पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1129, कुल 1267 में से
संदर्भ में पढ़ें१०८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] ६. अधिकरणम् ॥ (१) सू—ॐ ॥ सङ्कल्पादेव च तच्छ्रुतेः ॥ ॐ ॥ ८ ॥ न तेषां भोगादिषु प्रयत्नापेक्षा । 'स यदि पितृलोक- कामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति' ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुक्तस्य सङ्कल्पमात्रसाध्यभोगः समर्थ्यते । तत्र मुक्तानां भोगादिषु तत्तदुपायसाध्यसाधनापेक्षाऽवश्यकीति पूर्व- पक्षे सिद्धान्तयत्सूत्रं पठति—सङ्कल्पादेवेति ॥ अत्र चशब्दो निपा- तत्वेनानेकार्थत्वात् नञर्थः सन् पूर्वपक्षनिवृत्तिरूपार्थमाह । तत्त्वप्रदी- परीत्या एवशब्दो वा एतमर्थमाहेत्याशयेन तमर्थं दर्शयति—न तेषा- मिति । 'तेषां' मुक्तानां भोग इष्टानुभवः । आदिपदेन तत्त्वप्रदीपरी- त्या सौत्रचशब्दार्थभूता निष्ठा परमा गृह्यते । प्रयत्नापेक्षेति । तत्तदु- पायसाध्यसाधनापेक्षेत्यर्थः । प्रयत्नापेक्षेत्यनन्तरं किन्तु सङ्कल्पादेव तत्सिद्ध्यतीति वाक्यशेषः । एवं सूत्रेऽपि । कुत एतदित्यतः प्रवृत्तं तच्छ्रु- तेरिति हेतुपदं सा च सा श्रुतिश्चेति विग्रहं तच्छब्दस्य सङ्कल्पादेवे- त्येतद्रूपपरामर्शित्वं चाभिप्रेत्य श्रुत्युदाहरणपूर्वं व्याचष्टे—स यदी- ति । आदिपदेन 'तेन पितृलोकेन महीयते । अथ यदि मातृलोकका- मो भवति' इत्यारभ्याम्नातं 'यं यमन्तमभिकामो भवति यं कामं का- मयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते' इत्यन्तं समग्रवाक्यं गृह्यते । 'स यदि' इतिच्छान्दोग्यश्रुतेरयमर्थः—'सः' मुक्तो यदि पितॄणां विष्णुलोको भूयात् तदनन्तरं तदवलोकोऽपि म- म भूयादिति 'पितृलोककामः' तदपेक्षो भवति । तदा 'अस्य' मुक्तस्य 'सङ्कल्पात्' अपेक्षावशादेव अस्य पितरः 'समुत्तिष्ठन्ति' स्वयोग्य- साधनमापाद्य संसारान्मुक्ताः सन्तः पुरस्स्थिता भवन्ति । ततश्च 'तेन पितृलोकेन' तद्दर्शनेन 'सम्पन्नो' युक्तः सन् 'महीयते' स्वा- वरैः पूज्यत इति । एवमन्यान्यपि वाक्यानि व्याख्येयानि भवन्ति । अत्र पित्रादयः स्वरूपपित्रादयो विवक्षिताः ते च चरमशरीरपित्राद- य एव 'चरमे तु यथा निजम्' इति वचनात्ते च योग्या एवेति सं- प्रदायविदः । उपसंहरति—यं यमिति । 'अन्तं' देशमवसानं निर्णयं वा । 'कामं' काम्यम् । इति सूत्रे तदिति व्यस्तं समस्तं चावर्तते । त