पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1152, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. - सू - २२. ] दीपिकासहितम्. ११५
न तु साधनभूता सा सिद्धिरैवात्र सा यतः ॥ इति ॥ २१ ॥ ( ३ ) सू — ॐ ॥ भोगमात्रसाम्याल्लिङ्गाच्च ॥ ॐ ॥ २२ ॥ न च भोगविशेषादिविरोधः । 'एतमानन्दमयमात्मा नमनुविश्य न जायते न म्रियते न हसते न वर्धते य थाकामं चरति यथाकामं पिबति यथाकामं रमते आह — सिद्धिरैवेति । अत्र सेत्यनुवर्तते । पुनः अत्रेत्येकं पदम् । तथा च 'अत्र' मुक्तौ सा उपासना यतः 'अत्रसा' भयरहिता सिद्धिरैव मोक्षफलरूपैवातस्सुखरूपैव न तत्साधनभूतेत्यर्थः । मुक्तेरभयत्वं च 'अथ सोऽभयं गतो भवति' (तै.उ.२-७.) इति श्रुतिसिद्धम् । हरेरि- त्यादिना दर्शयतश्चेत्यनेन यदुपासनस्य वृद्ध्याद्यकारणत्वमुक्तं यो- जनान्तरे तत्स्पष्टीकृतं भवति ॥ ( ३ ) ननु न मुक्तानां वृद्ध्यादौ कारणाभावः, भोगविशेषसद्भा- वात्, कारणाभावाभ्युपगमे च प्रामाणिकभोगविशेषविरोधापातादि- त्याशङ्कां परिहरन्सूत्रं पठति — भोगेति ॥ अत्र चशब्दोऽवधारणार्थो न त्वनुकर्षकश्च । स चावर्तते । मात्रशब्दात्परो विशेषशब्दोऽध्याहृत्य यो- जनीयः । तथा च न मुक्तस्य वृद्ध्यादिकारणाभावाभ्युपगमे भोगवि- शेषादिविरोधः । कुतः ? यतो मुक्तभोगविशेषादिस्तदानन्दादिवृद्धि- ह्रासकारणं न, कुत एतत् ज्ञायते ? 'भोगमात्रविशेषसाम्यलिङ्गात्' भोगमात्रस्य च रमणपानाद्यनेकविशेषयुक्तभोगसामान्यस्य 'एतमा- नन्दमयम्' इति श्रुतौ रमते उपरमत इति विषयभोगभावाभावोक्त्या सूचिते भोगविशेषे तद्भावे च सत्यपि यन्मुक्तस्वरूपानन्दादेर्न हस- ते न वर्धत इत्युक्तं वृद्ध्यादिशून्यत्वरूपं साम्यमेतस्मादेव लिङ्गाद्भो- गमात्रविशेषस्यै मौक्तानन्दवृद्ध्याद्यकारणत्वज्ञापकाद्भोगविशेषादेर्वृ- द्ध्याद्यकारणत्वं विना तस्मिन् सति कार्याभावरूपान्वयव्यभिचारस्या- नुपपत्तेरिति भाव इति रूपालिङ्गान्न भोगविशेषो वृद्ध्यादिकारणम्, न्यायामृतोक्तरीत्या यदि भोगविशेषः आनन्दादिवृद्ध्यादिकारणं तर्हि भोगसामान्य एव साम्यमुच्येत, न तु तद्विशेषेऽपि । अतो भोगमात्र इव तद्विशेषेऽपि साम्योक्तिः कारणमिति वा सूत्रवृत्तिमभिप्रेत्य तद्व्या- चष्टे — न चेति । मुक्तस्य वृद्ध्यादिकारणाभावाभ्युपगम इत्याद्याद्युप- स्कार्यम् । भोगविशेषो भोगातिशयः । आदिपदेन भोगाभाव उच्य- ते । तस्य विरोधोऽनुपपत्तिः । विरोध इत्यन्तेन चशब्दानुकृष्टनञर्थे १३९