पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1143, कुल 1267 में से
संदर्भ में पढ़ें१०९६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ४.] स्तीति चेन्न, आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि तत्रोच्यते । ( ५ ) गारुडे च— आत्मैत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥ काश्चतुर्मुखेतरमुक्तदेवाः तेषां मण्डलं समूहः तत्र स्वामित्वेन तिष्ठ तीति तत्स्थः तदधिपतिः तस्यैव मुक्तविरिञ्चस्यैव आधिकारिकमण्ड लस्थत्वस्यैव मुक्ताधिकारिकदेवतापूज्यत्वस्यैव उक्तेरिति हेत्वर्थ उ क्तो भवति । 'ता यो वेद' इति श्रुतेः विरिञ्चपरत्वं 'माहाचमस्यः' ( तै. उ. १-५० ) इत्युपक्रमात्सिद्धम् । माहाचमस्यशब्दश्च महाचमसनामाऽसौ यस्मादतिचमत्कृतिः । माहाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥ इति तैत्तिरीयभाष्योदाहृतवचनाच्चतुर्मुखपरः । सूत्रे मुक्तदेवमण्डले ति वाच्ये अत्राधिकारिकेत्युक्तिर्मुक्तब्रह्माऽन्यदेवानापि मुक्तस्वाव रनियमनाधिकारिक