पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1023, कुल 1267 में से
संदर्भ में पढ़ें१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] तृतीयः स्वपक्षः । भवेत्, न किञ्चिद्देवानां इत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति — सहका रीति ॥ अत्र तृतीयमित्यस्यैतदित्यध्याहृतेनान्वयः । पक्षेणेति च भाव प्रधानम् । तथा च ' एतत् ' वक्ष्यमाणं पक्षत्वेन तृतीयमित्यर्थ इत्याश येन सम्बन्धिप्रदर्शनपूर्वकं पक्षेण तृतीयमित्यस्य फलितार्थमाह — तृ तीय इति । स्वेति सावधारणम् । तथा च पूर्वोपन्यस्तपक्षद्वयापेक्षया ऽयं तृतीयः स्वस्यैव भगवतो बादरायणस्यैव पक्षः न त्वौडुलोमिना ज्ञात इत्यर्थः । यद्यपि पूर्णफलापेक्षया देवानामेव फलमिति श्रुत्यवष्ट म्भेन प्रवृत्तस्याद्यपक्षस्य, अल्पफलापेक्षया प्रजानामपीति युक्त्यवष्ट म्भेन प्रवृत्तस्य द्वितीयपक्षस्य तदुभयोपपादकस्य अस्य तृतीयपक्ष स्य च विरोधाभावात्पक्षत्रयमपि बादरायणीयमेव, उत्तरप्रस्थाने त थैव विवृतत्वात् । तथाऽपि मन्दानामात्रेयमतस्यापाततो विरुद्धतया प्रतीतेरेवमुक्तम् । न चैवं पक्षत्रयस्य वस्तुतोऽविरोधसम्पादने आद्य द्वितीयाभ्यां तृतीयस्य तदुभयोपपादकस्य कथं भेद इति वाच्यम् । यतो देवानां महाफलं प्रजानां त्वल्पफलमित्येवं सदृष्टान्तमौडुलोमिना ऽभिहितं, न तु वक्ष्यमाणं ज्ञातम्, बादरायणेन तु प्रधानाङ्गभावोक्तिपू र्वकं तदुपपादनं क्रियत इति । उक्तं हि तत्त्वप्रदीपे — देवानामेव मह त्फलमित्यत्र श्रुतिमात्रेण श्रावयामास । प्रजानामप्यल्पफलमस्तीत्य त्र युक्तिमौडुलोमिना प्रयोजयामास । स्वयन्तु सर्वविद्याचार्यतमः आ चार्यप्रवेशेन प्रवक्तृत्वं प्रजासु स्थित्वा तत्तदिन्द्रियप्रवर्तनेन ज्ञापनमि त्येतदुभयं देवानां फलाधिक्ये कारणं, सहकार्यान्तराभावे स्वविहित ज्ञानदानासम्भवेन विहितानुष्ठानाङ्गत्वात्प्रजानामपेक्ष्यत्वं, तासामप्य ल्पफलभावे कारणं, प्रजानामाचार्यस्य देवानां च फलेयत्ताविशेषं चे ति बहून् विशेषानाहेति तृतीयः स्वपक्ष इत्याहेति । एवं प्रथमसूत्रे स्वामिभृत्यभावमुखेन द्वितीये यजमानऋत्विग्भावेन तृतीये प्रधानाङ्ग भावेन महदल्पफलत्वोपपादनाद्भेद इत्यपि समाधानं द्रष्टव्यम् । नन्वे वमपि तत्त्वप्रदीपे सूत्रत्रयमपि सिद्धान्तपरतया व्याख्याय, यत्तु न्या यविवरणेऽन्यथा व्याख्यानम्, तदात्रेयमतानुवादमुखेन मन्दाशङ्कानु वादपरमिति न तत्प्रत्यनीकत्वं सिद्धान्तवादस्येति भाष्यस्य न्यायवि वरणविरोधस्याऽपि परिहृतत्वात्तद्विरोधः स्यादिति चेन्न, आपाततो विरोधमाश्रित्य न्यायविवरणभाष्ययोः प्रवृत्तिसम्भवात् । तदनुसारे