भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ९. सू - ४९. ] दीपिकाসহিতम्. ९८३ नुष्येषु विब्रूयात् । यथा यथा हवै ब्रूयात्तथा तथाऽर्धि को भवति' इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकारणार्थमाविष्कारेणेति न मन्तव्यम् । अ न्वयात् युक्तेः । आविष्कारेऽयोग्यानामपि स्वीकार प्राप्तिः । तच्च निषिद्धम् । (२) 'मानस्स्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः । येषां नैतन्नापरं किं च नैकं तां 'विद्यां' ब्रह्मज्ञानसाधनवेदविद्यां 'अधीत्य' तदर्थं मत्वा ध्यात्वा वेदविद्यां विचार्येति वा 'ब्रह्मदर्शी' ब्रह्मापरोक्षज्ञानी भवति शिष्यः ह प्रसिद्धौ । वावेत्यवधारणे । 'सः' गुरुरेतां 'मनुष्येषु' बहुजनमध्ये य था यथाऽधिकमिति शेषः । 'विब्रूयात्' उच्चैः सम्यक् उपदिशेत् 'त थातथा' उपदेशाधिक्यानुसारेण फलेऽधिको भवतीति श्रुत्यर्थः । ए वं प्रदर्शितं पूर्वपक्षं निषेधति—इति न मन्तव्यमिति । किन्त्वनावि ष्कुर्वन्नेवोप Cantor... ष्कुर्वन्नेवोपदिशेदिति प्रतिज्ञाशेषः । कुत एतदित्यतः प्रवृत्तमन्वयादि ति हेतुमनूद्य व्याचष्टे—अन्वयादिति । 'युक्तेः' उपपत्तेः । काऽसा वुपपत्तिरित्यत आह—आविष्कार इति । सभाचत्वरादावित्याद्यावुप स्कार्यम् । सभाचत्वरादावुपविश्योपदेशे इत्यर्थः । स्वीकारेति । 'स्वी कारो' विद्यास्वीकारः । नन्वयोग्यानां ग्रहणप्रसङ्गेऽपि कुतोऽनावि ष्कारेण वाच्यमित्यत आह—तच्चेति । चस्त्वर्थः । 'तत्' अयोग्येभ्यः कथनं तु श्रुत्यादिनिषिद्धमित्यर्थः ॥ ( २ ) तां श्रुतिमुदाहरति—मान इति ॥ मा नस्स्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽ [ न्नेषु जागृधुः । येषां नैतन्नापरं किञ्चनैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित्॥ अथोपशमेनोपरता मनुष्या ये धर्मिणो ब्रूहि तेभ्यः सदा नः। आदेवानामोहते विप्रयो हृदि बृहस्पते न परः साम्नो विदुः॥ इति ऋङ्मन्त्रद्वयस्यैतरेयभाष्यसुधातत्त्वप्रदीपटीकारीत्याऽयमर्थः—ए तद्वायुं प्रति विद्यादेवतानां प्रार्थनरूपं वचनम् । तथा च हे ब्रह्मणस्पते 'आसन्यं प्राणमूचिरे . . एष उ एव ब्रह्मणस्पतिः' ( बृ. ३-३. ) इति श्रुतेः ब्रह्मणो वेदस्य पते वायो ये रमणरूपत्वाद्रामो भगवान् स एव स्वामी

९८४ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.] ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित्' (ऋ.२-२३-१६.) ॥ अथोपशमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः । आदेवानामोहते विप्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ (ऋ.२-२३-१६.) इति ॥ ति ज्ञानमेषामस्ति ते रामिणः तस्मान्निष्क्रान्ताः तस्य विमुखाः निरा- मिणः भगवदुत्तमत्वाज्ञानिनः, निरो निषेधार्थत्वात् निरामिणस्तदज्ञा- निनः प्रत्युत तस्य जीवरूपत्वज्ञानेन तन्नीचतावेत्तृत्वात्तद्विरोधिनः । यद्वा—रामो रमणमस्यास्तीति रामी भगवान् तस्मान्निष्क्रान्ताः तस्य विमुखाः निरामिणः, अत एव तस्य रिपवः 'अन्नेषु' अन्नादिषु भोगे- ष्वेव 'जागृधुः' आकांशां चक्रुः । आकांक्षावन्त इति यावत् । ते 'अ- भिद्रुहस्पदे' अभितो द्रोहस्य विष्णुवैष्णवद्रोहफलस्य नित्यनिरतिश- यदुःखस्यास्पदे आकरे तमसि स्थातुं योग्या भवन्तीति शेषः । यतोऽ- तस्तेभ्यः स्तेनेभ्योऽस्मान् मा वोचः न ह्यस्मच्छ्रवणवान् दुःखमर्ह- तीति भावः । एवमेषां एतद्वासुदेवाख्यं परं ब्रह्म न, अपरं तदपरं ज- गच्च नास्ति, किन्तु 'किञ्च' यत्किञ्चित् निर्गुणं ब्रह्म 'नैकं' एकविधभि- न्नं सदसद्विलक्षणं अनिर्वाच्यं च जगदभिमतं 'तेभ्यो' ब्रह्मस्तेनेभ्यो 'नः' अस्मान् मा ब्रूहि । अथ किं नाम ? हे 'बृहस्पते' 'वाग्घि बृहती' (छा.१-२-११.) इति श्रुतेः बृहत्या वाचः पते वायो ये 'शमेन' विष्णु- निष्ठया 'उप' समीपे तस्मिन्नेव 'रताः' मनुष्याः मननशीलाः 'धर्मिणो' निष्कामकर्मिणः ये च देवानां 'वयः' नपुंसकं पदमेतत् । वरं नियाम- कं च ब्रह्म हृदि वि आ ओहते व्योहते वहन्ति । सर्वत्र समत्वात् 'सा- म्नो' विष्णोः सकाशात् 'परः' परं उत्तमं च न विदुः तेभ्यो नः अ- स्मान् सदा ब्रूहीति । ऐतरेयभाष्ये तु 'तदेव' सामैव वासुदेवादिरू- पेण 'हृदा' स्वेच्छया 'ओहते' प्राप्नोति सर्वमिति ओहते इत्येतत् भ- गवद्विषयतया व्याख्यातम् । यद्यपि भाष्योदाहृतऋग्द्वये पूर्वोत्तरार्ध- योरेव पाठः सांव्यावहारिकः । तथाऽपि 'मा नस्स्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थतः' इति ऋग्भाष्योक्तेः मध्यगतं 'येषां नैतत्, अथोपशमेन' इत्यर्धर्चद्वयमवान्तरवेदे अन्तर्हितं मूलवेदे पठितमिति ध्येयम् । इती- त्यस्य निषिद्धमित्यनेनान्वयः ॥

[ अधि - १०, सू - ५०, ] दीपिकासहितम्. ९८५ ( ३ ) विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि । अनार्यकायानुजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम् ॥ इति च ॥ ४९ ॥ :--: १०. अधिकरणम् ॥ ( १ ) सू—ॐ॥ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ॐ ॥ ५०॥ ' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या ( ३ ) श्रुत्यन्तरं पठति—विद्येति ॥ ' ब्राह्मणं ' वायुं प्रति विद्या दे वता आजगाम । आगत्य च हे वायो मां ' गोपाय ' गोपय रक्ष तेऽहं ' शेवधिः ' निधिरस्मि । मां ' अनार्यकाय ' भागवते-- तितिक्षवः कारुणिकाः सुहृदः सर्ववेदिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढम् । मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥ मदाश्रयकथाधृष्णः .... ॥ इत्यादिनोक्तार्यकलक्षणरहिताय ' अनुजवे ' अविपरीतचित्तादिप्रवृत्ति मान् ऋजुः तद्भिन्नाय ' शठाय ' मूर्खाय दोषदृशे वा मा स्म ब्रूयाः । माशब्दोऽयं निषेधार्थः, न माङ् । तर्हि कस्मै वाच्येत्याकांक्षायामाह— ऋजव इति । आर्यकाद्युपलक्षणमेतत् । तथा चार्यकाय अशठाय ऋ जवे ' नित्यं ' नियमेन मां ब्रूहीति प्रार्थयामासेति श्रुत्यर्थः । अत्रापि इ तीत्यस्य निषिद्धमित्येनान्वयः । श्रुतिसमुच्चये चः ॥ ९ ॥ ॥ इति अन्वयाधिकरणम् ॥ -— १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे अपरोक्षज्ञानस्य प्रतिबन्धाभावे साधनसम्प त्तिजन्मन्येवोत्पत्तिः समर्थ्यते । साधनसम्पूर्तावपि ज्ञानानुदये कार णाभावात् साधनसम्पूर्तिजन्मन्येव ज्ञानस्य भाव्यत्वात् । तदभावे तु कदाऽपि तदनुदय इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—ऐहिकमि ति ॥ अत्र तदिति व्यस्तं समस्तं च । तत्र व्यस्तमावृत्तं विपरिणतं च १२४

