पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
१०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] भेददृष्ट्याऽभिमानेन निस्सङ्गेनपि कर्मणा। ( २८ ) ‘ जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति धी जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ इत्युत्तरवाक्येन च सह योजनीयम् । तत्प्रकारस्तु—यः ‘स्थि- रचराणां’ स्थावरजङ्गमानां ‘आद्यो’ हिरण्यगर्भः सः ‘ऋषिभिः’ मनुष्योत्तममारभ्य गरुडशेषान्तैः ज्ञानिभिर्योगसिद्धैः सनत्कुमाराद्यैः सह ‘भेददृष्ट्या’ जीवेश्वरादिभेदज्ञानेन ‘अभिमानेन’ अभितो हरे- र्मानेन परमेश्वरे बहुमानेन आग्रहेण च ‘निःसङ्गेन कर्मणाऽपि’ फलाभिसन्धिरहितनिवृत्तकर्मणा च मुक्तस्सन् ‘कर्तृत्वात्’ जगत्क- र्तृत्वनिमित्तात् ‘सगुणं’ सार्वज्ञादिगुणसम्पूर्णं ‘पुरुषर्षभं’ क्षरा- क्षरेभ्यो वरं ‘पुरुषं’ परमपुरुषाख्यं ब्रह्म ‘काले’ प्रलयकाले ‘सङ्गत्य’ प्र- विश्य पुनः ‘कालेन’ कालाख्येन ‘ईश्वरमूर्तिना’ मूर्त्या ‘काले’ सृष्टिकाले ‘जाते’ उत्पन्ने सति ‘अगुणव्यतिकरे’ सत्त्वादिगुणविक्रिया- हीने विष्णुलोके ‘यथापूर्वं’ पूर्ववत् प्रजायते सर्वमुक्ताधिपतिर्जायते इति सुधायामुक्तः । कर्मनिर्णयटीकायां तु—न केवलं सगुणं, किन्तु, ‘ब्रह्म’ पूर्णं ‘पुरुषमिति’ भगवतो नामकीर्तनम् । पुरुषत्वोक्त्याऽस्म- दादिसालक्ष्ण्यं प्राप्तं, तत्परिहाराय—पुरुषर्षभमिति । तदुपपादनाय कर्तृत्वात्सगुणं ब्रह्मेतीति विशेषार्थ उक्तः । तत्त्वप्रदीपे तु—अभिमा- नेनेति पदं अभितो मानेन विशेषज्ञानेनेति व्याख्याय, ‘गुणव्यतिकरे’ इति पदं छित्वा ‘सः’ ब्रह्मादिजीवसङ्घः प्रलये ज्ञानैश्वर्याद्यनन्तगुणं ब्र- ह्म ‘सङ्गत्य’ प्राप्य ‘पुनः काले’ सृष्टिकाले ‘कालेन’ ज्ञानात्मना ‘ईश्वरमूर्तिना’ विष्णुरूपेण ‘गुणव्यतिकरे’ गुणानां सत्त्वादीनां व्य- तिकरे वैषम्ये जाते सति यथापूर्वं ज्ञानादिगुणतारतम्यं परस्परभेदं च अविहाय तद्विशिष्ट एव ‘प्रजायते’ प्रकर्षेण मुक्तावभिव्यज्यते । न तु तदभिन्नो भवतीति व्याख्यातम् । अयं पदच्छेदष्टीकाकृतोऽपि सम्मतः । तत्पक्षे ‘गुणव्यतिकरे काले’ सृष्टिकाले इत्यर्थः । उभय- त्रापि यथापूर्वमित्यस्य संसार इवेत्यर्थः । पूर्वकल्पे इवेति वा ॥ ( २८ ) अत्रैवार्थे अथर्वणवाक्यं प्रमाणयति-जुष्टमिति ॥ ‘जुष्टं’ सर्वसे- व्यं ‘ईशं’ स्वतन्त्रम् । अत एव ‘अन्यं’ जीवाद्भिन्नं विष्णुं इति ‘तदेत- त्सत्यम्’ (मु. २ - १ - १०) इत्यादिना प्रागुक्तप्रकारेण अस्य महिमानं
[ अधि - ६. सू - १७. ] दीपिकासहितम्. १०९ तशोकः' (मु. ३-१-२.) ( २९) 'असर्वः सर्व इवात्मैव सन्ननात्मैव प्रत्यङ्पराङिवै व यदा पश्यति । 'पश्यो' जीवः तदा 'वीतशोको' मुक्तो भवतीत्यर्थः । तत्त्वप्रदीपे तु—'जुष्टं' देवैः 'अस्य' जीवस्य ईशं अन्यं यदा पश्य ति 'महिमानं' महिमगुणात्मकं 'तदा' तदैव 'वीतशोको भवति' न दुःखलेशमपि स्पृशति जीवः। न तु महिमगुणविहीनं अनन्यमनीशम सेवितं पश्यन् वीतशोको भवतीति व्याख्यातम् । यद्यपीयं श्रुतिः 'विशेषणभेदव्यपदेशाभ्याम्' (ब्र. सू. १-२-२२.) इत्यत्र अयमन्यो मार्ग इत्युक्ते प्रसिद्धमार्गादन्यत्वबोधवत् अन्यमीशमित्युक्ते ईशशब्दि तस्य ब्रह्मणः प्रसिद्धेशाद्रुद्रात् अन्यत्वप्रतीतेर्ब्रह्मणो रुद्रादन्यत्वे प्रमाणत्वेनोक्ता । न तु ब्रह्मणो जीवादन्यत्वे, नापि ईशत्वमन्यत्वे हेतू कृतम् । तथाऽपि तत् व्याख्यानान्तरमभिप्रेत्येति न तद्विरोधः । अत एव द्युभ्वाद्यधिकरणे 'भेदव्यपदेशात्' (ब्र.सू. १-३-५०) इत्यत्र जीवेशभेदे ऽपीयं प्रमाणतयोदाहृता ॥ ( २९) एवं स्वामित्वार्थतया पराभिमताद्वैतश्रुतीर्व्याख्याय वाक्य समन्वयाश्रयणेन अन्तर्यामितयापि ताः श्रुतिस्मृतिभ्यां व्याचष्टे—अ सर्व इति ॥ यद्यपि 'असर्वः' इति वाक्यं आत्मशब्दस्य स्वामित्वार्थ त्वमुपेत्य स्वामित्वेन निमित्तेनैक्यश्रुतयः प्रवृत्ता इत्यत्र प्रमाणतयोदा हृतम् । तथाऽपि स्वामित्वेनेवान्तर्यामितयाऽप्यैक्यश्रुतयः प्रवृत्ता इ त्युभयत्राप्यस्य प्रमाणत्वसम्भवादुभयत्रापि प्रमाणतयोदाहरणं यु क्तम् । तत्त्वप्रदीपकृतामपि स्वामित्वेनेवान्तर्यामितयाप्यैक्यश्रुतयः प्र वृत्ता इत्युभयत्रापि 'असर्वः' इति श्रुतिः प्रमाणमित्यभिप्रायः । नचै वं "तत्तदन्तर्यामित्वेनापि तत्तच्छब्दवाच्यत्वं विष्णोरस्तीत्याह— सर्वान्तर्यामिकः" इति तत्त्वप्रदीपविरोधः; अत्र पदसमन्वयाभिप्रा यप्रतीतेरिति वाच्यम् । अन्तर्यामित्वेनापीत्युक्त्या न केवलं 'नामा नि' इति श्रुतिबलात्तत्तच्छब्दप्रवृत्तिनिमित्तत्वेन तत्तच्छब्दवाच्यत्वं विष्णोः, अपि तु अन्तर्यामित्वेनापीत्येतावन्मात्रप्रतीतेः अत्र पदसम न्वये तात्पर्यानवगमात् । महावाक्यगतस्यैतदादिशब्दस्यैकैकस्य 'स र्वान्तर्यामिकः' इति स्मृतिबलात् अन्तर्यामित्वनिमित्तेन विष्णुवाचि त्वेऽपि पदान्तराणामन्यपरत्वेन वाक्यसमन्वयस्यैव वक्तव्यत्वात् । य द्वा 'नामानि' इति श्रुतिबलात् क्रियाकारकादिसर्वार्थवाचिसर्वपद
