पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1044, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ४. ] दीपिकासहितम्. ९९७ ३. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ न प्रतीके न हि सः ॥ ॐ ॥ ४ ॥ ‘नाम ब्रह्मेत्युपासीत’ ( छा. ७-१-५. ) इत्यादिना श ब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थ त्वेनैवोपासनं कार्यम् । ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मज्ञानार्थिनो विष्णुप्रतीकैक्योपासनवर्जन मावश्यकमिति प्रतिपाद्यते । ‘नाम ब्रह्म’ इति श्रुतेर्भगवत्प्रतिमारूपं नामवागादिकं ब्रह्मतयोपास्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य ति—नेति ॥ अत्र प्रतीक इति विषयसप्तमी । सुधोक्तरीत्या पूर्वसूत्रा दात्मेतीति पदद्वयमुत्तरसूत्राद्दृष्टिपदं च, यद्वा—उत्तरसूत्राद्ब्रह्मदृष्टिप दमेवात्र सम्बध्यत इति भावेन न प्रतीक इति प्रतिज्ञांशं कर्तव्येति प दाध्याहारेण व्याचष्टे-नाम ब्रह्मेत्युपास्त इत्यादिनेति । आदिशब्देन ‘वा चं ब्रह्मेत्युपास्ते’ इत्यादीनि गृह्यन्ते । जातयेति शेषः । कर्तव्येत्यनन्त रमितीत्यनुवर्तते । तथा च इत्यादिना वाक्येनैकविभक्तिकत्वरूपसा मानाधिकरण्यबलेन जातया अस्मिन् वाक्ये ऐक्योपासनं विधीयत इ ति शब्दविषयभ्रान्त्या मूलभूतया ‘प्रतीके’ नामवाङ्मनःसङ्कल्पादि शब्दितोषस्वाहापर्जन्यमित्रादिरूपप्रतिमाविषये ‘ब्रह्मदृष्टिः’ ब्रह्मत्यो पास्तिः कर्तव्येति यत्पूर्वपक्षिणोक्तं न तद्युक्तमिति योजना । आत्मेत्य नुक्त्वा ब्रह्मेत्युक्त्या प्रतीके आत्मेति दृष्टिर्जीवदृष्टिर्न कार्येति परव्या ख्यानं निरस्तं भवति । ‘सः’ प्रसिद्धो ‘यः’ अधिकारी नामोषारूप प्रतीकं ब्रह्मेत्युपास्ते, ‘अस्य’ तस्याधिकारिणो नाम्नो ‘यावद्गतं’ व्या प्तिस्थानं तत्र ‘कामचारो’ यथेष्टसञ्चारो भवतीति पूर्वपक्षे श्रुत्यर्थः । सिद्धान्ते तु नाम्नि ब्रह्मास्तीत्युपास्त इत्यर्थः । ननु यद्यभेदोपासनं न युक्तं तर्हि कथं उपासनं कार्यम् । न च न कार्यमेवेति वाच्यम् । श्रुत्य प्रामाण्यप्रसङ्गादित्याशङ्कते—किन्त्विति । परिहरति—तत्स्थत्वेनेति । अनेन सूत्रे प्रतीक इत्यावर्तते । अधिकरणत्वं च सप्तम्यर्थः । ब्रह्मदृष्टि रित्यत्रापि सम्बध्यते । आत्मेति दृष्टिरिति वा । किन्त्विति लभ्यते । तथा च किन्तु प्रतीकाधिकरणे ब्रह्मदृष्टिः कर्तव्येति प्रतिज्ञाशेषो दर्शि तो भवति । कुतो नेत्यतस्तद्धेतुत्वेन ‘हि’ यतः ‘सः’ आत्मा विष्णुः प्रतीकं न भवतीति सूत्रखण्डो योजनीय इति सिद्धत्वादन्यत्र व्याकृ