पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1051, कुल 1267 में से
संदर्भ में पढ़ें१००४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] ( ३ ) स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु । तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः । तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः ॥ इति ॥ ६ ॥ -- ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आसीनस्सम्भवात् ॥ ॐ ॥ ७ ॥ सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । त ( ३ ) एवमतीताधिकरणार्थोपयुक्तांशमुदाहृत्य पतदधिकरणोपयुक्तं स्मृत्यंशमुदाहरति—स्वोत्पत्त्यङ्गं चेति । 'देवानां' देवैर्विष्णोस्स्वोत्प- त्त्यङ्गं च सदैव चिन्त्यम् । स्वाश्रयत्वेनेति शेषः । न केवलं ब्रह्मत्वादी- ति चशब्दार्थः । अत्र हेतुमाह—'तेषां' देवानामिति । 'तत्र' अङ्गेषु 'हि' यतः । न चान्यथोपासनमेतदित्याह—तदाश्रिताश्चेति । 'ते' दे- वाः 'नित्यं' रूपान्तरेणाङ्गाश्रिता एवेत्यर्थः । 'ततः' तदाश्रितत्वात् 'विशेषतो' विशिष्य सर्वथा देवाश्रयाङ्गं देवैश्चिन्त्यमित्यर्थः । इति ना- रायणतन्त्र इत्यन्वयः ॥ ५ ॥ ॥ इति आदित्याधिकरणम् ॥ -::– ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आसनादिनियमस्साध्यते । प्रयोजनाभावा- द्धासनं सर्वथाऽपेक्षितमिति पूर्वपक्षे सिद्धान्तयत्तत्सूत्रमुपन्यस्यति— आसीन इति ॥ अत्र पूर्वस्माच्चशब्दोऽनुवर्तते । स चाप्यर्थोऽवधारणे च । जिज्ञासुरुपासनं कुर्यादिति च शेष इति भावेन प्रतिज्ञांशं व्या- चष्टे—सर्वदोपासनं कुर्वन्निति । 'सर्वदा' स्थितिगत्यासनादिसर्वका- लेषु 'उपासनं' सामान्यस्मरणादि । कुर्वन्निति । जिज्ञासुरिति शेषः । अपिशब्दो हेतुवाक्ये सम्बध्यते । आसीन इति सावधारणम् । तेनानु- वृत्तचशब्दो व्याख्यातः । 'विशेषतः' सर्वथा कुर्यादिति । अत्रापि उ- पासनमिति सम्बध्यते । अत्रोपासनं वस्तुतो ध्यानम् । तथा चेत्थं प्र- तिज्ञावाक्ययोजना—उपासनं कुर्वन् जिज्ञासुः 'आसीनः' उपविश- न्नेवोपासनं विशेषतः 'सर्वथा' सर्वप्रकारविघ्नेऽपि कुर्यादिति । आ- सीनस्योपासने सर्वदोपासनाऽभावः स्यादिति शङ्कावारणाय—सर्वदो- पासनं कुर्वन्नित्याह । तथा चाधिकारी सर्वदोपासनं कुर्वन्नेव भवेत् ।