११० ब्रह्मसूत्रभाष्यम् [ अध्या - १. पा - १. ] क ईयते बहुधेयते' 'स पुरुषः' 'स ईश्वरः स ब्रह्म' स्य विष्णुवाचित्वाभ्युपगमः तदैव पदसमन्वयः । न त्वेकैकस्य वि- ष्णुवाचित्व इति न विरोधः । तथा चान्तर्यामित्वनिमित्तेन तत्त्वमस्या- दिवाक्यगतत्वमहमादिपदानां विष्णुवाचित्वे त्वं त्वदन्तर्यामी तत् ब्रह्म । अहं मदन्तर्यामी ब्रह्मेति वाक्यान्वयो द्रष्टव्यः । न चैवं 'असि अस्मि' इति क्रियापदान्वयायोगः । जीवविशिष्टान्तर्यामिवाचकस्य त्वमादिशब्दस्य दग्धृशब्दस्यायसीवान्तर्यामिणि मुख्यवृत्तिः । जीवे त्वमुख्यवृत्तिरित्याश्रयेणामुख्यार्थविवक्षया असि अस्मीत्यादिपदप्र- योगोपपत्तेः । यद्यपि निमित्तकथनप्रकरणे 'विद्याऽऽत्मनि' 'भेददृष्ट्या' 'जुष्टं यदा' इति वाक्यत्रयस्यानन्वयाभावः । तथाऽपि स्वामित्वनिमि- त्तेनैक्यव्यपदेश इत्यत्र श्रुतिस्मृत्योरुपन्यासे सति तत्र प्राप्तशङ्कापरि- हारस्यावश्यकत्वेनावसरसङ्गत्त्या तद्वाक्यत्रयप्रवृत्तेः । 'इत्यादेः' इत्य- स्यात्राकर्षणेन 'न विरोधः' इत्यस्यानुकर्षणेन चान्वयो द्रष्टव्यः । श्रु- त्यर्थस्तु—विष्णुः 'असर्वोऽपि' सर्वानात्मकोऽपि 'सर्व इव' सर्वा- त्मक इव सर्वात्मकत्वेन ईयते । कुत इत्यतस्तत्रान्तर्यामित्वं हेतुत्वेना- भिप्रेत्य अनन्तर्यामित्वप्रतीत्या तस्यासिद्धिमाशङ्क्याह—आत्मैवेति । 'आत्मैव' अन्तर्याम्येव सन् 'अनात्मेव' अनन्तर्यामित्वेन 'ईयते' ज्ञायते रामकृष्णादिरूपेषु । तथा च अज्ञानमूला अनन्तर्यामित्वप्रती- तिरिति भावः । ननु विष्णोरन्तर्यामित्वे प्रत्यक्त्वं स्यात्, तच्चानुपप- न्नं, पराक्त्वेन प्रतीतेरित्यत आह—प्रत्यङिति । भगवान् 'प्रत्यङ्' दे- हान्तर्गतोऽपि 'पराङिव' बहिर्मात्रवृत्तित्वेनेयते । तथा च बहिर्मात्र- वृत्तित्वप्रतीतिर्भ्रान्तिरिति भावः । ननु विष्णौ विरुद्धानेकधर्माभ्युप- गमे भेदापत्त्या 'एकमेव' इति श्रुतिविरोध इत्यत आह—एक इति । एक एव 'बहुधा' बहुरूपेणेयत इत्यर्थः । तथा चैकस्यैव रूपबाहु- ल्यात् सर्वधर्मोपपत्तिरिति भावः । द्विर्ग्रहणात्सर्वत्र क्रियासम्बन्धः सूचितः । तत्त्वप्रदीपे तु—"प्रत्यङ् पराङिव अभिमुखोऽप्यनभिमुख इव एक एव बहुधेयते ज्ञायते प्राप्यते च" इत्युक्तम् । अन्तर्यामित्व- निमित्तेन सर्वात्मकत्वेन व्यपदिश्यमानः किं सर्वज्ञः ? क च व्यपदि- श्यत? इत्यत आह—स पुरुष इति । अनेन 'पुरुष एवेदं सर्वम्' ( तै. आ. ३-१२. ) इति श्रुतिमुपादत्ते । सम्पूर्णषड्गुणत्वात् देहाख्यपुरे
[ अधि - ६. सू - १७. ] दीपिकासहितम्. १११ ( ३० ) सर्वान्तर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते । एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः ॥ नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । इत्यादेश्च । शयनाद्वा पुरुषसंज्ञ इत्यर्थः । स्थलान्तरमाह—स इति । अनेन ‘सर्वं खल्विदं ब्रह्म’ (छा. ३ - १४ - १० ) इति श्रुतिमुपादत्ते । ‘सः’ सर्वा- त्मकत्वेन व्यपदिश्यमानो भगवान् ‘ब्रह्म’ सर्वत्र पूर्णत्वाद्ब्रह्मसंज्ञ इत्यर्थः । नन्वन्यत्रादृष्टमन्तर्गतस्य बहिर्गतत्वादिकं कथं घटत इत्यत आह—स ईश्वर इति । ‘सः’ हरिः यतः ‘ईश्वरः’ अचिन्त्यशक्त्यु- पेतः अतस्तस्मिन् अन्यत्राघटितमपि सर्वं घटत इति ॥ ( ३० ) स्मृतौ कप्रत्ययः सर्वदेहगतस्यापि विष्णोरज्ञातत्वमाह । यद्वा—यामो नियमनं तत्र भव इत्यर्थे ठञ्, यतो विष्णुः सर्वान्तर्यामि- कः सर्वान्तर्नियामकः अतएव ‘एष आत्मेति होवाच’ (छा. ८-३-४.) ‘सोऽहमस्मि’ ( ई. १६. ) ‘तत्त्वमसि’ (छा. ६ - ८ - ७.) ‘योऽसावसौ पुरुषः’ ( ई. १६. ) इति वाक्यशेन एषोऽहंत्वमसा- विति ‘सर्वनाम्ना’ सर्ववाचकसर्वनामसंज्ञकशब्देन सर्वमिति नाम्ना चाभिधीयते । न तु सर्वस्वरूपत्वादित्यर्थः । श्रेष्ठयस्यैक्यार्थतयाऽपि ऐक्यश्रुतीः स्मृत्या व्याख्याति—नैतदिति । मोक्षधर्मे हि वैशंपायनं प्र- ति हे ब्रह्मन् भेदवाक्यात् बहवः पुरुषाः प्रतिपत्तव्याः । ऐक्यवाक्यं तु प्रधानपुरुषपरमिति वा? उताहो ऐक्यवाक्यात् एक एव पुरुषः, द्वैत- वाक्यं तु व्यावहारिकभेदपरमिति ? । तथा—पुरुषबाहुल्यमुपेत्यैक्य- वाक्यस्य श्रेष्ठपरत्वपक्षेऽपि आत्मसु किं सर्वे समाः ? उतैकः श्रेष्ठः ? द्वि- तीये कोऽसावत्र पुरुषेषु श्रेष्ठः? स कथं हि श्रेष्ठः? तं तथा च भवान् वक्तु- मर्हतीत्याशयेन कृतस्य जनमेजयप्रश्नस्य वैशम्पायनेनोक्तमुत्तरं नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते ॥ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥ इति । अस्यार्थः — एतन्मतं नेच्छन्ति विद्वांसः । एतदिति किमि- त्यतस्तद्विवृणोति—पुरुषमेकमिति । तथा च वेदाः एकमेव पुरुषं व- दन्तीत्येतन्मतं ज्ञानिनो नेच्छन्तीत्यर्थः । यद्वा—एतस्मिन् जगति एकं पुरुषं नेच्छन्ति, किन्तु बहवः पुरुषाः सन्तीति । तर्ह्यद्वैतश्रुतिविरो- ध इति न वाच्यम् । यतो बहूनां श्रेष्ठः एक एव, तत्परमैक्यवाक्यम् ।