९८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] सितव्यः' (बृ. ४-४-५.) इति दर्शनार्थं श्रवणादि विधीयते। तच्च दर्शनमैहिकमेव प्रारब्धप्रतिबन्धाभावे। (२) श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्य इहैव दृष्टिं परमस्य विन्देत्। यद्यारब्धं कर्म निबन्धकं स्या त्प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य ॥ श्रुतिप्रकृतपरामर्शीत्याशयेन तत्पदार्थं वदन् तस्यैहिकपदेनान्वयं प्रदर्श यति—आत्मेति। तच्च तद्दर्शनं चेति विग्रहः। दर्शनं ब्रह्मदर्शनम्। च शब्दो विशेषणसमुच्चये। तथा च 'आत्मा' इति श्रुतौ यद्दर्शनार्थं श्र वणादि विधीयते तच्छ्रवणादिसाध्यत्वेन श्रुतं दर्शनं 'ऐहिकं' इह जन्मनि भवमेव यस्मिन् जन्मनि श्रवणादिसम्पत्तिः तज्जन्मभवमेव, न तु तस्मिन् जन्मन्येवेति नियम इत्यर्थः। न च क्वचिच्छ्रवणादिसम्प त्तिजन्मनि ज्ञानानुदयविरोध इत्यतः प्रवृत्तस्याप्रस्तुतप्रतिबन्ध इत्य स्यार्थमाह—प्रारब्धेति। ज्ञानोदयविघटकत्वेन प्रसक्तप्रतिबन्धकाभा वे इत्यर्थः। तथा च प्रतिबन्धकाभावे तद्दर्शनमैहिकमेव, प्रतिबन्धे तु जन्मान्तर इति अनियमाभ्युपगमात्। क्वचित्कारणे सत्यपि कार्यानुद यस्य प्रतिबन्धकप्रयुक्तत्वान्नोक्तदोष इति भावः। अनेन सूत्रे ऐहिक मित्यावर्तते तच्च सावधारणम्। तदिति व्यस्तमावर्तते। तथा च त च्छ्रुतौ श्रवणादिफलत्वेनोक्तं ब्रह्मदर्शनमैहिकमेव। न च क्वचित्तदभा वविरोधः। यतस्तद्दर्शनं प्रस्तुतप्रतिबन्धे जन्मान्तरे भवं' अप्रस्तुतप्र तिबन्धे त्वैहिकमेवेत्यनियमाभ्युपगमोऽत इति सूत्रखण्डार्थ उक्तो भ वति ॥ (२) उभयं कुत इत्यतः तद्दर्शनादित्येतद्व्याचष्टे—श्रुत्वेति॥ 'आ त्मानं' परमात्मानं श्रुत्वा अथ 'मतिपूर्वं' मननपूर्वकं 'उपास्य' ध्या त्वा 'इहैव' श्रवणादिसम्पत्तिजन्मन्येव 'परमस्य' विष्णोर्दर्शनं 'वि न्देत्' प्राप्नुयात्। प्रारब्धप्रतिबन्धाभाव इति शेषः। तत्सत्त्वे त्वाह— यदीति। 'निबन्धकं' नितरां बन्धकं आरब्धं ज्ञानप्रतिबन्धकं कर्म य दि स्यात्। तर्हीति शेषः। 'प्रेत्य' अस्माच्छरीरान्मुक्त्वा ज्ञानं तु योगमुद्दिष्टं युज्यते तेन यत्सुखम्। क्वचियोग उपायस्स्यात्क्वचिच्चित्तनिरोधनम् ॥ इत्यभिधानाद्योगशब्दोक्तं श्रवणाद्युपायं पुनः किंचित् 'अन्ववेक्ष्य'

[ अधि - १०. सू - ५०. ] दीपिका सहितम्. ९८७ इति सौपर्णश्रुतौ तद्दर्शनात् । ( ३) अनादिजन्म सम्बन्धं निर्भेत्तुं पापपञ्जरम् । यावत्या सेवया शक्यं तावत्कार्यं न संशयः ॥ यावद्दूरे स्थितो गम्यात्तावद्गन्तव्यमेव हि । इह जन्मान्तरे वापि तावत्यैव तु दर्शनम् ॥ (४) श्रवणं मननं चैव निधिध्यासनमेव च । परे गुरौ च या भक्तिः परिचर्यादिकं हरेः ॥ अपेक्ष्यैव कृत्वैव परमस्य दृष्टिं विन्देदित्यर्थः । श्रुतौ दर्शनादित्यनेन तस्यां श्रुतौ तस्यार्थस्य प्रतिबन्धकसदसत्त्वयोरैहिकानन्तर्यकत्वरू- पार्थस्य दर्शनादुक्तत्वादिति सूत्रखण्डार्थ उक्तो भवति ॥ ( ३ ) श्रुतिसिद्धार्थे स्मृतिं चाह—अनादीति ॥ पञ्जरशब्दोऽस्त्री- लिङ्गः पतत्रिगतिप्रतिबन्धकनीडवाची । तथा च प्रवाहतोऽनादिजन्म- भिः सम्बन्धो यस्य तत्, अनादिजन्म सम्बन्धं अनादिजन्मकारणं पा- पमेव पञ्जरसदृशं पापरूपज्ञानप्रतिबन्धकं ‘यावत्या सेवया’ यावज्ज- न्मभवेन सेवनेन ‘निर्भेत्तुं’ विदारयितुं शक्यं तावत्सेवनं कार्यमित्यर्थः । अनादीति व्यस्तं वा पदं पापविशेषणम् । तथात्वे जन्मसम्बन्धमिति कर्मणि घञन्तं, जन्मभिः सम्बन्धं यदनादि पापं तदेव पञ्जरमित्यर्थः । अत्र निदर्शनमाह—यावदिति । ‘गम्यात्’ प्राप्याद्ग्रामादेस्तदपेक्ष्य यावद्दूरे स्थितो जनः तावद्दूरं तेन गन्तव्यमिति हि प्रसिद्धमित्यर्थः । ननु ‘तद्यथा पुष्करपलाशे’ (छां.४-१४-३.) ‘यथेषीकातूलम्’ (छा.५-२४- ३.) इत्यादि श्रुतेः ब्रह्मदर्शनैकसाध्यः पापपञ्जरनिर्भेदः कथं सेवया भवेदित्यत आह—इहेति । इह सेवाजन्मनि जन्मान्तरे वा यावत्या सेवया पापपञ्जरं निर्भेत्तुं शक्यं तावत्यैव सेवया दर्शनं भवति । अथ पापपञ्जरनिर्भेदो भवतीत्यर्थः । तुशब्दः प्रतिबन्धकाभावभावयोरिह जन्मान्तरे वेति विशेषद्योतकः । तथा च पापपञ्जरनिर्भेदस्येह जन्मनि जन्मान्तरे वा सेवासाध्यदर्शनसाध्यत्वाभ्युपगमात् साक्षात्सेवासाध्य- त्वानभ्युपगमान्न श्रुतिविरोध इति भावः ॥ (४) ननु श्रवणाद्येकसाध्यं ज्ञानं कथं शुश्रूषारूपसेवया स्यादित्य- त आह—श्रवणमिति ॥ चशब्दः परस्परसमुच्चये । एवशब्दावेवमि- त्यर्थौ । ‘परे’ परमात्मनि विषये परिचर्या पूजा । आदिपदाच्छमनादि

