पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 138, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १२. ] दीपिकासहितम्. ९१ (१०) तथाऽपि न त आनन्दमयशब्देनोच्यन्ते । किन्तु, वि- ष्णुरेव । 'तदेव ब्रह्म परमं कवीनाम्' (महाना. १-६०. ) 'एतमेव ब्रह्मेत्याचक्षते' (ऐ.आ. ३-२-३-१२. ) (११) ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । असम्पूर्णाः परे यस्मादुपचारेण वा भवेत् ॥ मिति ध्येयम् ॥ (१०) सिद्धान्तयति—तथाऽपीति ॥ यद्यप्येवमन्येषां प्राप्तिः, तथाऽ- पि अत्र ये आनन्दमयशब्देनोच्यन्ते न ते हिरण्यगर्भादय इत्यर्थः । कस्तर्हीत्याशङ्कते-किन्विति । उत्तरमाह-विष्णुरेवेति । य उच्यते स विष्णुरेवेत्यन्वयः । अनेनोदाहृतानन्दमय इति सूत्रप्रतिज्ञाभागस्य स- ङ्गत्यर्थमन्वयार्थं समन्वयसूत्रोदाहृतो विधेयसमर्पकः 'तन्तु' इति प्र- तिज्ञाभागो व्याख्यातो भवति । कुत आनन्दमयो विष्णुरेवेत्यतः प्रवृ- त्तं सौत्रं हेतुं व्याचष्टे—तदेवेति । इत्यादिषु वाक्येषु तस्मिन्विष्णावे- व प्रसिद्धस्य मुख्यार्थत्वेनोक्तस्य ब्रह्मशब्दस्य तस्मिन्नानन्दमये आन- न्दमयं प्रत्युदाहृते 'असन्नेव' इति श्लोके 'अभ्यासात्' असकृच्छ्रव- णादित्यर्थः । अभ्यासादित्यनन्तरं 'विष्णौ तात्पर्यावगमात्' इति शे- षः । अप्रयोजकत्वशङ्कावारणाय ब्रह्मशब्दस्यान्यत्र निरवकाशत्वज्ञाप- नाय तस्मिन् प्रसिद्धेति एवेति चोक्तम् । आदिशब्देन 'परमं यो मह- द्ब्रह्म' 'वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत्' इति वाक्यं गृह्य- ते । तदेवेति श्रुत्यर्थस्तु जिज्ञासानयेभिहितः । 'एतमेव' इति श्रु- त्यर्थः सर्वत्राधिकरणे वक्ष्यते ॥ (११) 'ब्रह्मशब्दः' इति स्मृतौ 'परे' पूर्णे इति हेतुगर्भविशेष- णम् । वाशब्दोऽवधारणे । तथा च यतो विष्णुः परः, अतः 'परे' वि- ष्णावेव ब्रह्मशब्दो मुख्यतया 'इष्यते' अङ्गीक्रियते प्रामाणिकैः । न तु विष्णोः 'अन्यत्र' हिरण्यगर्भादिष्वपीत्यर्थः । कुत इत्यतस्तेषां ब्र- ह्मशब्दमुख्यार्थत्वाभावे हेतुमाह—'परे' अन्ये यस्मादसम्पूर्णा इ- ति । तर्हि 'तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' (मु. १-१-९.) 'द्वे ब्रह्मणी वेदितव्ये' (मैत्रि.उ.६-२२.) 'ब्रह्माणि जीवाः सर्वेऽपि' इत्यादौ ब्रह्मशब्दस्तेषु कथमित्यत आह—क्वचिदन्यत्रेष्टोऽपि ब्रह्मशब्दः 'उपचारेण' परममुख्यवृत्त्यन्यमुख्यवृत्त्यैव भवेदिति । 'ब्रह्म' इति भागवतस्मृत्यर्थः । प्रागेवोक्तः । मध्ये आत्मपदोपेतसाधारणस्मृ-