११२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ३१ ) उक्ता च प्राप्तिः । 'ब्रह्मैव सन्' ( बृ. ६-४. ) इत्य पि, जीव एव ब्रह्मशब्दः । उपपद्यते च विरोधे ॥ बहूनां कः श्रेष्ठः, स कथं श्रेष्ठ इत्यस्योत्तरमाह—बहूनामिति । हे कुरु कुलोद्वह एतेषां बहूनां 'पुरुषाणां' आत्मनां मध्ये 'या योनिः' यः कारणभूतः 'एका' श्रेष्ठः यथा च श्रेष्ठ उच्यते श्रुत्यादौ 'तथा' तेन प्रकारेण 'तं' विश्वं पूर्णं गुणाधिकं पुरुषं 'आख्यास्यामि' व्या ख्यास्यामीति प्रमेयदीपिकाव्यासतीर्थीयदिशा स्मृत्यर्थः । अनेन परा भिमतैक्यवाक्यमुत्तमवस्त्वैक्यपरम् । तथा च सर्वोत्कृष्टं यदेकं ब्रह्म तत्त्वमसि तस्मादत्यवरोऽसि अहत्वरोऽस्मीति श्रुत्यर्थ उक्तो भवति । 'इत्यादेश्च' इत्यस्य 'न च तत्त्वमसीत्यादिविरोधः' इत्यनेनान्वयः ॥ ( ३१ ) नन्वद्वैतश्रुत्यभावे कथमद्वैतं भेदश्रुत्यादिना निषिध्यते । त स्याप्रत्यक्षत्वेन श्रुतिं विना प्राप्त्यभावात् । अप्राप्तस्य च प्रतिषेधायो गात् इत्यत आह—उक्ता चेति ॥ चः साध्यसमुच्चये । चो यतो न च 'तत्त्वमसि' इत्यादिना जीवेश्वरैक्यस्य 'प्राप्तिः' श्रुत्यर्थापरिज्ञाननिमि त्ता प्रसक्तिरुक्ता । अतो न तन्निषेधानुपपत्तिरित्यर्थः । नन्वेतच्छ्रुतीनाम विरोधकत्वेऽपि भेदश्रुतेः 'ब्रह्मैव सन् ब्रह्माप्येति' इति श्रुतिविरोधस्तु भविष्यति । अत्र ब्रह्मैवेत्येवकारेण जीवस्याब्रह्मतानिषेधेन तदधीन त्वादिना निमित्तेन अब्रह्मभूते ब्रह्मत्वव्यवहार इत्युक्तगतेरसम्भवादि त्यत आह—ब्रह्मैवेति । अपिः समुच्चये । न केवलं तत्त्वमसीत्यादिकम विरुद्धम् । किन्तु—'ब्रह्मैव सन्' इति बृहदारण्यकवाक्यमपीत्यर्थः । कुत इत्यत आह—जीवे एवेति । सप्तम्यर्थ विषयार्थे । तथा च 'यतो ब्रह्मैव सन्' इति वाक्ये श्रुतोऽयमाद्यो ब्रह्मशब्दः 'ब्रह्माणि जीवाः स र्वेऽपि' इति श्रुतेर्जीव एव, न परब्रह्माणि अत इत्यर्थः । यद्वा—जीव इति प्रथमान्तम् । तथा च इति वाक्ये श्रुताद्यब्रह्मशब्दोक्तो जीव एव, न परब्रह्मेत्यर्थः । तथा च सः मुक्तजीवो 'ब्रह्मैव सन्' जीव एव सन् जीवभावमविहायैव प्रलये परब्रह्माप्नोति । अपिहितस्सन् प्रविशतीति श्रुत्यर्थोपपत्तेः नोक्तभेदव्यपदेशस्यैतच्छ्रुतिविरोध इति भावः । यथो क्तं बृहद्भाष्ये— जीवोऽपि ब्रह्मशब्दोक्तो जडाद्बहुगुणत्वतः । इति ॥ प्राप्नोति परमं ब्रह्म प्रलये प्रलये सदा । इति ॥
" (he who is ALREADY liberated). If he is already liberated while in samsara, how can that be? The Siddhantin explains: Bondage is unreal/asvabhavika. And for something asvabhavika, using the word... what? Wait, what if the word is: "विद्यमानपदप्रयोग"? Wait, if bondage is asvabhavika, then mukti is SVABHAVIKA (natural, inherent, eternally present/vidyamāna)! "अस्वाभाविके च [something] ... दर्शनादित्यर्थः" Wait! If bandha is asvabhavika, then the jiva is essentially free! Wait, look at Sutra (33) right below it: "मुक्तिर्हित्वाऽन्यथा रूपं स्वरूपेण व्यवस्थितिः" (line 3 and line 26). Mukti is NOT acquiring a new form, it is simply staying in one's OWN form (स्वरूपेण व्यवस्थितिः), having abandoned the adventitious form (हित्वाऽन्यथा रूपं)! Because the svarupa is ALREADY free! Wait, look at line 19 again: Could it be: "अस्वाभाविके च" ... wait, is it: "अस्वाभाविके चाप्यमानपदप्रयोगदर्शनादित्यर्थः"? Wait, let's look at the image really, really closely at that line (line 19): "प्रतीतिकत्वेनास्वा
११४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] हि भागवते । ( ३४ ) न च तत्तदनुमानविरोधः । ( ३५ ) सू—ॐ ॥ कामाच्च नानुमा नापेक्षा ॥ ॐ ॥ १८ ॥ यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथ अरूपेणावस्थितिरेव मुक्तिरित्यर्थः । भागवत इत्यस्य प्रमादात्मकत्वोक्ते रित्यनेनान्वयः ॥ ( ३४ ) ननु भेदोक्तेः श्रुतिविरोधाभावेऽपि जीवो ब्रह्माभिन्नः चेत नत्वात् ब्रह्मवत् । भेदो मिथ्या भेदत्वात् चन्द्रभेदवत् । विमतानि श रीराणि मद्भोगायतनानि शरीरत्वात् मच्छरीरवत् । इत्यनुमानविरो धस्तु भविष्यतीत्यत आह—न चेति ॥ चोऽविरोधसमुच्चये । तथा च न केवलं श्रुतिविरोधाभावः, किन्तु तस्याः भेदोक्तेः तेनाद्वैतपरिक ल्पितानुमानेन विरोधोऽपि नेत्यर्थः । अनेन सौत्रश्चशब्दो व्याख्यातः ॥ ( ३५ ) तत्र हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे—कामादिति ॥ ‘हि’ यतोऽभेदसाधनाय परोपन्यस्तं ‘अनुमानं’ अनुमानत्वेन परा भिमतं ‘पृथक्’ प्रत्यक्षादिविरुद्धं श्रुतिसाहाय्यरहितं च अतः ‘तत्त्वे’ विषये ज्ञानोपलक्षकमेतत् । तत्त्वज्ञानार्थे ‘नापेक्ष्यते’ तत्त्वज्ञानकारणं न भवतीत्यर्थः । न चाप्रयोजकता । ‘हि’ यतः ‘यथाकामं’ यथेच्छं ईश्वरो न स्वतन्त्रः चेतनत्वात् देवदत्तवत् । जड आत्मा वस्तुत्वादित्या दिरूपेण न तत्त्वे अतत्त्वेऽपि अनुमातुं शक्यते । अतः अनेन प्रत्यक्षादिवि रुद्धस्यापि प्रमाणत्वे चेतनत्ववस्तुत्वादेरपि प्रमाणत्वं स्यात् अविशे षादिति विपक्षे बाधकस्तर्क उक्तो भवति । सूत्रे ‘कामात्’ इत्येकदे शोत्कीर्तनेन यथाकामादिति समग्रशब्दो लक्ष्यते ज्योतिश्शब्देन ज्यो तिष्टोमशब्दवत् इत्याशयेन यथाकाममित्युक्तम् । हीत्यनेन पञ्चमी व्याख्याता । ‘तत्त्वे’ इत्यनेनास्मिन्नित्यस्याकर्षोऽध्याहारो वा ज्ञापितः । ‘अनुमानम्’ इत्यनेन ‘नानुमा’ इति भिन्नपदत्वं ‘पृथक्’ इत्यनेन न ञो विरुद्धार्थकत्वमाश्रित्य ‘नानुमा’ इत्येकपदं च सूचितम् । ‘नापे क्ष्यते’ इत्यनेन नशब्दघटितसमासमङ्गीकृत्य ‘नापेक्षा’ इत्यंशो व्या ख्यातः । स्मृत्यनुसारेण सूत्रे भाष्ये च तत्त्वज्ञानासाधनत्वप्रकटनाय पराभिमतानुमाने साधनगोचरेच्छाविषयत्वनिषेधः । तथा चायं सू त्रार्थः—‘अनुमा’ अनुमानत्वेन पराभिमतमभेदसाधकमनुमानं ‘अ स्मिंस्तत्त्वे’ तत्त्वज्ञानार्थे ‘नापेक्षा’ न अपेक्षा यस्यां सा तथोक्ता त
