पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1092, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०४५ इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च। ( ३ ) ‘आचार्यस्तु ते गतिं वक्ता’ (छा. ४-१४-१.) इति हि लिङ्गम्। ( ४ ) हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु। तच्च संस्कृतत्वं मनोधर्मस्तेन चात्मोपचर्यत इति ध्येयम् । ‘स्मृतेः’ गीतास्मृतेः । विद्याशेषेति हेतुगर्भं विशेषणम् । तथा च तस्या विद्या- याः ज्ञानस्य शेषः फलोपकार्यङ्गं शरीरत्यागकाले यत्स्वहृदयमारभ्य ब्रह्मपर्यन्तगम्यविषयानुस्मरणं तेन योगः साहित्यं तस्मादित्यर्थः । न केवलं विद्यासामर्थ्यादिति चशब्दार्थः । तथा च ज्ञानी न केवलं वि- द्यासामर्थ्याद्देहान्निष्क्रामति, येनातिप्रसङ्गः, किन्तु गत्यनुस्मृतियोगा- च्च । न चैवं सत्युत्क्रमणे ज्ञानस्याहेतुत्वं प्राप्नोति । न चोभयोः साम्य- म् । यतो गत्यनुस्मरणं विद्याशेषः । ननु भवेच्छेषः, यदि गत्यनुस्म- रणं गतिप्राप्तिकारणं स्यात् । तदेव कुतः ? ‘यंयं वापि’ इति स्मृते- रेवेति योजना ॥ ( ३ ) ननु तथाऽपि ‘यंयम्’ इति सामान्येनोक्तत्वात् गत्यनुस्म- रणं तत्प्राप्तिकारणमित्यर्थे न विशेषप्रमाणमस्तीत्यत आह—आचार्य- स्त्विति ॥ ‘आचार्यः’ सत्यकामः । छन्दोगे उपकोसलं प्रत्यग्नीनां वा- क्यमेतत् । ‘इति’ एवंरूपं स्मरणार्थं गतिश्रवणोत्तरभावीदं वाक्यमि- त्यर्थः । यद्वा—एतद्वाक्योक्तं गतिश्रवणमित्यर्थः । वक्तृत्वोक्त्या श्रोतृ- त्वस्याप्युक्तत्वादिति भावः । ‘हि’ यतः ‘लिङ्गं’ गतिस्मरणस्य त- त्प्राप्तिसाधनत्वे ज्ञापकमस्तीत्यर्थः । अन्यथा स्मरणार्थं गतिश्रवणं व्य- र्थं स्यादिति भावः । लिङ्गमित्यस्यात इति शेषेण गत्यनुस्मृतियोगाच्चे- ति पूर्वेणान्वयः ॥ ( ४ ) इदं चोत्क्रमणं न गत्यनुस्मरणयुक्तेन सामर्थ्येन स्वतन्त्रेण भवति, किं तर्हि ? ज्ञानादिना प्रसन्नस्य भगवतोऽनुग्रहेणैवेति वक्तुं- हार्देत्यंशः प्रवृत्तः । तं तत्पदसूचितस्मृत्युदाहरणेन व्याचष्टे हृदिस्थे- नेति ॥ सहयोगे तृतीया । तुरवधारणे । उपासत इति बहुष्वेकवच- नम् । तथा च हृदिस्थेन हरिणा सहैव तस्यानुग्रहेणैवान्त्यकाले तं हरिमेव ‘उपासत’ ध्यायतां प्रतीकालम्बनानां अप्रतीकालम्बनानां च पुं- सां ‘ब्रह्मरन्ध्रेण’ ब्रह्मनाड्योत्क्रान्तिर्भवेदित्यर्थः । यथोक्तं बृहद्भाष्ये— धिष्ण्योर्लोकं परं गच्छन् निष्क्रामन् मूर्ध्न एव तु ।