत्रार्थ उक्तो भवति ॥ ( ६ ) हेत्वन्तरेण देवानामेव सम्यग्ज्ञानतत्फले, नान्येषामित्यर्थप्र- तिपादकं सूत्रमुपन्यस्य तदपेक्षितं पूरयति—विशेषेति ॥ इति श्रुति- रिति शेषः । चो भिन्नक्रमः समुच्चये । तथा च न केवलं स्मृत्युक्तत्वा- त, किन्तु यतः ‘शृण्वे’ इति श्रुतिः ‘देवेषु’ योग्येषु परमेश्वरस्य ‘विशेषानुग्रहं’ तत्फलसद्भावं च ‘दर्शयति’ प्रतिपादयत्यतोऽपि दे- वानामेवेश्वरानुग्रहसाध्ये सम्यग्ज्ञानफले, नान्येषामिति योजना । श्रु- त्यर्थस्तु — ‘वीरः’ अध्यवसायान्तगामी स्वनिश्चयानुसारेण स्वकार्य- सम्पूर्तिकर्ता नरसिंह इति वा ‘स इन्द्रः’ परमेश्वरः ‘उग्रमुग्रं’ स- र्वान् दुष्टप्रकृतीन् ‘दमायन्’ दमयन् नित्यनरकं प्रापयन् । यद्वा–अन्ये १२१
ye चशब्दः ॥` Wait, look at: "समुच्चये": स - मु - च्च - ये -> समुच्चये.
Line 24:
( ८ ) यदुक्तं श्रुतिस्मृतिभ्यां न दैत्यानां तत्स्वभावाभिभवेन देव
Line 25:
त्वप्राप्तिरिति, तदेव युक्त्याऽपि समर्थयत्सूत्रं पठित्वा व्याचष्टे—अत
Line 26:
इति ॥ देवभागादित्यनेनातश्शब्दः असुरभाग इत्यनेनेतरपदं बहुल इ
Wait, is it "देवभागादित्यनेनातश्शब्दः"?
दे - व - भा - गा - दि - त्य - ने - ना - त - श्श - ब्दः -> "देवभागादित्यनेनातश्शब्दः".
Line 27:
त्यनेन ज्याय इति पदं व्याख्यातं भवति । न तु देवभाग इत्येव शब्दा
Line 28:
र्थः । बहुल एवेति सम्बन्धः, न तु कदाचिदून इत्येवार्थः । अनेन भिन्न
Line 29:
क्रमस्तुशब्दो व्याख्यातः । सूत्रे अतस्तु इत्यापि सम्बन्धः । तेन अधता
Wait, is it "अधता" or "अघता"?
Look at the letter:
"तेन अधता" or "तेन अघता"?