पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 375, कुल 1267 में से
संदर्भ में पढ़ें३२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति । ( कठ. ६-२. ) इत्युद्यतवज्रज्ञानान्मोक्षः श्रूयते इति । ( २ ) अतोऽब्रवीत्— सू—ॐ ॥ कम्पनात् ॥ ॐ ॥ ३९ ॥ 'एजति' इति कम्पनवचनादुद्यतवज्रो भगवान्नेव । र्थः—'यत्किञ्च' यत्किञ्चित् दृष्टं श्रुतं यत्सर्वं जगत् 'प्राणे' प्राणाना न्निमित्तात् प्राणशब्दवाच्ये हरौ स्थितं प्राणान्निस्सृतं ततो जातं च तदिदं सर्वंजगत् 'यस्मादेजति' यत्प्रेरणया चेष्टते तन्महनीयत्वात् पूज्यत्वात् 'महत्' भीषयतीति भयं दुष्टानां भयङ्करं 'उद्यतं' सर्वप्र यत्नवत् 'उद्यतत्वं च प्रयत्नवत्त्वं' उत्पूर्वस्य यमेस्तदर्थत्वात्, इति चन्द्रिकोक्तेः । यत्नप्रियत्न इत्यस्येदं रूपं, उच्छब्द उत्कर्षवाचीत्यपि केचित् । 'वज्रं' दोषवर्जनात् अप्रियवर्जनाद्वा तच्छब्दवाच्यम् । एत द्ये 'विदुः' अपरोक्षतो जानन्ति ते 'अमृताः' मुक्ताः भवन्तीति । य द्वा—प्राण इति प्रथमान्तं पदं तथा च प्राणो मुख्यप्राणः । इदं दृष्टं किञ्चान्यच्छ्रुतं सर्वं जगच्च यस्मान्निस्सृतं यस्मादेजति च तदेतद्वज्रं ये विदुरित्यर्थः । अथवा—यदित्यस्यावृत्तिस्तत्र प्रथमस्य जगद्विशेष णत्वं, द्वितीयस्य मुख्यप्राणपरत्वम्, तृतीयस्य वज्रपरत्वम् । स इति लभ्यते । तस्य प्रथमान्तप्राणपदेनान्वयः । तथा च यत्किञ्चिज्जगत्स र्वं यद्यस्मान्निस्सृतं स मुख्यप्राणः । यस्मादेजति तद्वज्रं ये विदुरित्य र्थः । अत्र प्रथमव्याख्याने मुख्यप्राणस्य जगदन्तर्गतत्वेन भगवत्प्रेर्य त्वं द्वितीये जगत्साम्येन, तृतीये तु मुख्यप्राणस्यैव साक्षाद्भगवत्प्रेर्य त्वं जगतस्तु मुख्यप्राणप्रेर्यत्वमिति भेदः । पूर्वपक्षी तु इन्द्रायुधमेव वज्रपदेनोक्तम्, उद्यतत्वमुद्यमनकर्मत्वं तस्यैव लिङ्गमिति मन्यते ॥ (२) सिद्धान्तयत्सूत्रमवतार्यव्याचष्टे—अत इति ॥ 'कम्पनवचनात्' इत्येतद्रूपात् सर्वजगच्चेष्टकत्ववचनादित्यर्थः । यद्वा—कम्पनस्य मु ख्यप्राणस्य एजतीतिकम्पनवचनाच्चेष्टकत्वोक्तेरित्यर्थः । वचनादिति त्यनेन कम्पनपदं तद्वचनपरमित्युक्तं भवति । न च श्रुतौ वाक्यभेदाङ्गी कारे कम्पकत्वं वज्रे नोच्यत इति वाच्यं । कम्पकत्वनिमित्तभयङ्करत्व स्य वज्रे अभिधानाद्वाक्यभेदायोगात् । उद्यतवज्र इति सूत्रे शेषोक्तिः