पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 153, कुल 1267 में से
संदर्भ में पढ़ें१०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (२५) न च 'तत्त्वमसि' (छा. ६-८.) 'अहं ब्रह्मास्मि' (बृ. ३-४-१०.) इत्यादिश्रुतिविरोधः । 'नामानि सर्वाणि यमाविशन्ति' (भाल्लवेयश्रुतिः) इति तत्त च्छब्दवाच्यत्वोक्तेः । (२६) इदं हि विश्वं भगवानिवेतरो (२५) नन्वस्त्वानन्दमयः परं ब्रह्म । तथाऽपि तेन कथं ब्रह्मादीनां भेदः सम्भवति । तद्भेदस्य 'तत्त्वमसि' इत्यादिश्रुतिविरुद्धत्वादित्य त आह—न चेति ॥ भेदव्यपदेशस्येति शेषः । चः समुच्चये । एतद्वि रोधशङ्कापरिहारसमुच्चितस्यैव भेदव्यपदेशस्य विवक्षितार्थसाधक त्वात् । एवमन्यत्रापि । त्वं तद्ब्रह्मासीत्यद्वैतरीत्याऽऽद्यश्रुत्यर्थः । द्विती यस्यास्तु अहं ब्रह्माभिन्नोऽस्मीति । आद्यं उद्दालकेन श्वेतकेतुं प्रत्युप दिष्टं छन्दोगवाक्यम् । द्वितीयं बृहदारण्यके वामदेवोक्तम् । अत्रोभ यत्रापि विशिष्टयोरैक्यासम्भवात् तत्त्वमहंब्रह्मपदैर्लक्षितचैतन्ययोरै क्यमुच्यते । आदिशब्देन 'तद्योऽहं सोऽसौ योऽसौ सोऽहं' (ऐ. आ २-२-४.) 'योऽसावसौ पुरुषः सोऽहमस्मि' ( ई - १६. ) इत्यादिश्रुतिर्गृह्यते । कुतो नेत्यतस्तत्रैतच्छ्रुतीनां परब्रह्मार्थकत्वेन अद्वैतार्थत्वाभावादिति हेतूपस्कारमभिप्रेत्य तेषां परब्रह्मार्थत्वे प्रमा णमाह—नामानीति । 'नामानि' इति श्रुत्या तस्य ब्रह्मणः 'तत्त च्छब्दैः' तत्त्वमादिपदैर्वाच्यत्वोक्तेरित्यर्थः । तथा च पदसम न्वयेनैतेषां ब्रह्मपरत्वान्न तद्विरोध इति भावः । तत्प्रकारस्तु—त त्त्वात्तत् । त्वंपदबोध्यजीवान्तर्यामित्वादभिमुखत्वाद्वा त्वम् । अ सनात् जगत्संहरणादसिः । अहेयत्वात् हंनामकजीवभिन्नत्वाद्वा अ हम् । पूर्णत्वाद्ब्रह्म । असनान्मनुतेरस्मि । यद्वा—सुमितत्वात् स्मी त्युक्तो जीवः, तद्भिन्नं पूर्णं ब्रह्म अस्मीत्युच्यत इति । ज्ञानरूपत्वात् नि तराँ यन्तृत्वाच्च यः । सरणात्सारत्वाच्च सः । अमुष्मिन् अमुष्मिन् स्थितत्वात्परोक्षत्वाच्च असावसौशब्दवाच्यः इत्यैतरेयश्रुत्यर्थः । 'असौ' प्राणे स्थितः 'पुरुषः' पूर्णषड्गुणः इति ईशावास्यश्रुत्यर्थः ॥ (२६) अस्तु वा एतच्छ्रुतीनां ऐक्यपरत्वं वाक्यान्वयरीत्या । तथा ऽपि नैक्यश्रुतिविरोधो भेदश्रुतेः शङ्कनीयः, भगवतः सर्वैक्यश्रुतेः सर्व स्वामित्वनिमित्तैक्यपरत्वादित्याशयेन तत्र प्रमाणत्वेन भागवतस्मृति