[ अधि - ६. सू - १८. ] दीपिकासहितम्. ११९ गनुमानमपेक्ष्यते । ( ३६ ) उक्तं च स्कान्दे— यथाकामाऽनुमा यस्मात्तस्मात्साऽनपगा श्रुतेः । पूर्वापराविरोधाय चेष्यते नान्यथा क्वचित् । इति । त्त्वज्ञानकारणं न भवति । कुत एतत् ? यतः इयमनुमा 'नानुमा' प्रत्यक्षा- दिविरुद्धानुमा । तद्विरुद्धाऽपि सदनुमा किं न स्यात् ? न स्यात् । कुतः ? 'यथाकामात्' अस्याः । काम इच्छा तदनुसारिप्रवृत्तिमत्त्वात् । त- था च प्रत्यक्षादिविरुद्धाया अपि प्रामाण्ये उक्तरीत्या अतत्त्वविषये प्र- वृत्ताया अनुमाया अपि प्रामाण्यं स्यात्, अविशेषादिति भावः । यत एवमतो न द्वैतश्रुतेरनुमानविरोधोऽपीति ॥ ( ३६ ) अत्रैव स्मृतिसम्मतिमाह—उक्तं चेति ॥ चः समुच्चये । न केवलं सूत्रकृता, स्कान्देऽप्युक्तमिति । किमुक्तमित्यतस्तत्पठति—य- थेति । पदार्थानतिवृत्त्यर्थोऽयं यथाशब्दः । लिङ्गमार्षम् । यद्वा—नायम- व्ययीभावः, किन्त्वनतिक्रान्तः कामो ययेति बहुव्रीहिसमासः । प्रवर्त्तत इति शेषः । अपवृत्तं विरुद्धं गं गमनं यस्याः सा अपगा, न अपगा अ- नपगा इति विग्रहः । तथा च यस्मात् 'अनुमा' श्रुत्यादिविरुद्धं पृथ- गनुमानं 'यथाकामा' काममनतिक्रम्य प्रवर्त्तते । पुरुषेच्छानुसारेण प्रवृत्तिमतीति यावत् । तस्मात् 'श्रुतेरनपगा' श्रुत्यनुकूला तदविरुद्धै- व सा 'पूर्वापराविरोधाय' श्रुतेः पूर्वोत्तरवाक्यविरोधपरिहारार्थं 'इ- ष्यते' अपेक्ष्यते । न केवलमतीन्द्रियार्थतत्त्वनिश्चयायेति चशब्दार्थः । क्वचिदन्यथा चेत् यत्र श्रुत्याद्यानुकूल्यं तद्विरोधः, पूर्वोत्तराविरोध श्च नास्ति तत्र सा अनुमा न मानत्वेनेष्यते मूलाभावात् प्रमाणविरोधा- त् प्रयोजनाभावाच्चेति योजना । यद्वा—श्रुतेरनपगा अनुमा पूर्वोत्तरा- विरोधाय तत्त्वनिश्चयाय च कारणतयेष्यते । नान्यथा नान्या पृथगनु- मा क्वचिद्वाक्येऽपि । कुतः ? यत् सा अनुमा केवलानुमा यथाकामा त- स्मादिति योज्यम् । यथाकामानुमेत्येकं पदं वा । यथाकामं च सा नु- मेति विग्रहः । तथात्वे—यस्मादेषाऽनपगा न तस्मात्सा नोक्तफलार्थ- मपेक्ष्यते । 'अन्यथा' युक्तिं विना नेत्यावृत्त्याऽन्वयः । अतएव सुधा- यां—'यथायोग्याखिलज्ञता' इत्येकं पदमित्युक्तम् । इतिशब्दस्य स्का- न्द इत्यनेनान्वयः ॥
११६ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - १.] (३७) ‘नैषा तर्केण मतिरापनेया’ (कठ. २-९.) इति च ॥ (३८) सू—ॐ ॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ ॐ ॥ १९ ॥ अस्य जीवस्य । युक्तिसमुच्चये चशब्दः । ‘सोऽश्नु ते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ (तै. २- १०.) ‘अनिलयनेऽभयं प्रतिष्ठां विन्दते’ (तै. २-७.) (३७) स्पष्टोक्तित्वात्प्रथमं स्मृतिमुपन्यस्यात्रैव अर्थे श्रुतिसम्मतिं चाह—नैषेति ॥ आपनेयेत्यत्र आ अपेति विच्छेदः । विरुद्धार्थयोरुप सर्गयोः क्रमेण सम्बन्धः । तथा च ‘एषा’ परब्रह्मविषया ‘मतिः’ शुष्कतर्केण ‘आनेया’ उत्पाद्या ‘अपनेया’ निराकार्या च न भवती त्यर्थः । ‘प्रोक्ताऽन्येन सुज्ञानाय प्रेष्ठ’ इति वाक्यशेषः । प्रेष्ठेति नचि केतसं प्रति यमस्य सम्बुद्धिः । ‘अन्येन’ अन्यत्वज्ञानिना जीवेश्वरा दिभेदज्ञानिना भगवद्भक्तादिमतेति यावत् । आचार्येण ‘प्रोक्ता’ त दुपदेशाज्जाता ‘सुज्ञानाय’ स्यादित्यर्थः । इति चेति चः समुच्चये । तथा च इति कठश्रुतौ चोक्तमिति सम्बन्धः ॥ (३८) नन्वस्त्वानन्दमयेन ब्रह्मणा हिरण्यगर्भादिजीवानां भेदः । तथापि सः व्यावहारिकः संसार एवास्ति, न पारमार्थिको मुक्ताव पि । उदाहृतश्रुतीनां सांसारिकभेदपरत्वोपपत्तेरित्याशङ्कां परिहर त्सूत्रं पठति—अस्मिन्निति ॥ अत्रास्येति नानन्दमयपरामर्शः । किन्तु नेतर इत्युक्तजीवस्येत्याह—अस्येति । अस्यान्यस्य चेति प्रतीतिनिरा साय चशब्दं व्याख्याति युक्तीति । अस्तीति शेषः । किं तद्योगशास नमित्यत आह—सोऽश्नुत इति । क्रियाविशेषणमेतत् । लुप्तविभक्ति को वा निर्देशः । तथा च ‘इत्यादि शास्ति’ इत्यादिना शास्तीति वाऽ न्वयः । अनेन न केवलं भेदव्यपदेशादानन्दमयेन जीवानां भेदः सि द्धः । किं नाम? योऽस्मिन् प्रकरणे अस्य जीवस्यानेनानन्दमयेन सह ‘अस्मिंश्च’ मोक्षेऽपि ‘योगं’ सम्बन्धं श्रुतिः शास्ति अतोऽपि । अतो न तदैक्यं जीवानां नापि सांसारिक एव भेदः । न चैतावता कथं भेद सिद्धिः । सम्बन्धस्य भेदसापेक्षत्वात् । यद्वा—यस्मात् ‘अस्मिन्’ प्रकरणद्वयेऽपि ‘अस्य’ जीवस्य ‘तद्योगं’ तैरानन्दमयाद्यैर्योंगं सम्बन्धं ‘शास्ति’ प्रतिपादयति फलत्वेन श्रुतिरिति शेषः । तस्मादानन्दम यो न जीवकोशादिरिति सूत्रार्थ उक्तो भवति । ‘सः’ ब्रह्मज्ञानी
[ अधि - ७. सू - १९. ] दीपिकासहितम्. ११७ ' एतमानन्दमयमात्मानमुपसङ्क्रामति ' ( तै. २-८. ) इत्यादि ॥ ६ ॥ -::::*- ७. अधिकरणम् ॥ ( १ ) 'अदृश्येऽनात्म्ये' इत्युक्तम् । तच्चादृश्यत्वं 'अन्तःप्र- विष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव 'विपश्चिता' सर्वज्ञेन ज्ञातेनैव 'परब्रह्मणा' चतुर्मुखेन च सह 'स- र्वान्' स्वयोग्यकामान् 'अश्नुते' मुक्तौ प्राप्नोतीति श्रुत्यर्थः । 'अदृ- श्येऽनात्म्ये' इति वाक्यं तु प्रागेव व्याख्यातम् । देहादुत्क्रान्तो जी- वः 'एतं' 'आनन्दमयं' पूर्णानन्दं परमात्मानं 'उपसङ्क्रामति' तत्स- मीपं प्राप्नोतीत्यनुवाकान्तरगततृतीयवाक्यस्यार्थः ॥ ॥ इत्यानन्दमयाधिकरणम् ॥ [L