९८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] एषा सेवेति सम्प्रोक्ता यया तद्दर्शनं भवेत् ॥ इति बृहत्संहितायाम् ॥ ५० ॥ -- ११. अधिकरणम् ॥ ( १ ) सू-ॐ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्त- दवस्थावधृतेः॥ ॐ ॥ ५१ ॥ एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः। तद्भावे जन्मान्तराणीत्यनियमः ॥ ( २ ) ' धर्मी स्वर्गे विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतत्वमे ग्रहः । प्रथमयच्छब्दस्य या भक्तिः यश्च परिचर्यादिकमित्युभयत्रान्व यः । अयमेव न सर्वत्र सेवाशब्दार्थः, किन्तु ज्ञानसाधनविषयैवेत्या ह—ययेति । यया तद्दर्शनं ब्रह्मदृष्टिर्भवति सा सेवा ' एषा ' श्रवणा दिरूपा सम्प्रोक्तेत्यर्थः । एवं च यावत्या सेवेत्यत्र सेवाशब्दार्थत्वेन श्रवणादिसेवैव सम्प्रोक्ता, न शुश्रूषा, अतो न ज्ञानस्य श्रवणादिसा ध्यत्वप्रतिपादकात्मा वा अरे इत्यादिप्रमाणविरोध इत्यर्थः । बृहत्संहि तायामुक्तत्वादुक्तं युक्तमिति शेषः ॥ १० ॥ ॥ इति ऐहिकाधिकरणम् ॥ -- ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मज्ञानस्य स्वोत्पत्तिजन्मानन्तरमेव प्रतिब न्धकाभावे मुक्तिसाधनत्वमहिमा वर्ण्यते । तत्र कारणे सति कार्यानु दये हेत्वभावाद्यच्छरीरे ज्ञानमुत्पन्नं तच्छरीरपातानन्तरमेव मोक्ष इ ति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति--एवमिति ॥ अत्र एवं मु क्तिफलानियम इति साध्यांशं एवकारगर्भिततया व्याचष्टे—एवमेवे ति । यथा ज्ञाने चानियमः, एवं मुक्तिफलेऽप्यनियम एव न तु नियम इत्यर्थः । ननु निष्कारणमनियमे कदाऽपि मोक्षाभावप्रसङ्ग इत्यत एव मित्येतद्विवृणोति—प्रारब्धेति । प्रारब्धकर्माख्यमुक्तिप्रतिबन्धकाभाव इत्यर्थः । ' तद्भावे ' प्रतिबन्धकसत्त्वे जन्मान्तराणीति द्वितीयाबहुव चनं, बहुत्वमविवक्षितम् । जन्मान्तरमित्यर्थः । प्राप्यैवेति शेषः । तथा च प्रारब्धभावाभावयोरनियमकारणत्वात् नोक्तदोष इति भावः ॥ ( २ ) ननु कुतोऽत्र प्रतिबन्धककल्पनमित्यतः तत्र हेतुत्वेन तदव

[ अधि - ११. - सू - ५१. ] दीपिकासहितम्. ९८९ त्येव ब्रह्मसंस्थोऽमृतत्वमेत्येव ' ( ) इति ब्र ह्मसंस्थस्य मोक्षस्यैवावधारणात् । ( ३ ) विद्वानमृतमाप्नोति नात्र कार्या विचारणा । अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ॥ स्थावधृतेरित्यंशं तच्छ्रुत्युदाहरणपूर्वकं व्याचष्टे—धर्मीति ॥ 'धर्मी' पुण्यकर्मवान् 'विधर्मी' पापकर्मवान् तत्कर्ता 'ब्रह्मसंस्थो' ब्रह्मद र्शी 'अमृतत्वं' मुक्तिं 'एति' प्राप्नोति एवशब्देन क्वचित् तद्योगं व्य वच्छिनत्ति एत्येव ब्रह्मसंस्थोऽमृतत्वमिति । द्विर्वचनं तात्पर्यद्योतनार्थ म् । इतीत्यनन्तरं श्रुताविति शेषः । 'ब्रह्मसंस्थस्य' ब्रह्मदर्शिनः ब्रह्म ज्ञानस्येति यावत् । 'मोक्षस्यैव' मुक्तिहेतुत्वस्यैव । आवर्तनीयोऽयमे वशब्दः । तथा चैवशब्देन मुक्तिहेतुत्वस्यैवावधारणात् एतज्जन्मन्येवे त्यनवधारणादित्यर्थः । अनेन प्रतिबन्धकदशायां सति ज्ञाने मोक्षाभा वेनावधारणानुपपत्तिः । प्रतिबन्धकाभावेऽपि ज्ञाने सति मोक्षाभावे तु ब्रह्मसंस्थस्य तद्दर्शनस्य मोक्षहेतुत्वावधारणानुपपत्तिरेव । अतः श्रौत मोक्षहेतुत्वावधारणान्यथाऽनुपपत्त्या प्रतिबन्धककल्पना युक्ता । तथा च प्रतिबन्धकसद्भावोऽनियमहेतुः, तदाक्षेपकं चावधारणं, तस्यासि द्धिनिवारिका श्रुतिरित्युक्तं भवति । अथ वा—ज्ञानिनः तद्देहपातान न्तरमेव मोक्षो जन्मान्तराणि प्राप्य वा इति मोक्षफलानियमे एव श्रु तिः प्रमाणम् । अत्र पक्षे श्रुतौ ज्ञानिनो मोक्षस्यैवावधारणादेतद्देहपा तानन्तरमेवेत्येवंरूपनियमस्यानवधारणान्नियमायोगस्याव्यवच्छेदान्नि यमानुक्तेरिति हेतुवाक्यार्थस्यैव मुक्तिफलानियम इति साध्येनान्वयः । अत्र भाष्यस्थैवकारोऽन्ययोगव्यवच्छेदकः, श्रुतिगतस्त्वयोगव्यवच्छे दक इति द्रष्टव्यम् ॥ ( ३ ) ननु श्रुतौ नियमानुक्तिमात्रं नानियमसाधकमित्यतः स्मृति मुदाहरति—विद्वानिति ॥ 'विद्वान्' ब्रह्मापरोक्षज्ञानी 'अमृतं' मुक्ति माप्नोत्येव । नात्र सन्देहः कार्य इत्यर्थः । परन्तु यस्मिन् जन्मनि ज्ञान मुत्पन्नं तद्देहपातानन्तरमेवेति न नियम इत्याह—अवसन्नमिति । 'य त्' यदि आरब्धं कर्म 'तत्रैव' तद्देह एव 'अवसन्नं' पर्यवसन्नं तद्दे हपातानन्तरमेवामृतं 'गच्छति' प्राप्नोति । अवसन्नं न चेत् बहूनि ज न्मानि प्राप्यैव जन्मान्तरं प्राप्यैव 'अन्ते' प्रारब्धक्षयान्ते अमृतं गच्छ ति नात्र संशय इत्यर्थः । नारायणाध्यात्म इत्यस्य 'प्रारब्धकर्माभावे'

९९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः ॥ इति नारायणाध्यात्मे ॥ ५१ ॥ --- इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र भाष्ये तृतीयाध्यायस्य चतुर्थः पादः. ॥ तृतीयाध्यायस्समाप्तः ॥ :--: ॥ ॐ ॥ ─ इत्यादिनाको नियमः युक्त इति पूर्वेणान्वयः । सूत्रे फलशब्दो ज्ञानफ लेषु मोक्षस्य प्राधान्यज्ञापनार्थः । तदुक्तं तत्त्वप्रदीपे—सर्वपुरुषार्थप्रा प्तिदर्शनादित्युक्तेऽपि इतरेषामानुषङ्गिकत्वं, साक्षात्फलत्वं मुक्तेरेवेति फलशब्द इति । द्विरुक्तिस्त्वेतदध्यायार्थस्य प्रामाणिकत्वसूचनार्थेति द्रष्टव्यम् । तदुक्तमैतरेयभाष्ये— सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः । अध्यायान्ते द्विरुक्तिस्स्यात्पूर्वोक्तस्यावधारणे ॥ इति ॥ 'अवधारणे' निर्णयकग्रन्थे । 'आध्यायमूलतः' अध्यायमूलमारभ्य पूर्वोक्तस्यार्थस्य सर्वप्रमाणसिद्धत्वं वक्तुं अध्यायान्ते द्विरुक्तिस्स्या दित्यर्थः ॥ ११ ॥ ॥ इति मुक्तिफलाधिकरणम् ॥ ───────────────── इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां तृतीयाध्यायस्य चतुर्थः पादः. ॥ तृतीयाध्यायस्समाप्तः ॥ --:-:- ॥ ॐ ॥ ─

