भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 154, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 154

[ अधि - ६. सू - १७. ] दीपिकासहितम्. १०७ यतो जगत्स्थाननिरोधसम्भवः । असर्वः सर्व इत्यपि ( तुर्रुतिः) । ( २७ ) विद्याऽऽत्मनि भिदाबोधः । पठति—इदं हीति ॥ 'भगवान्' स्वयं 'इतरोऽपि' जगतो भिन्नोऽपि सन् 'इदं' प्रमितं विश्वमित्युच्यते 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इ- त्यादिवचनेषु । यथोक्तं प्रथमतात्पर्यं—'इतरोऽपि भगवान्विश्वमिव' इति । कुतः ? 'यतः' कारणात् 'जगत्स्थाननिरोधसम्भवः' जगतः स्थानं स्थितिः निरोधो नाशः सम्भवः उत्पत्तिः ते यस्माद्भवन्ति स तथोक्तः । यद्वा—स्थापयति निरोधयति सम्भावयतीति स तथोक्तः । अथवा—तिष्ठत्यस्मात् निरुध्यते प्रलीयतेऽस्मिन् सम्भवत्यस्मादिति तथोक्तः । तथा च जगत्सृष्ट्यादिकर्तेत्यर्थः । एवम्भूतस्य जगद्भेद

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 154, कुल 1267 में से · BharatKosha