पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1142, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. - सू - १९. ] दीपिका सहितम्. १०९५ ( ४ ) सू—ॐ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्ड लस्थोक्तेः ॥ ॐ ॥ १९ ॥ 'ता यो वेद, स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावह न्ति' (तै.उ.१-५.) इति प्रत्यक्षोपदेशाज्जगदैश्वर्यमप्य ति वाराह इत्यन्वयः । असत्यकामत्वं तु 'नैव योग्यता' इति स्मृत्या निश्चितसाध्यवति पक्षे अभावेन साध्याव्यापकत्वान्नोपाधिरिति भावः॥ ( ४ ) मुक्तस्य जगदैश्वर्याभावमाक्षिप्य समादधत्सूत्रमुपन्यस्य पू र्वपक्षांशं व्याचष्टे—प्रत्यक्षेति ॥ इति वाक्ये प्रत्यक्षं स्फुटमेव मुक्तस्या खिलदेवतापूज्यत्वप्रथमोत्पन्नत्वाय्युपदेशाच्छ्रवणादित्यर्थः । सूत्रेऽध्या हार्यां पूर्वपक्षप्रतिज्ञां दर्शयति-जगदैश्वर्यमस्तीति । अशेषमुक्तानामि त्युपस्कार्यम् । 'ता वा एताश्चतस्रश्चतुर्धा, चतस्रश्चतस्रो व्याहृतयः, ता यो वेद' ( तै.उ.१-५० ) इत्यादि तैत्तिरीयश्रुतेरयमर्थः । भूर्भुवस्सु वर्मह इति चतस्रो व्याहृतयः तच्छब्दवाच्याः लोकज्योतिःप्राणवेदेषु स्थिता अनिरुद्धादिभगवद्रूपविशेषाः प्रत्येकमनिरुद्धादिभेदेन चतुर्धा भवन्ति । ते तु अनिरुद्धानिरुद्धः अनिरुद्धप्रद्युम्नोऽनिरुद्धसङ्कर्षणोऽनि रुद्धवासुदेव इत्यादिरूपाः । ता एव चतस्रः चतस्रः षोडशमूर्तयः । यथोक्तं तैत्तिरीयभाष्ये— लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः । प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ इति ॥ व्याहरणनिमित्ताद्व्याहृतिशब्दिताः । 'ताः' मूर्तीर्यो वेद स एव परं ब्रह्म वेद । 'अस्मै' षोडशात्मविदे सर्वे देवाः 'बलिं' करं 'आवह न्ति' प्रयच्छन्ति । सर्वदेवपूज्यो भवतीति यावदिति । परिहारांशं व्याचष्टे—नेति । नैतच्छ्रुतिबलेनाशेषमुक्तानां जगदैश्वर्यसिद्धिरित्य र्थः । कुतो नेत्यतः श्रुतावशेषमुक्तानुक्तेरित्याशयेन आधिकारिकेति हे त्वंशं सावधारणं भावप्रधानत्वं आवृत्तिं चाभिप्रेत्य व्याचष्टे—आधि कारिकेति । आधिकारिकमण्डलाधिपत्ये इत्यर्थः । प्रकारसमर्पकमि दं ब्रह्मेत्यनन्तरं योज्यम् । 'हि' यस्मात् । अत्राधिकारिकशब्दो यौ गिको न तु आधिकारिका इति पुरुषविशेषसंज्ञा 'प्रजापाश्च तथा देवाः' इति वचनादिति प्रमेयदीपिकोक्तरीत्या रूढः । तथा च तत्रो दाहृतवाक्ये ये आधिकारिकाः स्वावरप्रेरणाधिकारे विष्णुना नियु