सन्तं न विजानन्ति देवाः' (तै.आ.३-११.) इत्यन्तःस्थ स्य कस्य चिदुच्यते। स च 'इन्द्रो राजा'.. (तै.आ.३- ११-६.) 'सप्त युञ्जन्ति' (तै.आ.३-११-८.) इत्यादिभिरन्यः प्रतीयते। तस्मात्स एवानन्दमय इति न मन्तव्यम् ॥ त्वष्टारं रूपाणि विकुर्वन्तं विपश्चिम् । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुकॢप्तं वाचो वीर्यं तपसाऽन्वविन्दत् । इत्यादि वरुणत्वष्ट्रग्न्यादिप्रापकत्तच्छ्रुतिलिङ्गघटिततैत्तिरीयवाक्यानि गृह्यन्ते । पूर्वपक्षफलमाह—तस्मादिति । इदं चावर्तते । प्रसज्यत इ- ति शेषः । तथा च 'तस्मात्' अन्तस्स्थस्य विष्ण्वन्यत्वात् 'सः' अदृ- ष्टोऽन्य एव प्रसज्यते । तस्मादन्यस्या
[ अधि - ७. सू - २०. ] दीपिकासहितम्. ११९ ( २ ) सू—ॐ ॥ अन्तस्तद्धर्मोपदेशात् ॥ ॐ ॥ २० ॥ अन्तः श्रूयमाणो विष्णुरेव । ‘अन्तस्समुद्रे मनसा चरन्तम् । ब्रह्मान्वविन्दद्दशहोतारमर्णे’ ( तै. आ. ३ - ११ - १० ) ‘समुद्रे अन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति स्वामिनं वायुं ‘सवितारं बृहस्पतिं’ ‘ब्रह्मा’ हिरण्यगर्भः तपसा ‘अ न्वविन्दत्’ लब्धवानित्यर्थः । सिद्धान्तयति—इतीति ॥ ( २ ) कुतो न मन्तव्यमित्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याच ष्टे—अन्तरिति ॥ सूत्रेऽन्तरित्युद्देश्यभागे अपेक्षितं पदमध्याहृत्य दर्शय ति—श्रूयमाण इति । अन्तस्स्थत्वेन श्रुत्योच्यमान इत्यर्थः । विधेयस म्र्पकस्यानुवृत्तस्य तत्तु, इत्यस्यार्थमाह—विष्णुरेवेति । तैत्तिरीयोप निषदतभिन्नभिन्नवाक्योदाहरणपूर्वकं हेत्वंशं व्याचष्टे—अन्तरिति । इत्यादीति । तस्य धर्मास्तद्धर्माः तेषामुपदेशो वचनं इत्यादिरूपश्चा सौ तद्धर्मोपदेशश्च इत्यादितद्धर्मोपदेशः तस्मादित्यर्थः । यद्वा—लुप्त विभक्तिकोऽयं निर्देशः । तथा चेत्यादेरुपदेशादित्यर्थः । समुदायैकव चनमेतत् । अनेन ‘अन्तःप्रविष्टम्’ इति वाक्ये ‘अन्तःश्रूयमाणो’ हृ दयान्तस्स्थत्वेन श्रुत्युक्तो विष्णुरेव, न त्वन्यः । कुतः? तस्य विष्णोर्ध र्माणां क्षीरप्रलयाब्धिस्थत्वब्रह्मज्ञेयत्वब्रह्मातपोलभ्यत्वब्रह्माण्डवीर्यत्वा दिरूपाणां ‘तस्मिन्’ अन्तःश्रुते तेनान्तरित्यादिना ‘उपदेशात्’ उ क्तत्वादिति सूत्रार्थ उक्तो भवति । उपदेशादित्यन्तस्य सूत्रस्य तस्मा दन्य एवेति न मन्तव्यमित्येनेनान्वयः । ‘ब्रह्मा’ वर्तमानचतुर्मुखः ‘स मुद्रे’ प्रलयाब्धौ क्षीराब्धौ च ‘अन्तरर्णे’ जले क्षीरे च ‘मनसा’ स्वेच्छया सञ्चरन्तं ‘दशहोतारं’ ज्ञानकर्माख्यदशेन्द्रियेषु विषयहो तारं तत्तद्विषयस्थापकं दशेन्द्रियाणि जीवेन विषयेषु जुह्वतं वा वि ष्णुं ‘अन्वविन्दत्’ व्यजानात् । ‘कवयो’ ज्ञानिनः ‘समुद्रे’ क्षीरप्र लयाब्ध्योरन्तःस्थितं विचक्षते जानन्ति । ‘वेधसो’ भूतभविष्यद्ब्रह्म णः ‘मरीचिर्मितरुक्त्वतः’ इति छान्दोग्यभाष्योक्तेः । प्रमितरुक्त्व निमित्तात् मरीचिपदोक्तानां जीवानां पदं आश्रयं विष्णुं इच्छन्ति प्रा र्थयन्ति । तत्त्वप्रदीपरीत्या ‘कवयः’ सन्तः ‘वेधसो’ विचक्षते विच क्षणाय ज्ञानाय मरीचीनां पदं विष्णुं इच्छन्तीत्येकान्वयो वा । कवयः ‘अण्डकोशं’ ब्रह्माण्डाख्यस्थानं ‘यस्य’ विष्णोः ‘शुष्मं’ वीर्यं तदु पादानकमाहुरिति श्रुत्यर्थः । विरिञ्चिवाक्यस्यास्य ‘प्राण उल्बं तेन
१२० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १.० ] वेधसः' (तै.आ.३-११-११.) 'यस्याण्डकोशं शुष्ममाहुः' ( तै. आ. ३ - ११-४. ) इत्यादितद्धर्मोपदेशात् । स हि क्षीरसमुद्रशायी । ( ३ ) तस्य च वीर्यमण्डकोशः । सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । क्लृप्तो अमृतेनाहमस्मि' इति वाक्यशेषः । तस्य 'उल्बं' जरायुः 'प्रा णः' अन्तःप्रावरणं येन सहैव जायते । 'तेन' अमृतेन 'अहं' क्लृ प्तोऽस्मीत्यर्थस्तत्त्वप्रदीपेऽभिहितः । क्षीरसमुद्रस्थत्वस्य विष्णुलिङ्गत्वं कुत इत्यत आह—स हीति । 'सः' विष्णुः हिशब्देन लोकप्रसिद्धत्वा दिति हेतुः सूचितः ॥ ( ३ ) अस्तु विष्णोः क्षीराब्धिस्थत्वं लिङ्गं प्रसिद्धत्वात्, तथाऽपि प्रलयार्णवस्थत्वस्य ब्रह्माण्डवीर्यत्वस्य च कुतो विष्णुधर्मत्वमित्यत स्तयोर्विष्णुधर्मत्वे प्रमाणं वक्तुं प्रतिजानीते—तस्येति ॥ 'अण्डको शो' ब्रह्माण्डाख्यस्थानं 'तस्य' विष्णोर्वीर्यमित्यर्थः । चशब्दात्सः प्र लयसमुद्रशायीति प्रतिज्ञा सूच्यते । तस्यैवेत्यवधारणे वा चशब्दः । तथात्वे प्रतिज्ञान्तरमुपलक्षणीयम् । अत एव प्रलयाब्धिशायित्वे 'आ पो नाराः' इति पश्चात्प्रमाणोपन्यासः । श्रुतावाण्डकोशशब्दश्रवणेऽ पि प्रत्ययस्य स्वार्थिकत्वात्तस्यानेनाण्डकोश इत्येवानूदितम् । श्रुताव पि तथैव छेदो वा । 'सः' वासुदेवाज् जातो विष्णुः 'स्वात्' स्व कीयाच्छरीरात् विविधाः प्रजाः 'सिसृक्षुः' स्रष्टुमिच्छुः 'अभिध्या य' विचिन्त्य 'आदौ' अण्डसृष्टेः पूर्वमेव 'अपः' तदावरणरूपाः ससर्ज । तास्वप्सु वीर्यं 'अवासृजत्' न्यधात् मायाद्वारेति शेषः । 'हैमं' हिरण्यात्मकं 'सहस्रांशुसमप्रभं' सूर्यसमप्रकाशं 'तत्' वी र्यं ब्रह्माण्डाख्यमभवत् । 'यस्मिन्' अण्डे 'सर्वलोकपितामहो' ब्रह्मा चतुर्मुखः 'स्वयं' स्वतन्त्रात् हरेः साक्षाज्जज्ञे इत्यर्थः । यतः आपो 'न रसूनवः' नरस्य विष्णोस्सूनवः । 'विष्णुर्नरो नाशात्परो यतः' इति भागवततात्पर्योक्तेः । अतो नाराः प्रोक्ताः येन कारणेन 'पूर्वं' प्रलये 'ताः' आपः तस्य विष्णोः अयनं 'तेन सः नारायणः स्मृतः' तच्छब्दवा च्यत्वेन स्मृत्युक्त इत्यर्थः । यद्यपि—
