पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 347, कुल 1267 में से
संदर्भ में पढ़ें३०० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( ८ ) सू- ॐ ॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमा नाभ्याम् ॥ ॐ ॥ २८ ॥ 'वाचा विरूप नित्यया' (ऋ.८-६४-६०) इत्यादिश्रुते राप्त्यनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्य । वाः पूर्वसिद्धा मुक्ता वा' इत्युक्तमिति वाच्यम् । साध्यशब्दितानां प्राधान्येन क्रमोल्लङ्घनात् । छन्दोगश्रुतिक्रमानुसारेण तत्त्वप्रदीपप्रवृ त्तेः । न चैवं व्याख्याने पुरुषार्थाधिकरणेऽस्याः प्राप्तपददेवतापरत्वे नोदाहरणानुपपत्तिरिति वाच्यम् । ये पदं प्राप्य जगद्धारका अभूवन् ते देवा यज्ञेन यज्ञमयजन्त ते ह नाकं मोक्षगतातिशयं सचन्ते इति श्रुतेरर्थान्तरविवक्षया तदुपपत्तेस्तदनुसारेण तट्टीकायां व्याकरणस्या प्युपपत्तेश्च ॥ (८) यद्देवानामनधिकारसिद्ध्यर्थं आद्यन्तवत्त्वमुक्तं तदुपर्यनेकेत्या भ्यां, तदाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्व्याचष्टे—शब्द इति ॥ अनेकप्रतिपत्तेर्दर्शनान्न विरोध इत्याद्यनुषज्यते। यदितहोरप्य नुषङ्गः । तथा चेत्थं योजना—यद्यनेकेषां पूर्वपूर्वमुक्त्या देवतापदप्रा प्तेर्दर्शनान्न कर्मणि विरोध इति उच्यते, तर्हि तत्रैव शब्दे दर्शनपदोक्ते वेदेऽप्रामाण्याख्यो विरोधः स्यात् । कुतः? देवानामनित्यत्वात् । अने केत्यादिना देवानामनित्यत्वस्यान्तवत्त्वस्योक्तत्वात् । ननु देवानामनित् यत्वेऽपि वेदाना मप्रामाण्यं कुत इत्यतः—तदुदितानामित्याह । हेतुग र्भविशेषणमेतत् । अनेनानित्यदेववाचकत्वादिति हेतुः सूचितः । ननु देवानामनित्यत्वेऽपि न तद्वाचकवेदस्य वाच्यहीनत्वरूपाप्रामाण्यं प्रस ज्यते, देववद्वाचकवेदस्याप्यनित्यत्वेन कदाऽपि वाच्यहीनत्वाभावा दित्यत उक्तं—वेदस्य नित्यत्वादिति । वेदस्य नित्यत्वमेव कुत इत्यत उ क्तं—वाचेति । श्रुतेरित्यस्य वेदस्य नित्यत्वादित्यनेनान्वयः। ज्ञानोपलक्ष कं चैतत् । आदिशब्देन 'नित्यया नित्यया' (पौध्यायणाश्रुतिः) 'नित्या वा व श्रुतिः' ( ) इत्यादिकं गृह्यते। ननु न नित्यो वेदः । न च श्रु तिविरोधः, श्रुतेर्बहुकालीनत्वरूपनित्यत्वार्थकत्वेनोपचरितार्थत्वादित्य तोऽप्याह। तथा सतिवेदस्यानित्यत्वादप्रामाण्याख्योविरोधः स्यादिति। ननु वेदस्यानित्यत्वेऽप्याप्तिमूलत्वेन प्रामाण्यं सम्भवतीत्यत आह—आ प्त्यनिश्चयादिति । वेदकर्तुरिति शेषः। तथा च कर्तुः सर्वज्ञत्वादौ मानाभा वेन वेदकर्तुः सार्वज्ञादिरूपाप्त्यनिश्चयादित्यर्थः। यद्वा—अस्तु वा कर्तर्या