॥ श्रीः ॥ ॥ ॐ तत्सद्ब्रह्मणे नमः ॥ ॥ अथ चतुर्थाध्यायः ॥ १. अधिकरणम् ॥ (१) फलं निगद्यतेऽस्मिन्नध्याये। कर्मनाशाख्यं फलमस्मिन् पादे। नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमत उ ॥ अथ चतुर्थाध्यायः ॥ १. अधिकरणम् ॥ (१) एतदध्यायप्रतिपाद्यं दर्शयति—फलमिति ॥ साध्यमित्यर्थः। ब्रह्मदर्शनेत्यादावुपस्कार्यम् । मोक्षरूपमिति शेषः । 'निगद्यते' कीदृ शमिति विचार्यतेऽस्मिन् चतुर्थेऽध्याय इत्यर्थः। मोक्षस्य दर्शनसाध्य त्वं तु 'अनियमः, विद्यैव' इत्यादावेवोक्तमिति भावः। एतत्पादार्थं द र्शयति—कर्मेति । निगद्यत इत्यनुषज्यते । मोक्षलक्षणं हि ज्ञानफलं च तुर्विधं—कर्मक्षयोत्क्रान्तिमार्गभोगभेदात् । तत्रास्मिन् पादे दर्शनपूर्व कालीनसञ्चितकर्मनाशाख्यं फलं निगद्यत इत्यर्थः। नन्वावृत्तिरित्यादि सूत्रे कर्मक्षयोक्त्यप्रतीतेः कथमेतत्पादप्रतिपाद्यकथनमित्यत आह— नित्यश इति। सर्वदैवेत्यर्थः। परमादरेणेत्यप्यादावुपस्कार्यम् । किमर्थ मेतदुच्यते इत्यत उक्तं—सर्वथा भाव्यमिति। सर्वप्रकारविघ्नेऽपि या वच्छक्यमनुष्ठेयमित्यर्थः। नित्यशः करणविशिष्टसाधनं विनाऽपरोक्ष ज्ञानाभावात्तदभावे च चतुर्विधमोक्षेषु मध्ये एकस्यापि मोक्षस्याभा वादस्य सर्वथा भाव्यत्वमिति भावः। तथा च यतः सर्वथा भाव्यम तो नित्यशः कार्यमिति योजना। साधनमिति। श्रवणाद्यावृत्त्यादिरूप ज्ञानसाधनमित्यर्थः। 'प्रथमतः' सप्ताधिकरण्यां 'उच्यते' कर्तव्यत्वे न प्रतिपाद्यते। सर्ववेदान्तनयेन गतार्थतापरिहाराय—नित्यशः सर्वथे ति चोक्तम्। तथा च तत्रोक्तस्यैव साधनस्य सर्वप्रकारविघ्नेऽपि सर्व दा परमादरेण यावच्छक्यमनुष्ठेयत्वरूपेत्थंभावोऽत्रोच्यत इति न गता र्थतेति भावः। यदि फलाध्याये कर्मक्षयपादे च साधनमेवोच्यते तर्ह्य ध्यायपादानामर्थव्यवस्थाऽभावः स्यादित्यत आह—प्रायिकत्वाच्चेति । प्रथमश्चोऽप्यर्थः। द्वितीयस्समुच्चये । तथा चाध्यायपादेष्वर्थान्तरोक्ता

१९२ ब्रह्मसूत्रभाष्यम् [ अध्या - ४. पा - १. ] ष्यते । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः । ( २ ) सू—ॐ ॥ आवृत्तिरसकृदुपदेशात् ॥ ॐ ॥ १ ॥ 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- सितव्यः' ( बृ. ४-४-५. ) इत्यादीनां नाग्निष्टोमादिव- देकवारेणैव फलप्राप्तिः, किन्त्वावृत्तिः कर्तव्या । ' स वपि न व्यवस्थाऽभावलक्षणविरोधो भवति। कुतः ? समन्वयाध्याया- नां नामादिपादानां च 'प्रायिकत्वात्' प्राचुर्येण स्वस्वैकार्थप्रतिपाद- कत्वादिति योजना । न चास्य पादस्य कर्मक्षये प्रायिकत्वानुपपत्तिः, अधिकरणसप्तके साधनविचारात् फलस्य चैकस्मिन्नेवाधिकरणे वि- चारादिति वा वाच्यम् । योऽर्थः प्रायेण कार्त्स्न्येन प्राधान्येन च यत्र प्रतिपाद्यते सोऽध्यायादिस्तदर्थक इत्यस्यार्थस्यात्र विवक्षितत्वात् । त- था च कर्मक्षयवत् साधनस्य कार्त्स्न्येन प्राधान्येन एतत्पादविचार्य- त्वाभावान्नोक्तानुपपत्तिरिति भावः ॥ ( २ ) तत्र सङ्गत्यादिजिज्ञासाजननाय सूत्रमेवादौ पठति—आवृ- त्तिरिति ॥ सूत्रे आवृत्तिरिति प्रतिज्ञांशं कर्तव्येति पदाध्याहारेणावृत्ति- पदसूचितपूर्वपक्षनिषेधपूर्वकं व्याचष्टे—आत्मेति । इत्यादीनामिति । इति श्रुत्या आदीर्यन्ते उपादीयन्ते वाच्यतयेति इत्यादीनि तेषामित्य- र्थः । श्रवणादीनामिति शेषः । यद्वा—इत्यादिश्रुत्युक्तानां श्रवणादीना- मित्यर्थः । अत्रादिशब्देनैतज्जातीयवाक्यान्तरं गृह्यते । प्राप्तिरिति प्रथ- मा पञ्चम्यर्थे । यत इति शेषो वा । नेत्यावर्तते, इतीति च । अग्निष्टोमा- दीत्यादिशब्देन दर्शपूर्णमासादिकं गृह्यते आवृत्तिरिति सावधारणमे- तत् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेन वाक्येन अन्येन वा अवगतिः श्रवणावृत्तिः । युक्त्या मननावृत्तिरप्येवमेव । तथा च 'अग्निष्टोमादिवत्' यथा सकृदनुष्ठिताग्निष्टोमादेः स्वर्गफलसिद्धिरस्त- था श्रवणादीनामपि 'एकवारेण' सकृदनुष्ठानेनैव 'फलप्राप्तेः' फल- सिद्धेः 'आत्मा' इत्यादिश्रुत्युक्तानां श्रवणादीनां नावृत्तिरतोऽनावृत्तिरि- ति पूर्वपक्षो न, किन्तु श्रवणादीनामावृत्तिरेव कर्तव्येति योजना । कुत इत्यतोऽसकृदुपदेशादिति हेत्वंशं व्याचष्टे-स इति । इत्यादीति । इत्यादि- रूपो योऽयमसकृदुपदेशः अनेकवारमुक्तिस्तस्मादित्यर्थः । आदिशब्देन 'स आत्मा तत्त्वमसि' (छा.६-८-७.) इति शिष्टवाक्यं गृह्यते । श्वेतकेतुं प्रति उद्दालकवाक्यमेतत् । प्रकृतः परदेवताख्यो विष्णुः सारत्वात्सः।