[अधि - ७. सू - २०.] दीपिकासहितम्. १२१ यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । इति व्यासस्मृतेः । (४) 'अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रतः । पुरुषा त्प्रकृतिर्जगदण्डम्' इति चतुर्वेदशिखायाम् ॥ २० ॥ पुरुषोऽण्डं विनिर्भिद्य यदादौ स विनिर्गतः । आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ इति भागवते । अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वा प्रकाशितः । सोऽपोऽसृजत्ततो नारा . . । इति भागवततात्पर्ये चाण्डसृष्ट्यनन्तरं अप्सृष्टिरुच्यते । तथाऽ पि सा बहिःसृष्टेरन्याऽऽन्तरेति न विरोधः । इतीत्यस्य 'तस्य च वीर्यम ण्डकोशः, स हि प्रलयसमुद्रशायी यतः' इति पूर्वेणान्वयः ॥ (४) इतश्च ब्रह्माण्डजनकवीर्यत्वं प्रलयस्थत्वं च तस्यैव ज्ञायत इत्याह—अहमिति ॥ 'त्रिपुरुषं मायाबीजमजायत' इति वाक्यशेषः । त दिति व्याप्तिवचनोऽसर्वनामशब्दः । अथवा सर्वनामशब्दः, अत एव टीकायां तद्ध्येयमिति व्युत्क्रमः कृतः । तथा च तत्प्रसिद्धं व्याप्तं वा 'अहं' अहेयं रतिः शं च मितमस्येति रश्मिर्जीवः तमिन्दयति प्रेरय तीति रश्मीत् जीवप्रेरकं, इन्द् प्रेरणे इति धातोः अयं दकारान्तः श ब्दः । अनुकृत्यधिकरणे तु—इन्धी दीप्ताविति धातुव्याख्यानात् रश्मी त् भगवदपेक्षया रश्मिरूपाणां अल्पानां सूर्यादितेजसां प्रकाशकमि ति व्याख्यातम्, तत्र धकारान्तोऽग्नीच्छब्दवदयं शब्दो ज्ञातव्यः । 'तेजः' जगत्प्रकाशकं 'पुरुषं' पूर्णषड्गुणं नारायणं तदाख्यं ब्रह्म ते ज इति वा । 'अग्रतः' प्रलये 'जातं' स्थितं तस्मान्नारायणाख्यपुरु षात् 'अग्रतः' प्रथमं 'प्रकृतिः' चेतना जायते गच्छतीति जगत् जी वसमुदायः, जातमित्यस्योभयत्र यथायोग्यं सम्बन्धः । जनिश्च यथा योग्या ग्राह्या । पश्चात् 'अण्डं च' 'त्रिपुरुषं' ब्रह्मवायुरुद्राख्यपुरुष त्रययुक्तं 'मायाबीजं' प्रकृत्युपादानकं अजायतेति तत्त्वप्रदीपदिशा श्रुत्यर्थः । चतुर्वेदशिखायां इत्यस्य वचनादित्यध्याहारेण तस्येत्यने नान्वयः ॥ १६
१२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा-१. ] ( ५ ) सू-ॐ ॥ भेदव्यपदेशाच्चान्यः ॐ ॥ २१ ॥ 'इन्द्रस्यात्मा निहितः पञ्च होता' . . 'वायोरा- त्मानं कवयो निचिक्युः' . . 'अन्तरादित्ये मनसा चरन्तम्, देवानाꣳहृदयं ब्रह्मान्वविन्दत्' ( तै. आ. ३-११०) इत्यादिभेदव्यपदेशात् ॥ २१ ॥ ( ५ ) यद्येवं समुद्रस्थत्वादिलिङ्गादन्तस्स्थो विष्णुः, तर्हि तेनान्त स्स्थेन विष्णुना इन्द्रादीनामभेदोऽत्र विवक्षितोऽस्तु । इन्द्रादिप्रापकश्रु त्यादेरपि सद्भावात् । श्रुत्यादेश्च स्वभावतो लिङ्गस्य निरवकाशतया बलवत्त्वेनान्यतरबाधेनान्यतरपक्षनिर्णयायोगात् । एवं च पूर्वोत्तरपक्ष द्वये अन्योन्यं बाध्यबाधकभावशून्ये सति तदन्यथानुपपत्त्या अन्तः स्थेन विष्णुनेन्द्रादीनामभेदः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—भेदेति ॥ तैत्तिरीये—‘इन्द्रस्य’ इत्येको भेदव्यपदेशः । ‘वायोः’ इत्यन्यः । ‘अन्तः’ इत्यपरः । ‘देवानाम्’ इति चेतरः । आ दिशब्देन ‘अमृतं देवानामायुः प्रजानामिन्द्रं राजानं सवितारम्’ इ त्यादिकं गृह्यते। व्यपदेशादित्यस्यान्य इति सौत्रप्रतिज्ञयाऽन्वयः ॥ अ नेन सूत्रे विधेयसमुच्चयार्थकचशब्दस्य भिन्नक्रमेण अन्वयेन न केव लमन्तश्श्रूयमाणो विष्णुः, किन्त्विन्द्रादिभ्योऽन्यश्च । कुतः ? तस्येन्द्रा द्यन्तर्यामित्वतदन्तस्स्थत्वकथनेन तेभ्यो भेदोक्तेरिति सूत्रार्थ उक्तो भ वति । अत्र श्रुताविन्द्रशब्दोऽन्यपरः ; षष्ठीश्रवणात् । ‘इन्द्रो राजा’ इत्यादौ तु इन्द्रादिशब्दाः परममुख्यवृत्त्या विष्णुपरा एव, बाधकाभा वात् । तथा च मनो विहाय पञ्चसु ज्ञानेन्द्रियेषु शब्दादिविषयहोता तैर्विषयानुभावकः । इन्द्रस्यात्मा अन्तर्यामी आदानादिकर्ता वा । स र्वहृदयेषु ‘निहितः’ सन्निहितः ‘कवयो’ ज्ञानिनः ‘वायोरात्मानं निचिक्युः’ ददृशुः आदित्येऽन्तः ‘मनसा’ स्वेच्छया संचरन्तं विष्णुं कवयः अन्वविन्दन् । ‘ब्रह्मा’ चतुर्मुखः देवानां हृदयनात् स्थितेः प्र वर्तनाद्वा हृदयं विष्णुं ‘अन्वविन्दत्’ अपश्यदिति श्रुत्यर्थः ॥ ॥ इत्यन्तस्स्थत्वाधिकरणम् ॥ ७ ॥
