पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 155, कुल 1267 में से
संदर्भ में पढ़ें१०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] भेददृष्ट्याऽभिमानेन निस्सङ्गेनपि कर्मणा। ( २८ ) ‘ जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति धी जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ इत्युत्तरवाक्येन च सह योजनीयम् । तत्प्रकारस्तु—यः ‘स्थि- रचराणां’ स्थावरजङ्गमानां ‘आद्यो’ हिरण्यगर्भः सः ‘ऋषिभिः’ मनुष्योत्तममारभ्य गरुडशेषान्तैः ज्ञानिभिर्योगसिद्धैः सनत्कुमाराद्यैः सह ‘भेददृष्ट्या’ जीवेश्वरादिभेदज्ञानेन ‘अभिमानेन’ अभितो हरे- र्मानेन परमेश्वरे बहुमानेन आग्रहेण च ‘निःसङ्गेन कर्मणाऽपि’ फलाभिसन्धिरहितनिवृत्तकर्मणा च मुक्तस्सन् ‘कर्तृत्वात्’ जगत्क- र्तृत्वनिमित्तात् ‘सगुणं’ सार्वज्ञादिगुणसम्पूर्णं ‘पुरुषर्षभं’ क्षरा- क्षरेभ्यो वरं ‘पुरुषं’ परमपुरुषाख्यं ब्रह्म ‘काले’ प्रलयकाले ‘सङ्गत्य’ प्र- विश्य पुनः ‘कालेन’ कालाख्येन ‘ईश्वरमूर्तिना’ मूर्त्या ‘काले’ सृष्टिकाले ‘जाते’ उत्पन्ने सति ‘अगुणव्यतिकरे’ सत्त्वादिगुणविक्रिया- हीने विष्णुलोके ‘यथापूर्वं’ पूर्ववत् प्रजायते सर्वमुक्ताधिपतिर्जायते इति सुधायामुक्तः । कर्मनिर्णयटीकायां तु—न केवलं सगुणं, किन्तु, ‘ब्रह्म’ पूर्णं ‘पुरुषमिति’ भगवतो नामकीर्तनम् । पुरुषत्वोक्त्याऽस्म- दादिसालक्ष्ण्यं प्राप्तं, तत्परिहाराय—पुरुषर्षभमिति । तदुपपादनाय कर्तृत्वात्सगुणं ब्रह्मेतीति विशेषार्थ उक्तः । तत्त्वप्रदीपे तु—अभिमा- नेनेति पदं अभितो मानेन विशेषज्ञानेनेति व्याख्याय, ‘गुणव्यतिकरे’ इति पदं छित्वा ‘सः’ ब्रह्मादिजीवसङ्घः प्रलये ज्ञानैश्वर्याद्यनन्तगुणं ब्र- ह्म ‘सङ्गत्य’ प्राप्य ‘पुनः काले’ सृष्टिकाले ‘कालेन’ ज्ञानात्मना ‘ईश्वरमूर्तिना’ विष्णुरूपेण ‘गुणव्यतिकरे’ गुणानां सत्त्वादीनां व्य- तिकरे वैषम्ये जाते सति यथापूर्वं ज्ञानादिगुणतारतम्यं परस्परभेदं च अविहाय तद्विशिष्ट एव ‘प्रजायते’ प्रकर्षेण मुक्तावभिव्यज्यते । न तु तदभिन्नो भवतीति व्याख्यातम् । अयं पदच्छेदष्टीकाकृतोऽपि सम्मतः । तत्पक्षे ‘गुणव्यतिकरे काले’ सृष्टिकाले इत्यर्थः । उभय- त्रापि यथापूर्वमित्यस्य संसार इवेत्यर्थः । पूर्वकल्पे इवेति वा ॥ ( २८ ) अत्रैवार्थे अथर्वणवाक्यं प्रमाणयति-जुष्टमिति ॥ ‘जुष्टं’ सर्वसे- व्यं ‘ईशं’ स्वतन्त्रम् । अत एव ‘अन्यं’ जीवाद्भिन्नं विष्णुं इति ‘तदेत- त्सत्यम्’ (मु. २ - १ - १०) इत्यादिना प्रागुक्तप्रकारेण अस्य महिमानं