[ अधि - १. सू - २. ] दीपिकासहितम्. ९९३ य एषोऽणिमैतदात्म्यमिदं सर्वम्' (छा. ६-८-७.) इत्याद्यसकृदुपदेशात् ॥ १ ॥ ( ३ ) सू— ॐ ॥ लिङ्गाच्च ॥ ॐ ॥ २ ॥ ‘स तपोऽतप्यत.. पुनरेव वरुणं पितरमुपससार’ (तै. ३-१,२.) इत्याद्यावर्तनलिङ्गाच्च । नियमनात् ज्ञानरूपत्वाद्वा यः । सर्वस्येष्टत्वादविग्नसर्वेच्छारूपत्वाद्वा एषः। सूक्ष्मज्ञानविषयत्वादतिसूक्ष्मपरिमाणत्वाद्वा अणिमा। 'इदं सर्वं' जगत् 'ऐतदात्म्यं' एतत् सत् आत्मा स्वामी यस्य तत्तथोक्तम्। यद्वा- एष चासावात्मा च तदात्मा विचित्रा हि तद्धितगतिरिति वचनात्, त स्येशमित्यर्थे ष्यञ्प्रत्ययः तद्वशमित्यर्थः । तत्तत्वात् तत् परमानन्दत्व तः साधुस्वरूपत्वाद्वा सत्यं साधनात् सः पूर्णगुणत्वादात्मा। तत्त्वं अ तत् त्वमिति च पदच्छेदः। तथा च त्वं 'तत्त्वं' तत्त्वतः 'अतदसि' त स्मादन्योऽसीति छन्दोगश्रुत्यर्थः । अनेनोद्दालकेन श्वेतकेतुं प्रति परत त्त्वस्य 'असकृत्' नवकृत्वः 'उपदेशादुपदिष्टत्वात् ज्ञानार्थं श्रवणा दीनामावृत्तिः एव कर्तव्या । श्रवणादेः सकृदेव कर्तव्यत्वे किमर्थमसा वसकृदुपदिशेदिति भाव इति सूत्रार्थ उक्तो भवति ॥ ( ३ ) हेत्वन्तरेण श्रवणाद्यावृत्तिं साधयत्सूत्रं पठित्वा व्याचष्टे— लिङ्गाच्चेति ॥ आदिशब्देन 'अधीहि भगवो ब्रह्मेति । तꣳ होवाच । तप सा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति' (तै. ३ - २.) इत्यादिकं गृह्यते । 'स तपः' इत्यतः प्रागपि 'तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुःश्रोत्रं मनो वाचमिति । तꣳहोवाच । यतो वा इमानि भूतानि जायन्ते' (तै. ३ - १.) इत्यादिकमप्युदाहरणीयम् । इत्थं हि तैत्तिरीये आख्यायिका—वरुणपुत्रो भृगुः ब्रह्माध्यापयेति पित रमुपसादितवान् । अथ वरुणस्तस्मै भृगवे अन्नमयादिरूपाष्टकमुप दिदेश । तेषां जगज्जन्मादिकारणत्वादिलक्षणान्यप्युवाच । एवं श्रुता न्नादिरूपो भृगुः पुनःपुनस्तद्विषय एवापृच्छत । तथैव वरुणो ऽप्युपदिदेश । एवमुपदिष्टस्स भृगुः 'तपः' आलोचनं 'अतप्यत' अ करोत् । स तपस्तप्त्वा अन्नमयाख्यमनिरुद्धरूपं जगज्जन्मादिकर्तृत्वल क्षणवत्तया साक्षात्कृतवान् । स भृगुरेकरूपं साक्षात्कृत्य द्वितीयमपि साक्षात्कर्तुं गुर्वनुग्रहार्थं पुनरेव वरुणं पितरं 'उपससार' उपसादि तवान् । हे 'भगवो' भगवन् प्राणमयाख्यं ब्रह्म साक्षात्कर्तुमिति शेषः। १२५

९९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] नित्यशः श्रवणं चैव मननं ध्यानमेव च । कर्तव्यमेव पुरुषैर्ब्रह्मदर्शनमिच्छुभिः ॥ इति बृहत्तन्त्रे ॥ २ ॥ -- २. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ॐ ॥ ३ ॥ ‘अधीहि’ अनुज्ञां देहि अनुजानीहीति वाच्ये विनयप्रदर्शनायैवमुक्तिः । एवं भृगुणोक्तो वरुण उवाच । किमिति ? ‘तपसा’ ज्ञानानुसन्धानरू- पालोचनेन ब्रह्म विजिज्ञासस्व ‘तपो ब्रह्म’ ज्ञानरूपं ब्रह्मेति तपसो ब्र- ह्मज्ञानहेतुत्वात्तपो ब्रह्मेत्यभेदोपचार इति ग्रन्थान्तरे । इत्याद्यावर्तन- लिङ्गादिति । एवमादिवाक्यबोध्यं यदनुज्ञाप्रार्थनाऽऽवर्तनादिरूपं श्र- वणावर्तनलिङ्गं तस्मादित्यर्थः । चशब्दो न केवलं उपदेशाख्यगुरुव्या- पाराद्धेतोरावृत्तेः कर्तव्यतासिद्धिः, किन्तु श्रुतस्य पुनरालोचनेनापरो- क्षितत्वरूपशिष्यव्यापाराख्यलिङ्गदर्शनादपीति हेतुसमुच्चये । लिङ्गा- च्चेत्यस्यावृत्तिः कर्तव्येति पूर्वेणान्वयः । अस्य श्रवणादित्रितयावृत्ति- साधकत्वादयोगविभागः । यद्यपि श्रौतलिङ्गदर्शनवलान्मनननिदिध्या- सनयोरेवावृत्तिः सिद्ध्यति, न श्रवणादीनां त्रयाणाम् । तथाऽपि श्रुता- न्नमयादीनां जगज्जन्मादिकारणत्वेन यद्ब्रह्मत्वं प्रागुक्तम्, तस्य ‘तपो ब्रह्म’ इत्यनेन सर्वत्र तद्घटकसार्धश्लोकोक्तोपपादनस्य श्रवणाद्यावर्तने लिङ्गत्वं सम्भवत्येव । न चान्नमयरूपे तपश्शब्दोक्तसार्धश्लोकेन ब्रह्मत्वा- नुपपादनात्कथमेतत्षड्रूपाणां श्रवणाद्यावर्त्तनलिङ्गत्वमिति वाच्यम् । तत्रालिङ्गत्वेऽपि तदितररूपेषु लिङ्गत्वसम्भवेन ब्रह्मविषयकश्रवणा- द्यावृत्तावस्य लिङ्गत्वाविरोधात् । न च भृगुकर्तृकश्रवणादेरेकरूपवि- षयत्वाभावात्कथमियमावृत्तिरिति वाच्यम् । एकैकरूपविषयेऽपि सा- मान्यविशेषाभ्यां द्विश्चश्रवणादिप्राप्तेः ॥ १ ॥ ॥ इति आवृत्त्यधिकरणम् ॥ -- २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आत्मत्वोपास्तेर्नित्यशः कार्यत्वं समर्थ्यते । आत्मत्वं न सर्वथा सदोपास्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य- ति—आत्मेति ॥ अत्रात्मशब्दः प्रकारार्थः, इतिशब्दश्चावर्तते । तत्रा-

[ अधि - २. सू - ३. ] दीपिकासहितम्. ९९५ आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा का- र्यमेव । 'नान्यं विचिन्तय आत्मानमेवाहं विजानी- यामात्मानमुपास आत्मा हि ममैष भवति' ( ) इति ह्युपगच्छन्ति । 'आत्मैत्येवोपास्व आत्मैत्येव वि- जानीहि नान्यं किञ्चन विजानथ आत्मा ह्येषैव भवति' ( ) इति ग्राहयन्ति च । द्यो रूढ्या विष्णुपरः । द्वितीयः आदत्ते स्वीयतयाभृत्यानिति स्वामि- वाची । उपदेशः उपासनं च कार्यमिति शेषः इति भावेनात्मेति प्रतिज्ञांशं 'आत्मेत्युपासनम्' इति स्मृत्यनुसारेण व्याचष्टे—आत्मे- ति । सूत्र इवात्राप्यात्मेत्यावर्तते । तत्रैको रूढोऽन्यः स्वामिवचनः । उपदेशश्चेति चशब्दान्वयः । न केवलं तथोपासनमावश्यकं किन्तु त- थोपदेशश्च कार्य इति चशब्दार्थः । मोक्षार्थिभिरिति सौत्रतुशब्दस्या- र्थान्तरोक्तिः । अनेनात्मत्वोपास्तेरवश्यकर्तव्यत्वे तस्या एव मोक्षसा- धनत्वात् तां विना मोक्षासिद्धेरिति हेतुरुक्तो भवति—सर्वथेति । स- र्वप्रकारविघ्नेऽपि सदा कार्यमित्यर्थः । तुशब्दस्यार्थः—एवेति, न त्व- कार्यमित्येवकारार्थः । कुतः सर्वथा कार्यत्वमित्यतो हेत्वन्तरप्रतिपाद- नाय प्रवृत्तं आत्मेत्युपगच्छन्ति ग्राहयन्ति चेत्यंशं श्रुत्युदाहरणपूर्वकं व्याचष्टे—नेति । इतीति । इति श्रुत्येत्यर्थः । 'हि' यतः । उपगच्छन्ती- ति । उपासते गुरूपदेशेन जानन्ति चेत्यर्थः । उक्तं हि सुधायां उ- पगच्छन्तीत्येतत् ज्ञानार्थं उपासनार्थं चेति । अत एव श्रुतौ विजानी- यामुपास इत्युभयोक्तिः । सन्त इति सिद्धमिति च शेषः । तथा च 'हि' यतो 'न' इति श्रुत्या सन्त आत्मेत्युपगच्छन्तीति सिद्धम्, आ- त्मत्वस्योपास्यत्वं सिद्धमिति यावत् । अतो मोक्षार्थिभिरात्मा वि- ष्णुरात्मा स्वामीत्युपासनं सर्वथा कार्यमेवेति योजना । श्रुत्यर्थस्तु— अहं परमात्मनोऽन्यं न विचिन्तये । परमात्मानमेवात्मेति विजानीया- म् । परमात्मानमेवात्मेत्युपासे । न चैतदविद्यमानोपासनमित्याह— आत्मेति । 'एषः' विष्णुः 'मम' उपासकस्यात्मा स्वामीति हि यतः प्रसिद्ध इति । एवमरे शिष्य आत्मा स्वामीत्येवोपास्व, आत्मैत्येव वि- जानीहि, विष्णोरन्यं नात्मेति 'विजानथ' विजानीथाः । न चायं मि- थ्योपासनोपदेशः, 'हि' यतः 'एषः' विष्णुः आत्मा स्वामी भव- ति खल्विति । अत्रापीतीत्यनन्तरं श्रुत्येति ग्राहयन्ति चेत्यनन्तरं इति