[ अधि - ८. सू - २२. ] दीपिकासहितम्. १२३ ८. अधिकरणम् ॥ ( १ ) ' को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आन न्दो न स्यात् ' ( तै-२-७. ) इति आकाशस्यानन्द मयत्वे हेतुरुक्तः न तु विष्णोः । ( २ ) इति न मन्तव्यम् । यतः— सू—ॐ ॥ आकाशस्तल्लिङ्गात् ॐ ॥ २२ ॥ ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवति लोकतोऽन्यत्रप्रसिद्धाकाशपदोपलक्षि ताधिभौतिकाशेषशब्दसमन्वयः क्रियते । फलकथनेन पूर्वपक्षः सूचि तो भवतीत्याशयेन पूर्वपक्षफलमाह—को हीति ॥ इतीति । इत्यानन्दम याधिकरणोदाहृतवाक्येनेत्यर्थः । तुशब्दस्याकाशस्य त्विति सम्बन्धः । तथा च छन्दोगश्रुत्युक्ताकाशाभिन्नाकाशस्यैवेत्यर्थः । ' आनन्दमय त्वे ' पूर्णानन्दत्वेन निमित्तेन आनन्दमयशब्दवाच्यत्वे ' हेतुः ' लोक चेष्टकत्वरूपः । तुशब्दार्थवकारव्यावर्त्यमाह—नेति । अनेन विष्णुभि न्नभूताकाशस्यैव छन्दोगश्रुत्युक्ताकाशशब्दवाच्यत्वमिति पूर्वपक्षे ' को हि ' इति तैत्तिरीयश्रुत्युक्तोऽपि स एवेति तदुक्तहेतुना तस्यैवान न्दमयत्वं सिध्यति, न विष्णोरिति फलमुक्तं भवति । पूर्वसङ्गतिस्त्व धिकाशङ्कां कृत्वाऽत्र पूर्वन्याय एवातिदिश्यत इत्यातिदेशिकी द्रष्टव्या॥ ( २ ) सिद्धान्तयति—इतीति ॥ कुतो न मन्तव्यमित्याशङ्कायां त त्र हेतुतया सूत्रमुपादत्ते । यत इति । इदं चावर्तते । तत्राद्यस्य ' यत श्चोदेति ' इतिवत् कुत इत्यर्थः । ' यच्छब्दस्तु परामर्शे प्रश्नार्थेऽपि च भण्यते' इति भागवततात्पर्योक्तेः । द्वितीयस्तु न मन्तव्यमिति प्रति ज्ञायां सूत्रार्थस्य हेतुत्वद्योतकः । विषयादेः पूर्वपक्षफलकथनेन सूच नेऽपि मुखतोऽनुक्तेः तदनुवादपूर्वकं सूत्रं व्याचष्टे—अस्येति । ' इत्य त्र ' वाक्ये प्रतिपाद्यत्वस्येति शेषः । चोऽप्यर्थः । यद्यपि तथापीत्यर्थे । ' असौ ' आकाशोऽत्र वाच्य इति शेषः । सूत्रेऽनुवृत्तस्य ' तत्तु ' इत्य स्यार्थो विष्णुरेवेति । इत्यादीति । लुप्तविभक्तिको निर्देशः आदिश ब्दात् ' सर्वाणि भूतानि ' इत्यादिजगत्कारणत्वप्रतिपादकं वाक्यं गृह्य ते । यथोक्तं तत्त्वप्रदीपे—“ सर्वाणि भूतानि ' इत्यादिना उदीर्यमाणं जगदुत्पादकत्वादिकमादिशब्दादुपाददीत ” इति । लिङ्गपदं श्रुत्युप
१२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] 'अस्य लोकस्य का गतिरित्याकाश इति होवाच' (छा- १-९.) इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु, विष्णुरेव । 'स एष परोवरीयानुद्गीथः स एषोऽनन्तः' (छा.१-९.) इत्यादिताल्लिङ्गात् । लक्षकम् । तथा चेत्थं योजना-यद्यपि 'अस्य लोकस्य' इति छन्दोग वाक्ये भूताकाशस्य श्रुत्यादिवलादस्ति प्रतिपाद्यत्वस्य प्राप्तिः । तथाऽ पि नासावत्र वाक्ये आकाशपदेन वाच्यो युज्यते, किन्तु-विष्णुरे व । कुतः ? 'स एषः' इत्यादिवाक्ये 'तल्लिङ्गात्' तस्य विष्णोर्लिङ्गम साधारणधर्मः परोवरीयस्त्वादिः । तस्य तस्मिन्नाकाशे श्रवणादुक्त त्वात् । यत एवं तल्लिङ्गात् असौ छन्दोगश्रुत्युक्ताकाशो विष्णुरेव, त त एव 'को हि' इति तैत्तिरीयवाक्येऽप्यसावेव प्रतिपाद्यत इति तस्यै वानन्दमयत्वे हेतुरुक्तो न तु भूतस्य । अतो भूताकाशस्यानन्दमयत्वे हेतुरुक्तः, न तु विष्णोरिति न मन्तव्यमिति । अनेन सूत्रयोजना दर्शि ता । अस्येत्यादेरयमर्थः- 'अस्य' प्रत्यक्षसिद्धस्य पृथिवीलोकस्य त दभिमानिनश्चतुर्मुखस्य 'का गतिः' आश्रय इति शिलकेन पृष्टः प्रवा हणो राजा आदीप्तत्वादाकाशनामको विष्णुरिति प्रत्युवाच । कथमिति त्याकांक्षायां तदुपपादनाय तस्याकाशस्य महिमानमाह- 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परो वरीयानुद्गी थः स एषोऽनन्तः' इति । अत्र वैशब्दस्य प्रसिद्धिद्योतकस्य सन्निहित सर्वभूतान्वयो वा, 'स्युरेवं तु पुनर्वैत्वेत्यवधारणवाचकाः' इत्यभिधा नादवधारणार्थत्वं वा द्रष्टव्यम् । भूतशब्दो भूताकाश एवात्रोच्यते इ ति पूर्वपक्षे आकाशव्यतिरिक्तभूतपरः । सिद्धान्ते तु सर्वभूतपरः । ब्र ह्मादिसर्वजगतपरो वा । तथा च 'सर्वाणीमानि' प्रमितानि आकाशा द्विभूतानि ब्रह्मादिजगद्वा आकाशादेव समुत्पद्यन्ते । 'हवै' प्रसिद्धं हि । आकाशं 'प्रत्यस्तं' अदर्शनं 'यन्ति' तत्रैव प्रलये मुक्तौ च ली नाः भवन्ति । कुतः ? 'हि' यस्मादाकाश एव 'एभ्यो' ब्रह्मादिभ्यो 'ज्यायान्' अधिकोत्तमः । कुत एतत् ? यत आकाशः 'परायणं' उत्त माश्रयः नैतस्मादुत्तमं वस्त्वाशङ्क्यमिति भावेनाह-स इति । 'स ए षः' आकाशनामा भगवान् 'परोवरीयान्' अत्र-
[ अधि-८. सू-२२.] दीपिकासहितम्. १२५
( ३ ) 'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि' (ऋ.१-१५४-१.) 'परो मात्रया तन्वा वृ- धान' (ऋ.७-९८-१.) इत्यादिना तस्यैव हि त- ल्लिङ्गम् । परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । परो वरं परं तस्मात्प्रोक्तं पारोवरीयकम् । इति सामसंहितावचनानुसारेणादौ पर इति शब्दान्तरस्य मध्ये वर- शब्दान्तरस्य च आवापेन वृत्तिवाक्ये सुबादेशस्य सोर्लोपेन रुत्वो- त्वगुणेषु समाने परे ओप्रशब्दद्वयस्य लोपे चोत्तमोत्तमोत्तम इत्यर्थो ज्ञातव्यः । 'उद्गीथः' उच्चत्वेन गीत उक्तो वेदेन । तकारस्य थकारो व्यत्ययात् । 'स एषः' आकाशः 'अनन्तो' देशकालगुणैरपरिच्छि- न्न इति । छान्दोग्यभाष्ये तु 'उच्चत्वाद्गीतत्वात्सर्वस्थानस्थत्वादुद्गी- थो भगवान्' इति व्याख्यातम् ॥ ( ३ ) 'स एषोऽनन्तः' इत्युक्तस्यानन्तत्वस्यापरिमितत्वस्य विष्णुनि- ष्ठत्वं कुतो ज्ञायत इत्यत आह—विष्णोरिति ॥ विष्णोर्वीर्याणि 'कं' कोऽनु को वा 'प्रवोचम्' प्रावोचत् । साकल्येन प्रवक्ति न कोऽपि । 'यः' कः कविर्ब्रह्मा 'पार्थिवानि रजांसि' पार्थिवपरमाणून् 'विममे' ग- णयति । सोऽपि न प्रवक्तीति श्रुत्यर्थः । 