भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1141, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1141

१०९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] सू—ॐ ॥ प्रकरणादसन्निहितत्वाच्च ॥ ॐ ॥ १८ ॥ जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । (३) वाराहे च— स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामस्स्यादन्यान् कामांस्तु भुञ्जते ॥ तद्योग्यता नैव तेषां कदाचित्क्वापि विद्यते । न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत् ॥ इ ति ॥ १८ ॥ (२) कुतः सर्वश्रुतेस्सङ्कोच इत्याक्षिपति—कुत इति ॥ तत्परि- हाराय सूत्रं पठित्वा प्रतिज्ञायाः पूर्वसूत्रेणैव प्राप्तत्वात्तामनुक्त्वा सौ- त्रहेतुं व्याचष्टे—प्रकरणादिति ॥ अस्य जीवप्रकरणत्वादित्यनेन सूत्रे जीवेत्यादौ ग्राह्यं भावप्रधानो निर्देश इत्युक्तं भवति । अयं हेतुसाध- को हेतुः । साक्षाद्धेतुस्तु अत्रोच्यमानस्य जीवत्वादिति जीवपदसूचि- तः । तादृगिति । जगद्व्यापारशक्तिरहितत्वादित्यर्थः । अयं च हेतुः । साक्षाद्धेतोरप्रयोजकत्वशङ्कापरिहारकः । अत्रापि जीवत्वादित्येव हेतु- स्सोऽपि द्वितीयजीवपदेन सूचितः, अत एव सूत्रे हेतूनां समुच्चये च- शब्दः प्रायोजि ॥ (३) ननु संसारिजीवानां तादृक्सामर्थ्यविदूरत्वेऽपि सत्यकामा- नां मुक्तजीवानां तत्सम्भवत्यतो जीवत्वहेतुरसत्यकामत्वोपाधियुक्तोऽ- प्रयोजक इयतश्चशब्दसूचितां स्मृतिमुदाहरति—वाराहे चेति ॥ न केवलं सूत्र इति चार्थः । अयमर्थ उक्त इति शेषः । स्वेति । स्वयोग्या- दधिकेत्यर्थः । अपिस्समुच्चये । तुश्चार्थे । प्राप्तिश्च न स्यादिति उक्ता- दन्यांस्तु कामयन्ते कामितांश्च भुञ्जत इत्यन्वयः । स्वाधिकेति उत्तरा- धिकरणोपयोगितयोक्तम् । कुतोऽकाम इत्यत आह—तदिति । ‘कदा- चित्क्वापि’ स्थाने अधिकानन्दे सृष्ट्यादिव्यापारे च ‘तेषां’ मुक्तानां ‘योग्यता’ सामर्थ्यं न विद्यत एव, यतोऽतो नैव कामः स्यादित्यन्वयः। नन्वयोग्यस्याप्यप्राप्त्यकामौ कुतो, व्याप्त्यभावादित्यत आह—न चे- ति । विशेषणान्तरसमुच्चयेऽपिः । तथा च सत्यकामोऽपीत्यर्थ इति के- चित् । न केवलं संसारीत्यपरे । वस्तुतस्तु यः कोऽपीत्यर्थेऽपिशब्दः । अनेन व्याप्तिरुक्ता भवति । आद्यश्चोऽवधारणे । द्वितीयस्समुच्चये । इ