९९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] ( २ ) आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः । नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत् ॥ इति भविष्यत्पर्वणि । ( ३ ) आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः । सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ॥ कर्तव्यो नास्य हानेन कस्य चिन्मोक्ष इष्यते ॥ इति ब्राह्मे ॥ ३ ॥ —::— सिद्धमिति च शेषः । योजना तु पूर्ववदेव । ग्राहयन्तीत्यस्योपदिश- न्तीत्यर्थः । सन्तः शिष्यानिति शेषः । चशब्द उपदिशन्तिग्राहय- न्त्योः समुच्चये, तुशब्दसूचितहेतुसमुच्चये चेति ध्येयम् ॥ ( २ ) यदात्मत्वोपासनस्य मोक्षसाधनत्वं तुशब्दार्थत्वेनोक्तं मोक्षा- र्थिभिरित्यनेन, तत् कुतो ज्ञायत इत्यत आह--आत्मेति ॥ 'आत्मा' स्वामीत्युपासनं 'सर्वथा' सर्वप्रकारेण यावच्छक्ति सदा कार्यमेव । 'एतावत्' आत्मत्वमात्रं वा न विस्मरेदित्यर्थः । भविष्यत्पर्वणीत्य- स्योक्तत्वादिति शेषेणात्मेति प्रतिज्ञावाक्येनान्वयः ॥ ( ३ ) केचित्तु—विष्णुरात्मतया जीवत्वेनोपास्यः । कुतः ? यतः 'अहं ब्रह्मास्मि' इत्युपगच्छन्ति 'तत्त्वमसि' इत्यादिना ग्राहयन्ति च शिष्यानित्यहंग्रहे प्रत्यगर्थस्य जीवात्मत्वग्रहणमेतदधिकरणप्रति- पाद्यतया वर्णयन्ति । तदयुक्तमिति भावेनाह—आत्मेति । कर्तव्यमि- ति विपरिणामेनाकृष्यते । तथा च विष्णुः 'आत्मा' स्वामीति ध्यानं कर्तव्यम् । कथम् ? 'विशेषणविशेष्यतः' भावप्रधानः सावधारण- श्च । मुमुक्षूणामिति तृतीयार्थे षष्ठी । तथा च सर्वैरपि मुमुक्षुभिर्वि- ष्णुरात्मा स्वामीति विशेषणविशेष्यभावेनैव ध्यानं कर्तव्यम् । न तु विष्णोर्जीवात्मत्वविधानेन । न केवलं ध्यानं, किन्तु तादृशः आत्मा वि- ष्णुरिति विशेषणविशेष्यभावोपेत उपदेशश्च कर्तव्यः । 'अस्य' आ- त्मत्वस्योपासनस्य 'हानेन' त्यागेनास्याकरणे कस्यापि मोक्षो नेती- ष्यते प्रामाणिकैरिति स्मृत्यर्थः । ब्राह्म इत्यनन्तरं अर्थान्तरं दूषितमि- ति वाक्यशेषः ॥ २ ॥ ॥ इति आत्माधिकरणम् ॥ —

[ अधि - ३. सू - ४. ] दीपिकासहितम्. ९९७ ३. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ न प्रतीके न हि सः ॥ ॐ ॥ ४ ॥ ‘नाम ब्रह्मेत्युपासीत’ ( छा. ७-१-५. ) इत्यादिना श ब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थ त्वेनैवोपासनं कार्यम् । ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मज्ञानार्थिनो विष्णुप्रतीकैक्योपासनवर्जन मावश्यकमिति प्रतिपाद्यते । ‘नाम ब्रह्म’ इति श्रुतेर्भगवत्प्रतिमारूपं नामवागादिकं ब्रह्मतयोपास्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य ति—नेति ॥ अत्र प्रतीक इति विषयसप्तमी । सुधोक्तरीत्या पूर्वसूत्रा दात्मेतीति पदद्वयमुत्तरसूत्राद्दृष्टिपदं च, यद्वा—उत्तरसूत्राद्ब्रह्मदृष्टिप दमेवात्र सम्बध्यत इति भावेन न प्रतीक इति प्रतिज्ञांशं कर्तव्येति प दाध्याहारेण व्याचष्टे-नाम ब्रह्मेत्युपास्त इत्यादिनेति । आदिशब्देन ‘वा चं ब्रह्मेत्युपास्ते’ इत्यादीनि गृह्यन्ते । जातयेति शेषः । कर्तव्येत्यनन्त रमितीत्यनुवर्तते । तथा च इत्यादिना वाक्येनैकविभक्तिकत्वरूपसा मानाधिकरण्यबलेन जातया अस्मिन् वाक्ये ऐक्योपासनं विधीयत इ ति शब्दविषयभ्रान्त्या मूलभूतया ‘प्रतीके’ नामवाङ्मनःसङ्कल्पादि शब्दितोषस्वाहापर्जन्यमित्रादिरूपप्रतिमाविषये ‘ब्रह्मदृष्टिः’ ब्रह्मत्यो पास्तिः कर्तव्येति यत्पूर्वपक्षिणोक्तं न तद्युक्तमिति योजना । आत्मेत्य नुक्त्वा ब्रह्मेत्युक्त्या प्रतीके आत्मेति दृष्टिर्जीवदृष्टिर्न कार्येति परव्या ख्यानं निरस्तं भवति । ‘सः’ प्रसिद्धो ‘यः’ अधिकारी नामोषारूप प्रतीकं ब्रह्मेत्युपास्ते, ‘अस्य’ तस्याधिकारिणो नाम्नो ‘यावद्गतं’ व्या प्तिस्थानं तत्र ‘कामचारो’ यथेष्टसञ्चारो भवतीति पूर्वपक्षे श्रुत्यर्थः । सिद्धान्ते तु नाम्नि ब्रह्मास्तीत्युपास्त इत्यर्थः । ननु यद्यभेदोपासनं न युक्तं तर्हि कथं उपासनं कार्यम् । न च न कार्यमेवेति वाच्यम् । श्रुत्य प्रामाण्यप्रसङ्गादित्याशङ्कते—किन्त्विति । परिहरति—तत्स्थत्वेनेति । अनेन सूत्रे प्रतीक इत्यावर्तते । अधिकरणत्वं च सप्तम्यर्थः । ब्रह्मदृष्टि रित्यत्रापि सम्बध्यते । आत्मेति दृष्टिरिति वा । किन्त्विति लभ्यते । तथा च किन्तु प्रतीकाधिकरणे ब्रह्मदृष्टिः कर्तव्येति प्रतिज्ञाशेषो दर्शि तो भवति । कुतो नेत्यतस्तद्धेतुत्वेन ‘हि’ यतः ‘सः’ आत्मा विष्णुः प्रतीकं न भवतीति सूत्रखण्डो योजनीय इति सिद्धत्वादन्यत्र व्याकृ

