पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 162, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १८. ] दीपिकासहितम्. ११९ गनुमानमपेक्ष्यते । ( ३६ ) उक्तं च स्कान्दे— यथाकामाऽनुमा यस्मात्तस्मात्साऽनपगा श्रुतेः । पूर्वापराविरोधाय चेष्यते नान्यथा क्वचित् । इति । त्त्वज्ञानकारणं न भवति । कुत एतत् ? यतः इयमनुमा 'नानुमा' प्रत्यक्षा- दिविरुद्धानुमा । तद्विरुद्धाऽपि सदनुमा किं न स्यात् ? न स्यात् । कुतः ? 'यथाकामात्' अस्याः । काम इच्छा तदनुसारिप्रवृत्तिमत्त्वात् । त- था च प्रत्यक्षादिविरुद्धाया अपि प्रामाण्ये उक्तरीत्या अतत्त्वविषये प्र- वृत्ताया अनुमाया अपि प्रामाण्यं स्यात्, अविशेषादिति भावः । यत एवमतो न द्वैतश्रुतेरनुमानविरोधोऽपीति ॥ ( ३६ ) अत्रैव स्मृतिसम्मतिमाह—उक्तं चेति ॥ चः समुच्चये । न केवलं सूत्रकृता, स्कान्देऽप्युक्तमिति । किमुक्तमित्यतस्तत्पठति—य- थेति । पदार्थानतिवृत्त्यर्थोऽयं यथाशब्दः । लिङ्गमार्षम् । यद्वा—नायम- व्ययीभावः, किन्त्वनतिक्रान्तः कामो ययेति बहुव्रीहिसमासः । प्रवर्त्तत इति शेषः । अपवृत्तं विरुद्धं गं गमनं यस्याः सा अपगा, न अपगा अ- नपगा इति विग्रहः । तथा च यस्मात् 'अनुमा' श्रुत्यादिविरुद्धं पृथ- गनुमानं 'यथाकामा' काममनतिक्रम्य प्रवर्त्तते । पुरुषेच्छानुसारेण प्रवृत्तिमतीति यावत् । तस्मात् 'श्रुतेरनपगा' श्रुत्यनुकूला तदविरुद्धै- व सा 'पूर्वापराविरोधाय' श्रुतेः पूर्वोत्तरवाक्यविरोधपरिहारार्थं 'इ- ष्यते' अपेक्ष्यते । न केवलमतीन्द्रियार्थतत्त्वनिश्चयायेति चशब्दार्थः । क्वचिदन्यथा चेत् यत्र श्रुत्याद्यानुकूल्यं तद्विरोधः, पूर्वोत्तराविरोध श्च नास्ति तत्र सा अनुमा न मानत्वेनेष्यते मूलाभावात् प्रमाणविरोधा- त् प्रयोजनाभावाच्चेति योजना । यद्वा—श्रुतेरनपगा अनुमा पूर्वोत्तरा- विरोधाय तत्त्वनिश्चयाय च कारणतयेष्यते । नान्यथा नान्या पृथगनु- मा क्वचिद्वाक्येऽपि । कुतः ? यत् सा अनुमा केवलानुमा यथाकामा त- स्मादिति योज्यम् । यथाकामानुमेत्येकं पदं वा । यथाकामं च सा नु- मेति विग्रहः । तथात्वे—यस्मादेषाऽनपगा न तस्मात्सा नोक्तफलार्थ- मपेक्ष्यते । 'अन्यथा' युक्तिं विना नेत्यावृत्त्याऽन्वयः । अतएव सुधा- यां—'यथायोग्याखिलज्ञता' इत्येकं पदमित्युक्तम् । इतिशब्दस्य स्का- न्द इत्यनेनान्वयः ॥