पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 161, कुल 1267 में से
संदर्भ में पढ़ें११४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] हि भागवते । ( ३४ ) न च तत्तदनुमानविरोधः । ( ३५ ) सू—ॐ ॥ कामाच्च नानुमा नापेक्षा ॥ ॐ ॥ १८ ॥ यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथ अरूपेणावस्थितिरेव मुक्तिरित्यर्थः । भागवत इत्यस्य प्रमादात्मकत्वोक्ते रित्यनेनान्वयः ॥ ( ३४ ) ननु भेदोक्तेः श्रुतिविरोधाभावेऽपि जीवो ब्रह्माभिन्नः चेत नत्वात् ब्रह्मवत् । भेदो मिथ्या भेदत्वात् चन्द्रभेदवत् । विमतानि श रीराणि मद्भोगायतनानि शरीरत्वात् मच्छरीरवत् । इत्यनुमानविरो धस्तु भविष्यतीत्यत आह—न चेति ॥ चोऽविरोधसमुच्चये । तथा च न केवलं श्रुतिविरोधाभावः, किन्तु तस्याः भेदोक्तेः तेनाद्वैतपरिक ल्पितानुमानेन विरोधोऽपि नेत्यर्थः । अनेन सौत्रश्चशब्दो व्याख्यातः ॥ ( ३५ ) तत्र हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे—कामादिति ॥ ‘हि’ यतोऽभेदसाधनाय परोपन्यस्तं ‘अनुमानं’ अनुमानत्वेन परा भिमतं ‘पृथक्’ प्रत्यक्षादिविरुद्धं श्रुतिसाहाय्यरहितं च अतः ‘तत्त्वे’ विषये ज्ञानोपलक्षकमेतत् । तत्त्वज्ञानार्थे ‘नापेक्ष्यते’ तत्त्वज्ञानकारणं न भवतीत्यर्थः । न चाप्रयोजकता । ‘हि’ यतः ‘यथाकामं’ यथेच्छं ईश्वरो न स्वतन्त्रः चेतनत्वात् देवदत्तवत् । जड आत्मा वस्तुत्वादित्या दिरूपेण न तत्त्वे अतत्त्वेऽपि अनुमातुं शक्यते । अतः अनेन प्रत्यक्षादिवि रुद्धस्यापि प्रमाणत्वे चेतनत्ववस्तुत्वादेरपि प्रमाणत्वं स्यात् अविशे षादिति विपक्षे बाधकस्तर्क उक्तो भवति । सूत्रे ‘कामात्’ इत्येकदे शोत्कीर्तनेन यथाकामादिति समग्रशब्दो लक्ष्यते ज्योतिश्शब्देन ज्यो तिष्टोमशब्दवत् इत्याशयेन यथाकाममित्युक्तम् । हीत्यनेन पञ्चमी व्याख्याता । ‘तत्त्वे’ इत्यनेनास्मिन्नित्यस्याकर्षोऽध्याहारो वा ज्ञापितः । ‘अनुमानम्’ इत्यनेन ‘नानुमा’ इति भिन्नपदत्वं ‘पृथक्’ इत्यनेन न ञो विरुद्धार्थकत्वमाश्रित्य ‘नानुमा’ इत्येकपदं च सूचितम् । ‘नापे क्ष्यते’ इत्यनेन नशब्दघटितसमासमङ्गीकृत्य ‘नापेक्षा’ इत्यंशो व्या ख्यातः । स्मृत्यनुसारेण सूत्रे भाष्ये च तत्त्वज्ञानासाधनत्वप्रकटनाय पराभिमतानुमाने साधनगोचरेच्छाविषयत्वनिषेधः । तथा चायं सू त्रार्थः—‘अनुमा’ अनुमानत्वेन पराभिमतमभेदसाधकमनुमानं ‘अ स्मिंस्तत्त्वे’ तत्त्वज्ञानार्थे ‘नापेक्षा’ न अपेक्षा यस्यां सा तथोक्ता त