९९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] ( २ ) ब्रह्मतर्के च । नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥ तत्त्वाच्चान्न स न व्याकृतः ॥ ( २ ) तत्तत्त्वत्वेनैवोपासनं कार्यं, न त्वभेदेनेत्युक्तार्थे स्मृतिं चाह- ब्रह्मतर्के चेति ॥ अयमर्थ उक्त इति शेषः । न केवलमस्माभिरिति चा- र्थः । नामादीति । नामशब्दादीत्यर्थः । आदिशब्देन वाङ्मनःसङ्कल्प- चित्तध्यानविज्ञानबलान्नाप्तेजआकाशस्मराशाशब्दा गृह्यन्ते । 'प्राणप- र्यन्तं' प्राणशब्दपर्यन्तं 'उभयोः' नामादिब्रह्मपदयोः । यद्यपि नामा- दिशब्दास्सर्वानुगतब्रह्मशब्दाश्च बहव इति द्विवचनानुपपत्तिः । तथा- ऽपि प्रत्येकवाक्यविवक्षया राशिद्वयविवक्षया वा तदुपपत्तिः । प्रथमा- त्वत इति । प्रथमाविभक्त्यन्तत्वादित्यर्थः । केचित्तु—ननु छान्दोग्ये 'ना...पास्व, वाचमुपास्व' (छा. ७-१..) इत्यादिविधिवाक्यं, 'स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य कामचारो भवति.. ..वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य' (छा.७-१..) इत्या- दिफलवाक्यं च श्रूयते । तत्र चोभयोः द्वितीयान्तत्वमेव, न प्रथमा- न्तत्वं तत्कथमेतदिति चेत्—न, यतो 'नाम ब्रह्मेत्युपासीत' इति शाखान्तरीयपाठाभिप्रायेणेदं वचनम् । छान्दोग्यानुसारे- ण तु 'प्रथमात्वतः' इत्येतद्द्वितीयात्वादित्यस्योपलक्षकम् । द्वि- तीयात्वेऽपि देवदत्तं सिंहं विद्धीत्यादौ विधिबलेनैवप्रतीतेः । य- थोक्तं तत्त्वप्रदीपे प्रथमात्वत इति सन्निकृष्टोपलक्षणं, प्रथमात्वात् द्वि- तीयात्वादित्यर्थः । शाखान्तरे प्रथमात्वादित्याहुः । तन्न, भाष्यपुस्त- केषु शाखान्तरपाठस्यादर्शनात्, तत्त्वप्रदीपरीत्या शाखान्तरपाठस्य स्मृत्यभिप्रेतत्वेऽपीह भाष्ये तदुपादाने नियामकाभावाच्च, फलवाक्य- गतनपुंसकनामब्रह्मपदयोरितिशब्दशिरस्कयोः प्रथमान्तत्वेन तयोर्वि- षयत्वे सति सम्भवति द्वितीयान्तत्वमाश्रित्याक्षेपस्य तदज्ञानमूलत्वा- च्च । यथोक्तं छान्दोग्यव्यासतीर्थीये—नाम ब्रह्मोपास्वेत्याद्युक्ताः द्वितीयाः स यो नाम ब्रह्मेत्युपास्ते इत्याद्युक्ताः प्रथमाश्च सप्तम्यर्थतया व्याख्या- ता इति । तस्मात् छान्दोग्यस्थफलवाक्यानुसारेणैवैतद्वचनम् । पर- न्तु प्रथमात्वत इत्येतदजहत्स्वार्थलक्षणया द्वितीयात्वत इत्यस्याप्युप

[ अधि - ३. सू - ४. ] दीपिकासहितम्. ९९९ नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते । लक्षकम् । तत्त्वप्रदीपोऽप्युभयोपलक्षकत्वाभिप्रायः । तथा चोपलक्ष णापक्षे फलवाक्ये उभयोः प्रथमात्वेन द्वितीयात्वाभावेऽपि विधिवा क्ये ब्रह्मपदानुवर्तनेनोभयोर्द्वितीयात्वं सम्पाद्य द्वितीयात्वत इत्येतत्प रतया योजनीयमिति सिद्धयति । अनेन ‘वाचं ब्रह्म’ इत्यादिवाक्य मपि गृहीतं भवति । शाखान्तरे प्रथमात्वादिति तत्त्वप्रदीपस्तु शाखा न्तरीयविधिवाक्य इत्यर्थकः । ‘मनो हि ब्रह्म मन उपास्व’ (छा० ७ - ३ . ) इत्यत्रत्यश्रुतिवत् ‘नाम हि ब्रह्म, वाग्घि ब्रह्म’ इ त्यपि शाखान्तरे पाठोऽस्तीति तदभिप्रायको वा भवतीति न तद्वि रोधः । अन्ये तु—उपलक्षणां विना ‘प्रथमयोः पूर्वसवर्णः’ इत्य त्रेव प्रथमात्वत इत्यस्य प्रथमा च द्वितीया च प्रथमे तयोः भावः प्रथमात्वम् , तत इत्यर्थ इत्याहुः । एके तु — ‘मनो हि ब्रह्म मन उपास्व’ इति पुनराख्यप्रतीकविषयवाक्ये मनो हि ब्र ह्मेति मनोब्रह्मपदयोः प्रथमान्तत्वदर्शनात्तद्वाक्यबलेन ‘नाम हि ब्र ह्म, वाग्घि ब्रह्म’ इत्यादिवाक्यानां सर्वत्रोहे क्रियमाणे नामादिप दानां ब्रह्मपदस्य च सर्वत्र प्रथमान्तत्वमस्तीति भावेन ‘नामादि प्राणपर्यन्तमुभयोः प्रथमात्वतः’ इत्युक्तम् । एवमेव शाखान्तपाठोऽप्य स्तीति सम्प्रदायविद इत्याहुः । प्रथमात्वत इत्यनन्तरं निमित्तादिति शे षः । उभयोरैक्यदृष्टिरिति । अभेदोपास्तिरित्यर्थः । अत्र कर्तव्यतयो च्यत इति शेषः । भ्रान्तिरित्यस्य भविष्यतीत्यनेनान्वयः । सामानाधि करण्यबलेन तथा भ्रान्तिसम्भवादिति भावः । भ्रान्तौ मूलकारणमा ह—‘अबुधानां’ अज्ञानामिति । ननु कस्मादियं भ्रान्तिरबुधानां क ल्प्यते, बुधानामेवं प्रमैव किं न स्यादित्यत आह—नामादीति । नामा दौ स्थितिरवस्थानं ‘अत्र’ ‘नामब्रह्म’ इत्यादिवाक्येषु ‘ब्रह्मणो’ ‘धि ष्णोः ‘हि’ यतः ‘विधीयते’ अभिधीयते । नामेति प्रथमाया वाचमि ति प्राणमिति द्वितीयायाश्च तर्हि का गतिः इत्यत आह—सर्वार्थेति । प्रथमेति द्वितीयाया अप्युपलक्षकम् । तथा च यस्मात्प्रथमा ‘सर्वार्था’ सर्वविभक्त्यर्थका तथा द्वितीया प्रथमा व्यतिरिक्तसर्वार्था ‘ततः’ त स्मात् ‘सप्तम्यर्था’ सप्तमीविभक्त्यर्था अधिकरणत्वार्थका मतेति यो

१००० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] सर्वार्थो प्रथमा यस्मात्सप्तम्यर्था ततो मता ॥ इति ॥ ४ ॥ —-:--— ४. अधिकरणम् ॥ ( १ ) सू--ॐ ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ॐ ॥ ५ ॥ ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् । जना । इति ब्रह्मतर्के इत्यन्वयः ॥ ३ ॥ ॥ इति प्रतीकाधिकरणम् ॥ —*— ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मत्वोपास्तेरावश्यकत्वं समर्थ्यते । ब्रह्मत्व स्यैव सदा विशिष्ट्योपासने कारणाभावान्न ब्रह्मत्वं सर्वथोपास्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—ब्रह्मेति ॥ अत्रात्मेति सूत्रात्परमेश्वर वाची सप्तम्यन्ततया विपरिणतः आत्मशब्दोऽनुवर्तते । एवं तुशब्दोऽ पि सर्वथेत्यर्थकस्सन् गुणान्तरोपासनादस्य विशेषद्योतकोऽवधारणा र्थश्चार्थकश्च । कार्येति शेष इति भावेन ब्रह्मदृष्टिरिति प्रतिज्ञांशं व्या चष्टे—ब्रह्मदृष्टिरिति । चः समुच्चये । एवकारो भिन्नक्रमः । तथा च न केवलमात्म दृष्टिः, किन्तु ‘परमेश्वरे’ भगवत्येव ‘ब्रह्मदृष्टिः’ सर्वो त्कृष्टत्वोपास्तिश्च कार्येत्यर्थः । सा च परोकरीत्या न प्रतीके कार्या ‘न हि सः’ इति पूर्वन्यायेन निरस्तत्वात्किन्तु भगवत्येवेति भावेनाह— परमेश्वर इति । उभयोपास्तिप्रकारस्तु वक्ष्यते । कुत इत्यत उत्कर्षा दिति हेतुं व्याचष्टे—उत्कृष्टत्वादिति । परमेश्वरस्येति विपरिणामेना नुषङ्गः । यद्वा—ब्रह्मत्वस्येति शेषः । अथ वा—ब्रह्मदृष्टेरिति विपरिणा मेनान्वयः । ननु सूत्रे उत्कर्षादित्युकम्, भाष्ये चोत्कृष्टत्वादिति तदे वोक्तम् । तत्कथमनेन हेत्वर्थनिर्णयः कथं च हेतुसद्भाव इति चेदुच्य ते, यथा आत्मदृष्टिस्तथा ब्रह्मदृष्टिः ब्रह्मत्वोपास्तिश्च परमेश्वर एव का र्येति प्रतिज्ञा । तत्र हेतुः—उत्कर्षादिति तस्यार्थः । परमेश्वरस्योत्कृष्ट त्वादिति भगवतो ब्रह्मत्वोपास्त्या उत्कृष्टत्वसिद्धेः । ब्रह्मत्वोपास्तौ उ पासकेन कृतायां भगवदुत्कृष्टत्वोपास्तिरेव कृता स्यादिति फलिता र्थः । ननु ब्रह्मत्वोपासनेऽपि कथमुत्कृष्टत्व