'परोवरीयान्' इत्युक्तसर्वो- त्तमत्वस्य विष्णुधर्मत्वं कुत इत्यत आह—पर इति । अत्र 'न ते म- हित्वमन्वश्नुवन्ति' इति उत्तरवाक्यादुक्तार्थो ज्ञायते । अत एवादि- शब्द उभयान्वयी । तत्राद्यो 'विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि' इति स्मृतिग्राही । व्याख्यातेयं श्रु- तिर्जन्मनेये । इत्यादिना वाक्येनेति शेषः । यद्यपि श्रुत्यनुसारात्सर्वो- त्तमत्वे प्रथमं प्रमाणं वक्तव्यं न तु अनन्तत्वे । अत एव टीकायामादौ सर्वोत्तमत्वं गृहीतम् । तथाऽपि अनन्तत्वस्य सावकाशत्वशङ्काविषय- त्वात्प्रथमं तत्र प्रमाणोपन्यासः । अत एव तत्रैवोत्तरत्र स्मृत्या सावका- शत्वशङ्कापरिहारः । 'तस्य' विष्णोः हिशब्दो यत इत्यर्थे । 'तत्' अन- न्तत्वादि 'लिङ्गं' धर्म इत्यवगतम् । अतो न हेतुविशेषणासिद्धिरि- ति वाक्यशेषः । एवकारपाठे नानैकान्त्यमिति शेषः । उत्तरत्रान्वयो वा । यद्यपि 'अनन्तः' इति श्रुतिः ; वाचकशब्दत्वात् । तथाऽपि तत्पद- प्रवृत्तिनिमित्तस्य लिङ्गत्वमप्यविरुद्धम् ॥
१२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ४ ) अनन्तो भगवान् ब्रह्मा आनन्देत्यादिभिः पदैः । प्रोच्यते विष्णुरेवैकः परेषामुपचारतः । इति ब्राह्मे । ( ५ ) 'नामानि सर्वाणि यमाविशन्ति' ( भाल्लवेय ) इति चोक्तम् ॥ २२ ॥ ९. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ अत एव प्राणः ॥ ॐ ॥ २३ ॥ ( २ ) तद्धै त्वं प्राणो अभवः महान् भोगः प्रजापतेः । ( ४ ) नन्वनन्तत्वं 'अनन्ताकाशवत्पश्यन्' इत्याकाशस्यापि स्म- र्यते, अतः सावकाशत्वात्कथं विष्णोरेव तल्लिङ्गमित्यतः स्मृतिमाह- अनन्त इति ॥ आनन्देति लुप्तविभक्तिको निर्देशः । विष्णुरेवैको मुख्य- तया प्रोच्यत इति सम्बन्धः । 'परेषां' विष्णोरन्येषां 'उपचारतः' स्वस्वसमीपगतपरमात्मसम्बन्धादेव वाच्यतेति शेषः । इति ब्राह्म इत्यस्य तस्यैव तल्लिङ्गमित्युक्तमिति पूर्वेणान्वयः । अनेनैवकारो लिङ्ग- स्य निरवकाशत्वज्ञापक इति सूचितम् ॥ ( ५ ) ननु श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयः । लिङ्गस्य श्रुति- तो दुर्बलत्वादित्यतः आकाशश्रुतिर्विष्णौ सावकाशेति श्रुत्या दर्शय- ति—नामानीति ॥ 'चो' यतो 'नामानि सर्वाणि' इति वाक्येन वि- ष्णोराकाशादिसर्वशब्दवाच्यत्वमुक्तम्, अतो लिङ्गेन श्रुतेर्बाधया नि- र्णयो युक्त इति योजना ॥ ॥ इत्याकाशाधिकरणम् ॥ ८ ॥ ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धाध्यात्मिकाशेषशब्दोप- लक्षकप्राणशब्दस्य ब्रह्मणि समन्वयः क्रियते । सर्वत्रादौ सूत्रं पाठ्यम् । पश्चात्सङ्गयादिकं वक्तव्यमिति सूचयितुमत्र सूत्रमादावेव पठति- अत एवेति ॥ ( २ ) विषयवाक्योदाहरणपूर्वकं पूर्वाधिकरणेन सङ्गतिं विषयसंश- यौ च सूचयति-तदिति ॥ अत्र यत्तदोरावृत्तिः । भुज्यत इति भोगः आ- नन्दः । तेन तद्वानुपलक्ष्यते, धर्मधर्मिणोरभेदविवक्षा वा । तथा च हे
[ अधि - ९. सू - २३. ] दीपिकासहितम्. १२७ भुजः करिष्यमाणः यद्देवान् प्राणयो नव ( तै.आ. ३- १४. ) इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् ॥ ( ३ ) स च प्राणः प्रसिद्धेर्वायुः इत्यापतति । ( ४ ) न चैवम् । यतो विष्णुरेव प्राणः, अत एव ' श्रीश्च ते विष्णो 'यत्' यस्मात् 'प्रजापतेः' हिरण्यगर्भस्य तदुपलक्षितानां सक लजीवानां 'भुजः' भोगान् योग्यानन्दान् 'करिष्यमाणः' उपलक्षणमेत त्-कुर्वाणोऽकार्षीच्च । 'तस्मात्त्वं' 'महान् भोगः' पूर्णानन्दवान्भव । स्वस्य महाभोगाभावे परस्मै तद्दानानुपपत्तेः । यस्माच्च पायुगुह्यैक्येन नवेन्द्रियाभिमानिनो देवान् त्वं 'प्राणयः' अचेष्टयः । इदमप्युपलक्षणं- चेष्टयसि चेष्टयिष्यसि च । तस्मात्त्वं प्राणः प्राणशब्दवाच्योऽभव इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वेतत्सर्वं मुख्यप्राणे योज्यम् । इती ति। 'इति' तैत्तिरीयशाखागतवाक्ये 'परमानन्दत्वं' पूर्णानन्दत्वमुक्तमि त्यावर्तते । तथा च यदानन्दमयत्वं विष्णोरुक्तं तत्परमानन्दत्वपर्यवसि तं 'तद्वै त्वम्' इति वाक्ये ' महाभोगशब्देन' ' महान् भोगः ' इति प दद्वयात्मकवाक्येन च प्राणस्योक्तमिति योजना । अनेन प्राणाख्यो वि षयः । तस्य विष्ण्वन्यत्वाक्षेपमुखेनानन्दमयत्वस्याप्यन्यनिष्ठत्वाक्षेपा दानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिः । सः वायुरुत विष्णुरिति संशयश्च सूचितो भवति ॥ ( ३ ) सयुक्तिकं पूर्वपक्षं दर्शयति— स चेति ॥ तच्छब्द आवर्तते । चशब्दोऽवधारणे । वायुरित्यनेन सम्बध्यते । आनन्दमयश्चेति समुच्च ये वा । तथा च परमानन्दत्वं यस्य प्राणस्योक्तं सः 'प्राणः' तच्छब्द वाच्यो मुख्यवायुरेवेति 'आपतति' प्राप्नोति । अतएवानन्दमयोऽपि स एवेत्यापतति । कुतः? प्रसिद्धेः प्राणश्रुतेः तस्याश्च तस्मिन्वायौ प्र सिद्धे रूढत्वात् । प्राणपदप्रवृत्तिनिमित्तस्य जीवनादिहेतुत्वस्य च श रीरे सति मुख्ये जीवनादिकं सम्भवति नासतीत्यन्वयव्यतिरेकाभ्यां स्वशरीरगतवायुविकारद्वारा मुख्यवायावेव प्रसिद्धेर्दर्शनादिति योजना ॥ ( ४ ) सिद्धान्तयति— न चेति ॥ एवं प्राणस्य वायुत्वं आनन्दमय त्वं च न युक्तमित्यर्थः । कुतो नैवमित्याशङ्कायां तत्र हेतुतया सूत्रं व्याचष्टे—यत इति । सूत्रार्थस्य हेतुत्वद्योतकोऽयं यतश्शब्दः । सूत्रेऽनु वृत्तस्य तद्धितस्यार्थो विष्णुरेवेति । तथा च यतोऽयं प्राणो विष्णुरे