[ अधि - ४. सू - ५. ] दीपिकासहितम्. १००१ ( २ ) ब्रह्मदृष्ट्या सदोपास्यो विष्णुस्सर्वैरपि ध्रुवम् । महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि । सर्वतः प्रीतिजनकमदस्तत्सर्वथा भवेत् ॥ ( ३ ) आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता । कार्यैव सर्वथा विष्णोर्ब्रह्मत्वं न परित्यजेत् ॥ स्वादित्यर्थः । तदपि कुतः ? 'उत्कृष्टत्वात्' ब्रह्मत्वे सर्वगुणान्तर्भावेन ब्रह्मपदप्रवृत्तिनिमित्तब्रह्मत्वस्यान्तर्भावितसर्वगुणत्वेनोत्कृष्टत्वरूपत्वा दित्यर्थः । तथा च ब्रह्मत्वोपासनमुत्कृष्टत्वोपासनं भवत्येवेति भावः । ननु तथाऽपि कुतो गुणान्तरपरित्यागेनास्योपासनमित्यतोऽप्याह---उ त्कृष्टत्वादिति । गुणान्तरोपासनेभ्योऽस्यैवोपासनस्योत्कृष्टत्वादतिश येनोत्कृष्टप्रसादहेतुत्वादिति ॥ ( २ ) सूत्रार्थे स्मृतिं चाह—ब्रह्मेति ॥ धान्येन धनवानितिवदत्रा भेदे तृतीया । तथा च विष्णुस्सर्वैर्ब्रह्मदृष्ट्या सर्वोत्कृष्टत्वोपासनेन 'उ पास्यो' विषयीकर्तव्य इत्यर्थः । अनेन ब्रह्मदृष्टिरित्यंशो व्याख्यातः । अत्र हेतुमाह--महत्त्वेति । 'अयं शब्दो' ब्रह्मशब्दः । यत इति शेषः । अनेन हेत्वंशो व्याकृतः । गुणान्तरपरित्यागेनास्यैव उपासने कार णमाह—महत्त्वेति । ज्ञानमुपासनं 'हि' यतः । 'सर्वतो' लक्ष्म्यादि सर्वेभ्यो महत्त्वज्ञानमित्यन्वयः । यद्वा—सर्वतो गुणान्तरोपासनादा धिक्येनेति शेषः । भवेदित्यतः प्रात्कार्यमित्युपस्कार्यम् । तथा चेत्थं योजना—यतोऽयं शब्दो महत्त्ववाची 'हि' यस्मान्महत्त्वज्ञानमेव स र्वतः प्रीतिजनकं, अतस्तन्महत्त्वज्ञानं सर्वथैव कार्यं भवेत्, यत एव मतो विष्णुस्सदोपास्य इति ॥ ( ३ ) आत्मत्वोपासनवत् ब्रह्मत्वोपासनं विनाऽपि मोक्षासम्भवा न्नैतत्कार्यमिति भावेन चशब्दज्ञापितार्थे प्रमाणमाह—आत्मेति ॥ य दा विष्णोरात्मेत्युपासा विष्णुधर्मिकात्मत्वप्रकारकोपासना मोक्षासि द्ध्यर्थमधिकारिणा कार्यैव, तां विना मोक्षाभावादिति भावः । तदा ब्रह्मत्वोपासनाभावेऽपि मोक्षाभावात् तदर्थे 'ब्रह्मत्वसंयुता' तत्प्रका रिकाऽप्युपासना 'सर्वथा' सर्वप्रकारविघ्नेऽपि कार्यैवेति योजना । अ स्मिन् पक्षे न चतुर्गुणनियमः । एतदेव विवृणोति—ब्रह्मत्वमिति । ब्रह्म त्वोपासनमित्यर्थः । अनेन ब्रह्मदृष्टिं विना मोक्षाभावेनोत्कृष्टसाधन त्वादात्मनि ब्रह्मदृष्टिः कार्येति सूत्रस्य वृत्त्यन्तरं दर्शितं भवति । ननु १२६

१००२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] इति ब्रह्मतर्के ॥ ५ ॥ —:✲:— ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ॐ ॥ ६ ॥ 'चक्षोस्सूर्यो अजायत' (ऋ. १०-९०-१३.) इत्या- द्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानत्वा ब्रह्मत्वस्याप्यवश्योपास्यत्वे चतुर्गुणोपासनानियमभङ्गस्स्यादित्यतो वा ऽऽह—आत्मेति । अस्मिन् पक्षे यदा आत्मेत्युपासा प्रवर्तते तदा 'ब्रह्म- त्वसंयुता' सर्वोत्कृष्टस्वामी विष्णुरित्यात्मत्वविशेषणत्वेन ब्रह्मत्वविष- यिणी कार्येति योजना । ब्रह्मतर्के चेति । अयमर्थ उक्त इति शेषः । न केवलमस्माभिरिति चार्थः ॥ ४ ॥ ॥ इति ब्रह्माधिकरणम् ॥ —:✲:— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्ण्वङ्गाश्रितत्वेन देवतोपासनमावश्यकमिति साध्यते । आदित्यादिभिर्देवैः स्वस्वोत्पत्त्यङ्गाश्रितत्वेनोपासनं सदा स- र्वथा न कार्यं, तेषां सदा तत्र स्थित्यभावात्, गुणान्तरेषु सत्सु भगव- दङ्गाश्रितत्वेन विशिष्य स्वचिन्तने कारणविशेषाभावाद्वेति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—आदित्यादीति ॥ अत्रादित्यादिमतय इति प्र- तिज्ञांशं व्याचष्टे—चक्षोरिति । इत्यादीति । इत्यादिनेत्यर्थः । उक्तमि- ति शेषः । यद्यप्यत्रोपासनं नोक्तम् । तथाप्युक्तेरुपासनार्थत्वादमृत इति फलोक्तेश्चार्थादुपासनमुक्तमिति भावः । उपासनमित्यतः प्राक् अङ्ग इत्युपस्कार्यम् । विषयसप्तमीयम् । तथा च स्वाश्रयत्वेन भगव- दङ्गोपासनमित्यर्थः । अनेन मतिशब्दो ज्ञानविशेषरूपोपासनोपलक्षक इत्युक्तं भवति । न केवलं पूर्वोक्तमिति चार्थः । देवानामिति । देवैरित्य- र्थः । कार्यमित्यनेन सूत्रे कार्या इति शेषो दर्शितः । चशब्दस्यार्थः— एवेति । को विशेषहेतुरित्यतः प्रवृत्तस्य उपपत्तेरित्यस्यार्थमाह—मु- क्तौ तत्र 'लयस्य' प्रवेशस्य अपेक्षितत्वादिति । नन्वप्रयोजकोऽयं हे- तुरिति चोद्योत्तरत्वेनापि—उपपत्तेरिति हेतुर्योज्यः । उपासनस्य फ- लसाम्येन कार्यत्वादिति तदर्थः । ननु मुक्तौ तत्र लयोऽसिद्ध इत्यतो ऽपि—उपपत्तेरित्याह । तदर्थः—स्वोत्पत्तिस्थानत्वादिति । स्वशब्द-